Page loading... Please wait.
8|3|6 - पुमः खय्यम्परे
॥ तस्मै पाणिनये नमः ॥
8|3|6
SK 139
पुमः खय्यम्परे   🔊
सूत्रच्छेदः
पुमः (षष्ठ्येकवचनम्) , खयि (सप्तम्येकवचनम्) , अम्परे (सप्तम्येकवचनम्)
अनुवृत्तिः
रु  8|3|1 (प्रथमैकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108 अत्रानुनासिकः पूर्वस्य तु वा  8|3|2
सम्पूर्णसूत्रम्
पुमः रुँ अम्-परे खयि
सूत्रार्थः
पुम्-शब्दस्य अम्परे खयि रुँत्वम् भवति ।
पुम्-शब्दात् परः यदि खय्-वर्णः (= वर्गप्रथमाः वर्गद्वितीयाः च) आगच्छति, तस्मात् च परः यदि अम्-वर्णः (स्वराः, अन्तस्थाः, यकारः, वर्गपञ्चमाः) आगच्छति, तर्हि वर्तमानसूत्रेण पुम्-शब्दस्य मकारस्य रुँत्वम् भवति ।

यथा -

पुम् + कोकिलः [मकारात् परः खय्-वर्णः, तस्मात् परः अम्-वर्णः अस्ति । इति स्थिते - ]
→ पुरुँ + कोकिलः [पुमः खय्यम्परे 8|3|6 इति मकारस्य रुँत्वम् ]
→ पुँरुँ + कोकिलः / पुंरुँ + कोकिलः [अत्रानुनासिकः पूर्वस्य तु वा 8|3|2 इति विकल्पेन अनुनासिकः । अनुनासिकाभावे अनुनासिकात् परोऽनुस्वारः 8|3|4 इति अनुस्वारः]
→ पुँः + कोकिलः / पुंः + कोकिलः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]
→ पुँस् + कोकिलः / पुंस् + कोकिलः [कुप्वोः ≍क ≍पौ च 8|3|37 इति विसर्गस्य विकल्पेन जिह्वामूलीये प्राप्ते सम्पुंकानां सो वक्तव्यः अनेन वार्त्तिकेन नित्यम् सकारादेशः भवति]
→ पुँस्कोकिलः / पुंस्कोकिलः

अन्यानि उदाहरणानि -
1. पुम् + कामा → पुँस्कामा, पुंस्कामा ।
2. पुम् + पुत्रः → पुँस्पुत्रः, पुंस्पुत्रः ।
3. पुम् + फलम् → पुँस्फलम् पुंस्फलम् ।
4. पुम् + चली → पुँश्चली, पुंश्चली ।
5. पुम् + त्वम् → पुँस्त्वम्, पुंस्त्वम् ।

अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - ख्याञादेशे न । इत्युक्ते, अदादिगणस्य चक्षिङ्-धातोः आर्धधातुके प्रत्यये परे चक्षिङ् ख्याञ् 2|4|54 इति यः ख्याञ्-आदेशः भवति, तस्मिन् परे पुम्-इत्यस्य मकारस्य रुँत्वम् न भवति । यथा - पुम् + ख्यानम् । = पुंख्यानम् । अत्र यद्यपि मकारात् परः खय् वर्णः, तस्मात् परः च अम्-वर्णः अस्ति, तथापि अनेन वार्तिकेन अत्र रुँत्वम् न भवति ।
One-line meaning in English
When the word पुम् is followed by a letter from खय् प्रत्याहार, which in turn is followed by a letter form अम् प्रत्याहार, the मकार of पुम् is converted to रुँ.
