Page loading... Please wait.
8|3|45 - नित्यं समासेऽनुत्तरपदस्थस्य
॥ तस्मै पाणिनये नमः ॥
8|3|45
SK 159
नित्यं समासेऽनुत्तरपदस्थस्य   🔊
सूत्रच्छेदः
नित्यम् (प्रथमैकवचनम्) , समासे (सप्तम्येकवचनम्) , अनुत्तरपदस्थस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
विसर्जनीयस्य  8|3|34 (षष्ठ्येकवचनम्) , कुप्वोः  8|3|37 (सप्तमीद्विवचनम्) , षः  8|3|39 (प्रथमैकवचनम्) , इसुसोः  8|3|44 (षष्ठीद्विवचनम्) , सामर्थ्ये  8|3|45 (सप्तम्येकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
समासे इसुसोः विसर्जनीयस्य कुप्वोः नित्यम् षः सामर्थ्ये, अनुत्तरपदस्थस्य |
सूत्रार्थः
समासस्य विषये - इस्/उस्-प्रत्यययोः विसर्गस्य कवर्गे पवर्गे च परे सामर्थ्ये नित्यम् षकारादेशः भवति । परन्तु पूर्वपदम् स्वयम् कश्चन समासः अस्ति चेत् षकारादेशः निषिध्यते ।
इसुसोः सामर्थ्ये 8|3|45 अनेन सूत्रेण इस्/उस्-प्रत्ययस्य विसर्गात् अनन्तरम् कवर्गस्य/पवर्गस्य वर्णे स्थिते ; सामर्थ्ये सति; सन्धिं कर्तुम् इच्छामश्चेत् ; विसर्गस्य विकल्पेन षत्वं विधीयते । अस्यैव अपवादद्वयम् वर्तमानसूत्रेण विधीयते -
1) समस्तपदस्य निर्माणम् भवति, तर्हि तत् षत्वम् नित्यम् भवति ।
2) यदि समस्तपदस्य निर्माणे पूर्वपदम् अपि स्वयं कश्चन समासः अस्ति चेत नित्यम् निषिध्यते ।

उदाहरणानि -
1) "धनुषः काण्डम्" अत्र षष्ठी-तत्पुरुषसमासे कृते "धनुः + काण्डम्" इति स्थिते इसुसोः सामर्थ्ये 8|3|44 इत्यनेन केवलं विकल्पेन षत्वे प्राप्ते वर्तमानसूत्रेण नित्यं षत्वादेशः भवति । यथा - धनुष्काण्डम् ।
2) "शिवधनुषः काण्डम्" अत्र षष्ठी-तत्पुरुषसमासे कृते "शिवधनुः + काण्डम्" इति स्थिते इसुसोः सामर्थ्ये 8|3|44 इत्यनेन केवलं विकल्पेन षत्वे प्राप्ते वर्तमानसूत्रेण अत्र षत्वम् नित्यम् निषिध्यते, यतः अस्मिन् समासे प्रयुक्तम् पूर्वपदम् स्वयमेव समस्तपदम् अस्ति । अतः अत्र केवलम् कुप्वोःXकXपौ च 8|3|37 इत्यनेन वैकल्पिकः जिह्वामूलीयः भवति । यथा - शिवधनुःकाण्डम्, शिवधनुXकाण्डम् ।
3) "धनुः काण्डम् छिन्नति" अस्मिन् वाक्ये "धनुः" तथा "काण्डम्" एतयोः योजनेन समस्तपदम् न जायते, परन्तु अत्र द्वयोः शब्दयोः मध्ये अन्वयः अस्ति एव । अतः अत्र इसुसोः सामर्थ्ये 8|3|44 अनेन सूत्रेण विकल्पेनैव षत्वादेशः भवति । अत्र वर्तमासूत्रस्य प्रसक्तिः नास्ति । यथा - धनुष्काण्डम्, धनुXकाण्डम्, धनुःकाण्डम् ।

ज्ञातव्यम् - "कस्कादिगण" नाम कश्चन गणः गणपाठे दत्तः अस्ति । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थम् अष्टाध्याय्याम् किमपि सूत्रम् नास्ति । "सर्पिष्कुण्डिका" , "धनुष्कपालम्", यजुष्पात्रम्" एते शब्दाः अस्मिन् गणे निर्दिष्टाः सन्ति । वस्तुतः वर्तमानसूत्रेण समासे कृते एतेषु षत्वम् विधीयते एव । परन्तु एते शब्दाः कस्कादिगणे सन्ति, अतः एतेषाम् शब्दानाम् विषये "सर्वदा" षत्वम् भवति इति ज्ञातव्यम् । इत्युक्ते - समासः भवेत् वा न भवेत् ; सामर्थ्यम् भवेत् वा न भवेत् ; पूर्वपदम् स्वयं समस्तपदम् स्यात् वा न स्यात् - सर्वासु स्थितिषु एतेषाम् विषये षत्वम् भवति इत्यर्थः । यथा - "तिष्ठतु सर्पिः, कुण्डिकामानय" अस्मिन् वाक्ये यद्यपि सामर्थ्यम् नास्ति तथापि संहितायाम् सत्याम् विसर्गस्य षत्वं कृत्वा "तिष्ठतु सर्पिष्कुण्डिकामानय" इत्येव सिद्ध्यति । तथैव, "धनुः कपालम् छिन्नति" इत्यत्रापि षत्वे कृते "धनुष्कपालं छिनत्ति" इति जायते ।
One-line meaning in English
While doing a समास, the विसर्ग of the इस्/उस्-प्रत्यय when followed by a letter from कवर्ग or पवर्ग is optionally converted to a षकार whenever the words involved in the समास are associated with each other. However, if the पूर्वपद of this समास is a समास on its own, then the षत्व is completely prohibited.
