अविधीयमानः "अण्" वर्णः तथा उदित् वर्णः (कु, चु, टु, तु, पु - इति) सवर्णानाम् ग्रहणं करोति ।
अविधीयमानः अण्-वर्णः (इत्युक्ते - स्वरः / हकारः / अन्तस्थवर्णः) , तथा कु-चु-टु-तु-पु-एते उदिताः सवर्णग्रहणं कुर्वन्ति ।
किम् नाम सवर्णम् ?
तुल्यास्यप्रयत्नं सवर्णम् 1|1|9 - ययोः वर्णयोः मुखस्थित-उच्चारणस्थानम् आभ्यन्तरप्रयत्नश्च समानः अस्ति, तौ वर्णौ परस्परयोः सवर्णौ स्तः । यथा - ( क् , ग्), (अ, आ), (य्, य्ँ) - आदयः ।
किम् नाम अविधीयमानः अण्-वर्णः? "अविधीयमानः" इत्युक्ते सः अण्-वर्णः यः आदेशरूपेण उक्तः नास्ति । उदाहरणद्वयं पश्यामश्चेत् प्रायः स्पष्टं भवेत् -
1)
इको यण् अचि 6|1|77 अस्मिन् सूत्रे "इक्", "यण्" तथा "अच्" एते त्रयः प्रत्याहाराः प्रयुक्ताः सन्ति । एतेषु त्रिषु प्रत्याहारेषु अण्-वर्णाः एव सन्ति । परन्तु एतेषु इक्-इत्यत्र स्थिताः अण्-वर्णाः तथा अच्-इत्यत्र स्थिताः अण्-वर्णाः "आदेशरूपेण" प्रोक्ताः न सन्ति । "इकः" इत्यनेन स्थानीनिर्देेशः क्रियते तथा "अचि" इत्यनेन परनिमित्तम् दीयते । "यण्" इत्यनेन प्रोक्ताः वर्णाः तु "आदेशरूपेण" प्रोक्ताः सन्ति । अतः "यण्" इत्यनेन "विधीयमानः अण्-वर्णः निर्दिश्यते", तथा "इक्-इत्यनेन अच्-इत्यनेन च अविधीयमानः अण्-वर्णः निर्दिश्यते" इति ब्रूयते । अस्याम् अवस्थायाम्
अणुदित् सवर्णस्य चाप्रत्ययः 1|1|69 इत्यनेन एतत् उच्यते, यत् इक्-प्रत्याहारस्थवर्णैः अच्-प्रत्याहारस्थवर्णैः अत्र सवर्णग्रहणं भवति, परन्तु यण्-प्रत्याहारस्थवर्णैः अत्र सवर्णग्रहणं न भवति ।
कः अस्य अर्थः ? इक्-इत्यस्मिन् प्रत्याहारे ह्रस्व-इकारस्य ग्रहणं भवति । अयं ह्रस्व-इकारः सवर्णग्रहणं करोति, अतः स्वस्य सर्वेषाम् अष्टादश-भेदानाम् निर्देशं करोति । अतः ह्रस्व-इकारात् परः अच्-वर्णः अस्ति चेत् तु यणादेशः भवत्येव, परन्तु दीर्घ-ईकारात् परः अच्-वर्णः अस्ति चेदपि यणादेशः भवति । तथैव अच्-इत्यनेन अपि सवर्णग्रहणं भवति, अतः इकारात् परः अकारः अस्ति चेदपि यणादेशः भवति, आकारः अस्ति चेदपि यणादेशः भवति । परन्तु, यण्-इत्यनेन सवर्णग्रहणं न क्रियते, अतः यण्-इत्यत्र स्थितः यकारः सवर्णस्य (इत्यक्ते, अनुनासिक-यकारस्य (यँकारस्य) ) ग्रहणं न करोति । अतः अत्र यणादेशः केवलं अननुनासिक-यकारस्यैव भवितुं शक्यते, अनुनासिक-यकारस्य न ।
2)
एरच् 3|3|56 अनेन सूत्रेण इकारान्तधातोः अच्-प्रत्ययः विधीयते । ("एः" इति "इ" इत्यस्य षष्ठ्यैकवचनम् ।) अत्र "एः" इत्यनेन स्थानी निर्दिश्यते, अतः अत्र इकारः विधीयमानः नास्ति । इत्युक्ते, "इ" इत्यनेन ह्रस्व-इकारस्य दीर्घ-ईकारस्य चापि ग्रहणं भवति । परन्तु "अच्" इत्यनेन अस्मिन् सूत्रे आदेशः विधीयते, अतः अच्-इत्यनेन अत्र सवर्णग्रहणं न भवति । इत्युक्ते, अत्र अकारेण आकारस्य ग्रहणं न भवति । अतः ह्रस्व-इकारान्तधातोः अपि अकारः एव आदेशः भवति, दीर्घ-ईकारान्तधातोः अपि अकारः एव आदेशः भवति - जि → जयः , भी → भयः ।
