Page loading... Please wait.
4|4|109 - सोदराद्यः
॥ तस्मै पाणिनये नमः ॥
4|4|109
SK 1660
सोदराद्यः   🔊
सूत्रच्छेदः
सोदरात् (पञ्चम्येकवचनम्) , यः (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , शयितः  4|4|108 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"शयितः" (इति) सोदरात् संज्ञायाम् यः
सूत्रार्थः
"शयितः" अस्मिन् अर्थे सप्तमीसमर्थात् "सोदर"शब्दात् संज्ञायां विषये "यः" अयम् प्रत्ययः विधीयते ।
"सोदर" इत्युक्ते "समानम् उदरम्" । "समानोदर" इत्यस्मात् शब्दात् "शयितः" (शयनम् कृतः / स्थितः) अस्मिन् अर्थे "य" प्रत्यये कृते विभाषोदरे 6|3|88 इत्यनेन "समान" इत्यस्य विकल्पेन "स" आदेशं कृत्वा "सोदर" इति शब्दः सिद्ध्यति । तस्मात् अग्रे य-प्रत्ययं कृत्वा "सोदर्य" इति तद्धितान्तः शब्दः सिद्ध्यति । प्रक्रिया इयम् -

समानोदरे शयितः
= समानोदर + य
→ सोदर + य [ विभाषोदरे 6|3|88 इति "समान" इत्यस्य वैकल्पिकः "स" आदेशः]
→ सोदर् + य [यस्येति च 6|4|148 इति अकारलोपः]
→ सोदर्य

सोदरे (= समाने उदरे) शयितः सः सोदर्यः भ्राता, सा च सोदर्या स्वसा ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे वस्तुतः "यत्" इति प्रत्ययः अनुवर्तते । परन्तु तं बाधित्वा अत्र "य"प्रत्ययविधानम् कृतम् अस्ति । अस्य प्रयोजनम् स्वरविशेषः । "यत्"प्रत्ययः तित्स्वरितम् 6|1|185 इत्यनेन स्वरितः जायते, परन्तु "य"प्रत्ययः तु आद्युदात्तश्च 3|1|3 इत्यनेन आद्युदात्तः अस्ति । अत्र प्रत्ययस्य आद्युदात्तत्वम् इष्यते, अतः अत्र विशिष्टरूपेण "य"प्रत्ययविधानम् कृतम् अस्ति ।

2. "समानोदर" शब्दस्य सोदर-आदेशः विकल्पेनैव भवति । पक्षे समानोदरे शयित ओ चोदात्तः 4|4|108 इत्यनेन "समानोदर्य" इति अपि रूपं जायते । "समानोदर्य" इत्यस्य ओकारः उदात्तः अस्ति परन्तु "सोदर्य" शब्दस्य ओकारः उदात्तः नास्ति इति अपि द्वयोर्मध्ये भेदः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सोदरशब्दात् सप्तमीसमर्थात् शयितः इत्येत्स्मिन्नर्थे यः प्रत्ययो भवति। विभाषोदरे 6|3|88। इति सूत्रेण यकारादौ प्रत्यये विवक्षिते प्रागेव समानस्य सभावः। समानोदरे शयितः सोदर्यः भ्राता। ओ च उदात्तः इति न अनुवर्तते। यकारे स्वरः।
एकदेशविकृतस्यानन्यत्वात् सोदर्शशब्दादपि पूर्वेण यत्येव प्राप्ते यो विधीयते। `विभाषोदरे` 6|3|87 इति विषयसप्तमीति मत्वाऽ‌ऽह--- `यकारादौ प्रत्यये` इत्यादि। `ओ चोदात्त इति नानुवत्र्तते` इति। प्रत्यय विधानसामथ्र्याद्य उदात्तः॥
यकारादौ प्रत्यये विवक्षित इति । ठ्विभाषोदरेऽ इत्यत्र ठ्तीर्थे यःऽ इत्यतो य इत्यनुवर्तते, तत्र य इत्येषा विषयसप्तमीति दर्शयति । ओ चोदात इति तु नानुवर्तत इति । यविधानसामर्थ्यात् ॥
सिद्धान्तकौमुदी
सोदर्यः । अर्थः प्राग्वत् ॥। इति तद्धिताधिकारे प्राग्घितीयप्रकरणम्‌ ।
सोदराद्यः - सोदराद्यः ।सप्तम्यन्ताच्छयित इत्यर्थे॑ इति शेषः । तित्त्वाऽभावात्प्रत्ययस्वेरणान्तोदात्तोऽयम् ।विभाषोदरे॑इति सभावः ।अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चती॑त्यत्र तु समानपर्यायसहशब्दस्य बहुव्रीहौवोपसर्जनस्ये॑ति सभावो बोध्यः । एवंयत्र भ्राता सहोदरः॑ इत्याद्यपि सिद्धम् । *****इति बालमनोरमायाम् प्राग्घितीयाः ।**********अथ प्रकृतिभावः******
सोदराद्यः - सोदराद्यः ।ओ चोदात्तः॑इति नानुवर्तते ।विभाषेदरे॑इति समानस्य सभावः । तत्रतीर्थे ये॑इत्यतोऽनुवृत्तंये इत्येतद्विषयसप्तमी । तेन सोदर इत्यस्माद्यः । प्रत्ययस्वरः । प्राग्वदीति । समानोदारे शयित इत्येवार्थ इत्यर्थः । कथं तर्हिअपनेथानं तु गच्छन्तं सोदरोऽपि विमुञ्चती॑ति मुरारिरिति चेत् । अत्राहुः — — सह=समानमुदरं यस्य सोदरः ।वोपसर्जनस्ये॑ति सहस्य सभावः । तस्य च वैकल्पिकत्वात्यत्र भ्राता सहोदरः॑इत्याद्यपि सिद्धमिति । इति तत्वबोधिन्यां प्राग्घितीयाः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.