काशिकावृत्तिः
पुम् इत्येतस्य रुः भवति अम्परे खयि परतः। पुँस्कामा, पुंस्कामा। पुँस्पुत्रः, पुंस्पुत्रः। पुँस्फलम् पुंस्फलम्। पुँश्चली, पुंश्चली। पुंस्कामा इत्यत्र विसर्जनीयस्य कुप्वोः XकXपौ च 8-3-37 इति प्राप्नोति। तस्मादत्र सकार एबादेशो वक्तव्यः। द्विसकारकनिर्देशपक्षे तु पूर्वस्मादेव सूत्रात् सः इत्यनुवर्तते। रुत्वम् तु अनुवर्तमानम् अपि नात्राभिसम्बध्यते, सम्बन्धानुवृत्तिस्तस्य इति। खयि इति किम्? पुंदासः। पुंगवः। अम्परे इति किम्? पुंक्षीरम्। पुंक्षुरम्। परग्रहणं किम्? पुमाख्याः। पुमाचारः।
`पुमः` इति। पुंसः सकारादवशिष्टो यो भागस्तस्यायं निर्दशः, सकारस्य संयोगान्तलोपे कृते तस्यैव कार्यित्वात्। `अम्परे` इति। अम्? परो यस्मात्? स तथोक्तः। अमिति प्रत्याहारस्य ग्रहणम्, न द्वितीयैकवचनस्य। कुत एतत्? व्याप्तिन्यायात्? `खयि` इति प्रत्याहारेण साहचर्याच्च। `पुंश्चली` इति। चलडिति पचादौ पठते। तेन `चल कम्पने` (धातुपाठः-832) इत्यस्मात्? पचाद्यच्? टिद्भवति, `टिड्ढणञ्` 4|1|15 इति ङीप्। पुंश्चलीति षष्ठीसमासः। `पुंस्कामा` इति। पुंसि कामोऽस्या इति बहुव्रीहिः। अथ वा--पुमांसं कामयत इति `शीलिकामिभिक्षाचरिभ्यो णो वक्तव्यः` (वा।229) इति णः; ततष्टाप्। अत्र पुंस्कामेत्यत्रोदाहरणे। `सकार एवादेशः` इति। विसर्जनीयस्येत्यपेक्षते। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्--`कुप्वोः क पौ च` 8|3|37 इत्यत्र `वा शरि` 8|3|36 इत्यतो वाग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा। तेनात्रापि विसर्जनीयस्य सकार एव भविष्यति, न विसर्जनीयजिह्वामूलीयाविति। इदं तावत्? पूर्वसूत्रे यदा द्विसकारपक्षो नाश्रीयते, तदा प्रतिविधानमुक्तम्। यदा तु तत्र `द्विसकारको निर्देशः` इत्येष पक्ष आश्रीयते, तदा प्रतिविधातुमाह--`द्विसकारकनिर्देशपक्षे तु` इत्यादि। ननु च रुरप्यनुवरत्तत एव, तत्र यथा सकारोऽनुवत्र्तमानो भवति तथा रुरपि पक्षे स्यात्, ततश्च रुत्वपक्षे विसर्जनीये कृते जिह्वामूलोयः स्यादेव? इत्यत आह--`रुत्वं त्वनुवत्र्तमानम्` इत्यादि। तत्रैव कारणमाह--`सम्बन्धानुवृत्तिस्तस्य` इत्यादि। इतिकरणो हेतौ, स हि `मतुवसो रु सम्बुद्धौ` 8|3|1 इत्यतः स्वेन सम्बन्धिना मतुपा वसुना च सम्बद्ध इहानुवत्र्तते। तस्मान्नोत्सहते सम्बन्ध्यन्तरेण सम्बन्धमनुभवितुम्। `पुंदासः` इति। षष्ठीसमासः--पुंसो दास इति। कर्मधारयो वा। एवं `पुगवः` इति। अत्र तु `गोरतद्धितलुकि` 5|4|92 इति टच्? समासान्तः। `पुंक्षीरम्, पुंक्षुरम्` इति। षष्ठीसमासः। `खय्यमि` इति। वक्तव्ये परघणं विपरीतकल्पनानिरासार्थम्। असति परग्रहणे--अमि खयि पर इति विज्ञायेत, ततश्च `पुमाख्यः, पुमाचारः` इत्यत्रापि स्यात्। अतः परग्रहणम्॥
