Page loading... Please wait.
4|4|86 - वशं गतः
॥ तस्मै पाणिनये नमः ॥
4|4|86
SK 1638
वशं गतः   🔊
सूत्रच्छेदः
वशम् (द्वितीयैकवचनम्) , गतः (प्रथमैकवचनम्)
अनुवृत्तिः
तत्  4|4|76 (द्वितीयैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् वशं गतः" (इति) समर्थानाम् प्रथमात् परः यत् प्रत्ययः
सूत्रार्थः
"वशम् गतः" अस्मिन् अर्थे कर्तारम् निर्देशयितुम् द्वितीयासमर्थात् "वश"शब्दात् यत्-प्रत्ययः भवति ।
"वश" इति "वश् (कान्तौ)" इत्यस्य अच्-प्रत्ययान्तरूपम् । परेच्छानुसारम् यः कार्यं करोति / यः संमोहितः अस्ति सः "वशं गतः" अस्ति इत्युच्यते । एतादृशस्य निर्देशार्थम् वश-शब्दात् यत्-प्रत्ययः भवति । वशं गतः वश्यः राजपुत्रः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वशशब्दात् तदिति द्वितीयासमर्थाद् गतः इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। वशं गतः वश्यः। कामप्राप्तो विधेयः इत्यर्थः।
वशः = कामः, इच्छा। वसेर्धातोरत एव निपातनादप्रत्ययः। द्वितीयासमर्थविभक्तौ प्रकृतायां वशमिति द्वितीयानिर्देश इष्टे विषये द्वितीयान्ताद्यथा स्यात्, अनिष्टान्मा भूत्। तेनेहैव भवति-- वशं गतः, इच्छाप्राप्तः, विधेय इत्यत्रैव भवति॥
ठ्वश कान्तौऽ, वशनं वशः, ठ्वशिरण्योरुपसङ्ख्यानम्ऽ इत्यच् । कामःउइच्छा, तां प्राप्त इति । परेच्छानुगामीत्यर्थः ॥
सिद्धान्तकौमुदी
वश्यः परेच्छानुचारी ॥
वशं गतः - वशंगतः । वशशब्दाद्द्वितीयान्ताद्गत इत्यर्थे यदित्यर्थः । वश्य इति । वशं गत इति विग्रहः ।वश कान्तौ॑ । कान्तिरिच्छा । वशनं वशः ।वशिरण्योरुपसङ्ख्यान॑मित्यप् । वशम्िच्छां, गतः=प्राप्तः । इच्छाधीन इत्यर्थः । वशाधातुश्छान्दस इति लुग्विकरणे वक्ष्यते, तत्प्रायिकमिति भावः । सर्वस्यापि स्वेच्छानुसारित्वादाह — परेच्छानुसारीति ।
वशं गतः - वशं गतः । वशनं वशः — -इच्छा ।वशिरण्योरुरसङ्ख्यान॑मित्यप् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.