काशिकावृत्तिः
इसुसोः इति वर्तते। समासविषये इसुसोः विसर्जनीयसुअ अनुत्तरपदस्थस्य नित्यं ष्त्वं भवति कुप्वोः परतः। सर्पिष्कुण्डिका। धनुष्कपालम्। सर्पिष्पानम्। धनुष्फलम्। अनुत्तरपदस्थस्य इति किम्? परमसर्पिःकुण्डिका। परमधनुःकपालम्। पूर्वसूत्रेण विकल्पो ऽप्यत्र न भवति। एतदेव अनुत्तरपदस्थस्य इति वचनं ज्ञापकम् इसुसोः प्रत्ययग्रहणे यस्मात् स विहितः तदादेः इत्ययं नियमो न भवति। तेन वाक्ये ऽपि परमसर्पिष्करोति, परमसर्पिः करोति, इसुसोः सामर्थ्ये 8|3|44 इत्येतद् भवति। व्यपेक्षा च तत्र सामर्थ्यमाश्रितम् इति समासे न भवति।
`सपिष्कुण्डिका` इति। षष्ठीसमासः। एवं `धनुष्कपालम्` इत्यादावपि। `परममपिःखुम्डिका` इति। परमसर्पिः शब्दयोः सन्महत्` 2|1|60 इत्यादिना कर्मधारयं कृत्वा कुण्डिकाशब्देन सह षष्ठीसमासः। अत्र परमशब्दापेक्षया सर्पिःशब्द उत्तरपदम्, तत्रस्थश्च विसर्जनीय इति षत्वं न भवति।ननु च `इसुसोः सामर्थ्ये` 8|3|44 इत्यत्र `इसुसोः` इति प्रत्ययग्रहणमेतत्, तत्र `प्रत्ययग्रहणे यस्मात्? स विहितस्तदादेस्तदन्तस्य` (भो।पु।सू।7) इति नियमाद्यत एवेसुसौ विहितौ तदादेरेव ग्रहणेन भवितव्यम्, नाधिकस्य, अधिकश्च परमशाब्दः; केवलाद्धि सपेरिस्प्रत्ययो विहितः, न परमशब्दादेः; एवञ्चोत्तरपदप्रकृतिरेव नास्ति, किं प्रतिवेधेन? इत्याह--`एतदेव` इत्यादि। यद्ययमिह नियमः स्यात्? `अनुत्तरपदस्थस्य` इति नोक्तं स्यात्, उक्तञ्च, तस्मादेतज्ज्ञापयति--नायमिह नियमो भवतीति। किमस्य ज्ञापकस्य प्रयोजनम्? इत्याह--`तेन` इत्यादि। यस्मादयमिह नियमो न भवति, तेन हेतुना वाक्येऽधिकस्यापि ग्रहणे सति परमसर्पिः करोति, परमसर्पिष्करोतीत्यत्र पूर्वसूत्रेण षत्वबिकल्पो भवति; नियमे तु सति न स्यात। समासेऽपि तर्हि परमसर्पिःकुण्डिकेत्यत्र षत्वविकल्पेन भवितव्यम्; नियमाभावात्? इत्यत आह--`व्यपेक्षा च तत्र` इत्यादि। चकोरोऽवधारणार्थः। इतिकरणो हेतौ। तत्र `इसुसोः` 8|3|44 इत्यादौ सूत्रे सामाथ्र्यग्रहणाद्व्यपेक्षैव सामथ्र्य वत्वविकल्पस्य निमित्तं यस्मादाश्रितं तस्मात्? समासे न धवति; तत्र तदभावात्॥
परसमर्पिष्कुण्डिकेति । ननु च ठर्चिशुचिहुसृपिच्छदिच्छादिभ्य इसिःऽ, ठ्जनेरुसिःऽ, ठतिपयजितनिधनिवपिभ्यो नित्ऽ इत्येवं सर्पिः, यजुरित्यादय इसुसन्ता व्युत्पाद्यन्ते, ततश्च प्रत्ययग्रहणपरिभाषया सर्पिरादीनामेवेसुसन्तत्वम्, न परमसर्पिरादीनाम्, तत्कथमत्र प्रसङ्गः; अवश्यं चोणादीनामपि व्युत्पत्तिपक्ष एवाश्रयणीयः; अव्युत्पत्तिपक्षे ह्याश्रीयमाणे सर्पिषा, यजुषेत्यादौ षत्वं न सिद्ध्यति, अप्रत्ययसकारत्वात्; तस्मादनर्थकमनुतरपदग्रहणम् ? अत आह---एतदेवेत्यादि । ज्ञापनस्य प्रयोजनमाह--तेनेति । अथ पूर्वसूत्रेण समासेऽपि विकल्पः कस्मान्न भवति ? इत्यत आह--व्यपेक्षा चेति । केचितु ठ्ठ्ठ्नित्यं समासेऽ इत्येको योगः, ठनुतरपदस्थस्यऽ इति द्वितीय इति योगविभागेन समासे सर्वा षत्वप्राप्तिरुतरपदस्थस्य प्रतिषिध्यते" इति वदन्तः पूर्वत्र द्विविधेऽपि सामर्थ्ये समाश्रिते न दोष इत्याहुः ॥