पुंसः सकारादवशिष्टो यो भागस्तस्यायं निर्देशः, सकारस्य संयोगान्तलोपे कृते तस्यैव कायित्वात् । अमिति प्रत्याहारस्य ग्रहणम्, न द्वितीयैकवचनस्य; खया प्रत्याहारेण साहचर्यात् । पुंश्चलीति । पचादौ चलडिति पाठान्ङीप्, पुंश्चलीति षष्ठीसमासः । पुंस्कामेति । पुमांसं कामयत इति ठ्शीलिकामिभिक्षाचरिभ्यो णःऽ इति णः । तस्मादत्र सकार एवादेशो वक्तव्य इति । ठ्कुप्वोः ःकःपौ चऽ इत्यत्रैतद्वक्तव्यम् । द्विसकारकनिर्देशपक्षे त्विति । यदा पूर्वसूत्रे ठ्द्विसकारको निर्देशःऽ इति पक्षः, तदेत्यर्थः । स इत्यनुवर्तते इति । ननु च रुरपि प्रकृतः, सोऽपि प्राप्नीतीत्यत आह---रुत्वं त्विति । असम्बन्धे कारणमाह---सम्बन्धानुवृत्तिस्तस्यति । इतिकरणो हेतौ, यस्मादसौ स्वसम्बन्धिना यः सम्बन्धस्तमनुवर्तते तं न जहाति तस्मादित्यर्थः । यद्वा---सम्बध्यत इति सम्बन्धः । यस्मादिह स्वसम्बद्धमेव तदनुवर्तते तस्मादित्यर्थः । रुत्वं खल्विहानुवर्तमानमपि ठ्मतुवसो रु सम्बुद्धौऽ इति स्वेन सम्बन्धिना सम्बद्धमेवानुवर्तते, तस्य प्रयोजनम्---सम्बन्ध्यन्तरेण रोः सम्बन्धो मा मूदिति । पुंदासादयः षष्ठीसमासाः । पुंगव इति । ठ्गोरतद्धितलुकिऽ इति टच्समासान्तः । परग्रहणे क्रियमाणे खयि परतो योऽम् तत्रेत्यपि विज्ञायेत, ततश्च पुमक्षः पुमाचारः---इत्यत्रैव स्यात्; तस्मात्परग्रहणम् ॥
सिद्धान्तकौमुदी
अम्परे खयि पुम्शब्दस्य रुः स्यात् । व्युत्पत्तिपक्षे अप्रत्ययस्ये (कौमुदी-155)ति षत्वपर्युदासात् क पयोः प्राप्तौ । अव्युत्पत्तिपक्षे तु षत्वप्राप्तौ । संपुंकानामिति सः । पुँस्कोकिलः । पुंस्कोकिलः । पुँस्पुत्रः । पुंस्पुत्रः । अम्परे किम् । पुंक्षीरम् । खयि किम् । पुंदासः ॥ख्याञादेशे न (वार्तिकम्) ॥ पुंख्यानम् ॥
पुमः खय्यम्परे - पुमः । "रु" ग्रहणमनुवर्तते । अम् परो यस्मादिति विग्रहः । तदाह-अम्परे खयीति । "पुमान्-कोकिल" इति कर्मधारयेसुपो धातुप्रातिपदिकयो॑रिति सुब्लुकि "संयोगान्तस्य लोप" इति सकारलोपे पुम्-कोकिल इति स्थिते मस्य रुत्वम्, अनुनासिकानुस्वारविकल्पः, विसर्गः,संपुंकाना॑मिति सः । ननु "विसर्जनीयस्य स" इत्येव सिद्धेसंपुंकाना॑मित्यत्रपु॑ग्रहणं व्यर्थमित्यत आह । व्युत्पत्तीत्यादि । ᳵकᳶपयोः प्राप्तौ संपुंकानामिति स इत्यन्वयः । "विसर्जनीयस्य स" इति सत्वापवादं कुप्वो ᳵकᳵ चेति विधिं बाधितुं पुंग्रहणमित्येव वक्तुमुचितमित्यत आह — अप्रत्ययस्येति षत्वपर्युदासादिति । पूञो डुम्सुन्नित्यौणादिकप्रत्ययस्थमकारस्थानिकत्वाद्विसर्गस्येति भावः । ननूणादयोऽव्युत्पन्नानि प्रातिपदिकानीत्यायनेयीति सूत्रस्थभाष्यरीत्या औणादिकप्रत्ययान्तेषु प्रकृतिप्रत्ययविभागाभावात्कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह — व्युत्पत्तिपक्ष इति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागाभावात्कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह — व्युत्पत्तिपक्ष इति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागव्युत्पादनमस्ति नास्तीति पक्षद्वयमादेशप्रत्यययोरिति सूत्रभाष्ये स्थितम् । तत्र व्युत्पत्तिपक्षे पुंस्शब्दस्य डुम्सुन्प्रत्ययान्ततया तत्र मकारस्थानिकविसर्गस्याऽप्रत्ययस्येति पर्युदासेनेदुदुपधस्य चाप्रत्ययस्येति षत्वस्य तत्र न प्रसक्तिः । अतस्तत्र कुप्वोरिति विधिं बाधितुंसंपुंकाना॑मिति