एवम्, यः अण्-वर्णः विधीयमानः नास्ति, सः सवर्णस्य ग्रहणं करोति । परन्तु यः अण् विधीयमानः अस्ति, सः सवर्णस्य ग्रहणं न करोति ।
अग्रे "उदित्" इति किं तत् पश्यामः । उकारः यस्मिन् इत्संज्ञकः अस्तिः सः उदित् । उत् + इत् = उदित् । अस्मिन् सूत्रे "उदित्" इत्यनेन "कु-चु-टु-तु-पु" एतेषाम् पञ्चानाम् निर्देशः क्रियते । उदित्-वर्णः नित्यम् सर्वणग्रहणं करोति । अतः "कु" इत्यनेन ककारः तु गृह्यते एव, अपितु तेन सह ककारस्य सर्वे सवर्णाः - ख्, ग्, घ्, ङ् - एते अपि गृह्यन्ते । तथैव "चु" इत्यनेन सर्वे चवर्गीयवर्णाः, टु-इत्यनेन सर्वे ट-वर्गीववर्णाः, तु-इत्यनेन सर्वे त-वर्गीय-वर्णाः तथा पु-इत्यनेन सर्वे प-वर्गीववर्णाः गृह्यन्ते । यथा -
चोः कुः 8|2|30 अस्मिन् सूत्रे "चु" तथा "कु" एतौ द्वौ उदित्-वर्णौ प्रयुक्तौ स्तः । अत्र उभयोः सवर्णग्रहणं भवति । अतः अस्य सूत्रस्य अर्थः - "चवर्गस्य स्थाने पदान्ते झलि परे वा कवर्गीयवर्णः आदेशरूपेण आगच्छति" इति भवति । यथा - वाच् → वाक् । सुयज् → सुयग् । अत्र चकारस्य ककारः, तथा जकारस्य गकारः अनेन सूत्रेण विधीयते ।
एवम् अनेन सूत्रेण - (1) अविधीयमानः अण्, तथा (2) उदित्-वर्णः - सवर्णग्रहणं कुरुतः ।
ज्ञातव्यम् -
1) अस्मिन् सूत्रे "अप्रत्ययः" अस्य शब्दस्य "प्रत्ययाधिकारस्य प्रत्ययेन सह" कोऽपि सम्बन्धः नास्ति । अत्र "प्रत्ययः" इत्युक्ते "विधीयमानः", इत्युक्ते, आदेशरूपेण प्रोक्तः । अतः "अप्रत्ययः" इत्युक्ते आदेशरूपेण यः प्रोक्त नास्ति, सः ।
2) अण्-प्रत्याहारे केवलं ह्रस्व-अकार-इकार-ऊकार-ऋकार-ऌकाराणाम् समावेशः अस्ति, एतेषां दीर्घ/प्लुत-भेदानां न । अतः केवलं ह्रस्व-अकारः / इकारः / उकारः / ऋकारः / ऌकारः एव सवर्णग्रहणं कुर्वन्ति । तेषां दीर्घप्लुतभेदाः - अविधीयमानाः भवन्तु, विधीयमानाः वा भवन्तु- कदापि सवर्णग्रहणं नैव कुर्वन्ति, यतः एतेषां विषये अस्मिन् सूत्रे किमपि प्रोक्तम् नास्ति । तथैव, ए-ऐ-ओ-औ-एतेषां केवलं दीर्घ-भेदः एव सवर्णग्रहणं करोति, प्लुत-भेदः न ।
3) "अप्रत्ययः" इति केवलम् "अण्" इत्यस्यैव विशेषणरूपेण प्रयुज्यते, उदित्-इत्यस्य न । उदित्-वर्णः अविधीयमानः अस्तु वा विधीयमानः अस्तु, सः नित्यं सवर्णग्रहणं करोति । यथा,
चोः कुः 8|2|30 इत्यत्र विधीयमानः "कु" अपि सवर्णग्रहणं करोति, अविधीयमानः "चोः" अपि सवर्णग्रहणं करोति ।
4) केवलं अस्मिन् सूत्रे "अण्" इत्यत्र परम् णकारम् (इत्युक्ते, लण्-इत्यस्य णकारम् ) स्वीकृत्य प्रत्याहारनिर्माणम् कृतम् अस्ति । अन्यत्र सर्वत्र यत्र यत्र "अण्" इति उच्यते, तत्र तत्र "अइउण्" इत्यस्यैव णकारेण प्रत्याहारनिर्माणं भवति ।