Page loading... Please wait.
4|3|129 - छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः
॥ तस्मै पाणिनये नमः ॥
4|3|129
SK 1509
छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः  
सूत्रच्छेदः
छन्दोग-औक्थिक-याज्ञिक-बह्‍वृच-नटात् (पञ्चम्येकवचनम्) , ञ्यः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सङ्घादयो निवृत्ताः, सामान्येन विवानम्। छन्दोगाऽदिभ्यः शब्देभ्यो ञ्यः प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। वुञणोरपवादः। चरणाद् धर्माम्नाययोः, तत्साहचर्यान् नटशब्दादपि धर्माम्नाययोरेव भवति। छन्दोगानां धर्मो वा आम्नायो वा छन्दोग्यम्। औक्थिक्यम्। याज्ञिक्यम्। बाह्वृच्यम्। नाट्यम्। अन्यत्र छान्दोगं कुलम् इत्यादिः।
`वुञणोरपवादः` इति। छन्दोगादिभ्यश्चरणलणस्य वुञोऽपवादः। नटादौत्सर्गिकस्याणः॥
वुञणोरपवाद इति । चरणशब्देभ्यो वुञोऽपवादः, नटादौत्सर्गिकस्याणः ॥
सिद्धान्तकौमुदी
छन्दोगानां धर्म आम्नायो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाह्वृच्यम् । नाट्यम् ॥ ।चरणाद्धर्माम्नाययोः (वार्तिकम्) ॥ इत्युक्तं तत्साहचर्यान्नटशब्दादपि तयोरेव ॥
छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः - छन्दोगौक्थिक । सङ्घादयो निवृत्ताः । छन्दोगादीनां चरणत्वात् धर्माम्नाययोरिति संबध्यते । छन्दोग, औक्थिक, याज्ञिक, बद्वृच, नट-एभ्यो धर्मे आम्नाये च इदंत्वेन विवक्षिते ञ्यः स्यादित्यर्थः । ननु नटस्य अचरणत्वात्तत्र धर्माम्नाययो कथमन्वय इत्याशङ्कते — चरणाद्धर्माम्नाययोरित्युक्तमिति ।यद्यपी॑ति शेषः । परिहरति-तत्साहचर्यादिति । तथापि छन्दोगादिसाहचर्यान्नटशब्दादपि धर्माम्नाययोरेव प्रत्यय इत्यर्थः ।
छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः - छन्दोगौक्थिक । सङ्घादयो निवृत्ताः । एभ्यो ञ्यः स्यात्तस्येदमित्यर्थे । चरणशब्देभ्यो बुञोऽपवादः, नटात्त्वौत्सर्गिकस्याऽणः ।धर्माम्नाययो॑रित्युक्तेर्नेह — छान्दोगं कुलमित्यादि ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.