सिद्धान्तकौमुदी
इसुसोर्विसर्गस्यानुत्तरपदस्थस्य नित्यं षः स्यात् कुप्वोः परयोः । सर्पिष्कुण्डिका । धनुष्कपालकम् । अनुत्तरपदस्थस्येति किम् । परमसर्पि कुण्डिका । कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः । व्यपेक्षायां नित्यार्थश्च ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
नित्यं समासेऽनुत्तरपदस्थस्य अनुत्तरपदस्थस्येति किमर्थम्?।। परमसर्पिःकुण्डिका।। अथेदानीमनेन मुक्ते पूर्वेण षत्वं विभाषा कस्मान्न भवति-इसुसोः सार्मथ्य इति?।। ।। नाना पदार्थयोर्वर्तमानयोः ख्यायते यदा योगः। तस्मिन् षत्वं कार्यं तद्युक्तं तच्च मे नेह।।1।। व्यपेक्षासार्मथ्ये पूर्वयोगो(1) न चाऽत्र व्यपेक्षासार्मथ्यम्।। किं पुनः कारणं पूर्वस्मिन्योगे(2) व्यपेक्षासार्मथ्यमाश्रीयते न पुनरेकार्थीभावो, यथाऽन्यत्र?।। ।। ऐकार्थ्ये सार्मथ्ये वाक्ये षत्वं न मे प्रसज्येत।। ऐकार्थ्ये सार्मथ्ये सति वाक्ये षत्वं न स्यात्- सर्पिष्करोति, सर्पिःकरोति इति।। ।। तस्मादिह व्यपेक्षां(3) सार्मथ्यं साधु मन्यन्ते।। अथ चेत्कृदन्तमेतत्ततोऽधिकेनैव मे भवेत्प्राप्तिः।। यदि कृदन्तमेतत्ततोऽधिकस्य षत्वं न प्राप्नोति(5)।। किं कारणम्?।। प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीति।। वाक्येऽपि तर्हि न प्राप्नोति परमसर्पिष्करोति परमसर्पिः करोतीति।। ।। वाक्ये च मे विभाषा प्रतिषेधो न प्रकल्पेत।। यदयमनुत्तरपदस्थस्येति प्रतिषेधं शास्तितज्ज्ञापयत्याचार्यो भवति वाक्ये विभाषेति।। अथ चेत्संविज्ञानं नित्ये षत्वे(1) ततो विभाषेयम्।। अथाऽव्युत्पन्नं प्रातिपदिकं ततो नित्ये षत्वे प्राप्ते इयं विभाषा आरभ्यते।। सिद्धं च मे समासे।। सिद्धं च(2) मे समासे षत्वम्। किमर्थं तर्हीदमुच्यते?।। प्रतिषेधार्थस्तु यत्नोऽयम्।। प्रतिषेधार्थोऽयं यत्नः। अनुत्तरपदस्थस्येति प्रतिषेधं वक्ष्यामीति। ।। नानापदार्थयोर्वर्तमानयोः ख्यायते यदा योगः। तस्मिन् षत्वं कार्यं तद्युक्तं तच्च मे नेह।।1।। ऐकार्थ्ये सार्मथ्ये वाक्ये षत्वं न मे प्रसज्येत। तस्मादिह व्यपेक्षां सार्मथ्यं साधु मन्यन्ते।।2।। अथ चेत्कृदन्तमेतत्ततोऽधिकेनैव मे भवेत्प्राप्तिः। वाक्ये च मे विभाषा प्रतिषेधो न प्रकल्पेत।।3।। अथ चेत्संविज्ञानं नित्ये षत्वे ततो विभाषेयम्। सिद्धं च मे समासे, प्रतिषेधार्थस्तु यत्नोऽयम्।।4।।