पुंग्रहणमित्यर्थः । अव्युत्पत्तीति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागाऽभावपक्षेऽप्रत्ययस्येति पर्युदासस्यात्राऽप्रसक्तेरिदुदुपधस्येति प्रसक्तं षत्वं बाधितुंसंपुकाना॑मिति पुंग्रहणमित्यर्थः । "पुँस्कोकिल" इत्यनुनासिकपक्षे रूपम् । "पुंस्कोकिल" इत्यनुस्वारपक्षे रूपम् । "पुंस्कोकिल" इत्यनुस्वारपक्षे रूपम् । ननु चक्षिङ् व्यक्तायां वाचि॑अस्मात् ल्युट्, अनादेशः, चक्षिङः ख्याञ्, पुंसः ख्यानं पुंख्यानमित्यत्रापि पुमो मस्य रुत्वं स्यादित्यत आह — ख्याञादेशे नेति । भाष्ये "चक्षिङः ख्शा" ञिति पठित्वा पूर्वत्रासिद्धमित्यसिद्धकाण्डे रषाभ्यामिति णत्वविध्यनन्तरंख्शाञश्शस्य यो वे॑ति पठितमिति वक्ष्यते । एवंच यत्वस्याऽसिद्धतया खकारस्याऽम्परकत्वाऽभावात्पुनः खयी॑ति रुत्वं नेत्यर्थः । पुंख्यानमिति । "मोऽनुस्वारः"वा पदान्तस्ये॑ति परसवर्णविकल्पः । नचवर्जने प्रतिषेधः, असनयोश्चे॑त्यनादेशे परे प्रतिषेधात्कथमत्र ख्याञादेश इति वाच्यं, ख्शाञादेशप्रयोजनपरवार्तिके पुंख्यानमित्यादिप्रयोगात्तदुपपत्तेः ।
पुमः खय्यम्परे - पुमःखयि । पुंसः संयोगान्तलोपेऽवशिष्टभागस्येदमनुकरणम् ।अम्पर॑ इति बहुव्रीहिः । पर्युदासादिति ।इदुदुपधस्ये॑ति षत्वविधायके सूत्रे इति भावः । ख्य ञादेशे नेति ।चक्षिङः ख्या॑ञित्यत्र ख्शादिरयमादेशः । असिद्धकाण्डे णत्वानन्तरंशस्य यो वे॑ति स्थितमिति वक्ष्यते । एवंच यत्वस्यासिद्धतयाऽम्परत्वाऽभावात्पुमः खयी॑ति रुत्वं नेत्यर्थः ।पुंख्यानमिति । चक्षिङोल्युट् चे॑ति ल्युटि ख्याञादेशः । ननु आदेश इह दुर्लभः,वर्जने प्रतिषेधः॑-॒असनयोश्चे॑ति वार्तिकादिति चेत्सत्यम् ;बहुलं तण्यन्नवधकगात्रविचक्षणाऽजिरातद्यर्थ॑मिति वार्तिके बहुलग्रहणात्समाध्रेयम् । विस्तरस्तिवह मनोरमायामनुसन्धेयः । त्रायस्वेति ।त्रैङ् पालने॑लोटि शप्यायादेशः ।
लघुसिद्धान्तकौमुदी
अम्परे खयि पुमो रुः। पुंस्कोकिलः, पुंस्कोकिलः॥
महाभाष्यम्
पुमः खय्यम्परे समः सुटि ।। कानाम्रिडिते ।। ।। संपुंकानां सत्वम्।। संपुंकानां सत्वं वक्तव्यम्। सँस्स्कर्ता। पुँस्कामा। काँस्कानिति(1)।। रुविधौ ह्यनिष्टप्रसङ्गः।। रुविधौ हि सत्यनिष्टं प्रसज्येत। इह तावत्-सँस्स्कर्त्तेति(1),-वा शरीति प्रसज्येत। पुँस्कामेति,-इदुदुपधस्येति षत्वं प्रसज्येत। काँस्कानिति,-कुप्वोः)(क)(पा(2)विति)(कः प्रसज्येत।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। क्रियते न्यास एव समः स्सुटि(3)ति द्विसकारको निर्देशः। समः स्सुटि(4) सकारो भवति। तत्प्रकृतमुत्तरत्रानुवर्तिष्यते।। यदि तदनुवर्तते,-नश्छव्यप्रशानित्यत्रापि प्राप्नोति, भवाँस्तत्रे(5)ति।। सम्बन्धमनुवर्तिष्यते। समः सुटि(6)। पुमः खय्यम्परे। सो भवति। नश्छव्यप्रशान्। रुर्भवति पुमः खय्यम्परे सकारः। उभयथर्क्षु दीर्घादटि समानपादे नॄन्पे स्वतवान्पायौ। रुर्भवति, पुमः खय्यम्परे सकारः। कानाम्रेडितेसकारः। पुमः खय्यम्परःथ्द्य;ति निवृत्तम्। ।। समो(1) वा लोपमेके।। समो वा लोपमेक इच्छन्ति।। संस्कर्ता सँस्कर्ता।। समः सुटिः।।