Page loading... Please wait.
8|4|55 - खरि च
॥ तस्मै पाणिनये नमः ॥
8|4|55
SK 121
खरि च   🔊
सूत्रच्छेदः
खरि (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
झलाम्  8|4|53 (षष्ठीबहुवचनम्) ,  चर्  8|4|54 (प्रथमैकवचनम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
झलाम् खरि चर् संहितायाम्
सूत्रार्थः
झल्-वर्णस्य खर्-वर्णे परे चर्त्वम् भवति ।
सूत्रेऽस्मिन् त्रयः प्रत्याहाराः प्रयुक्ताः सन्ति -
झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः ।
खर् = वर्गद्वितीयाः + वर्गप्रथमाः + श् + ष् + स् ।
चर् = वर्गप्रथमाः + श् , ष् , स् ।

झल्-वर्णात् परः यदि खर् वर्णः आगच्छति, तर्हि तस्य झल्-वर्णस्य चर्-वर्णादेशः भवति । स्थानेऽन्तरतमः 1|1|50 इत्यनेन उच्चारणस्थानेन स्थानिनः अन्तरतमः यः चर्-वर्णः, सः एव आदेशरूपेण विधीयते । इत्युक्ते, सर्वेषां वर्गीयव्यञ्जनानाम् तादृशः एव वर्गप्रथमः आदेशरूपेण आगच्छति । अपदान्त-शकारषकारसकाराणाम् तु तादृशः एव शकार-षकार-सकारादेशः विधीयते । हकारस्य तु हो ढः 8|2|31 इत्यनेन ढत्वं भवति, अतः अस्य सूत्रस्य प्रसक्तिः हकारस्य विषये नास्ति ।

कानिचन उदाहरणानि -

1. वाग् + चलति = वाक्चलति । गकारस्य सवर्णः ककारादेशः ।
2. त्रिष्टुब् + छन्दः = त्रिष्टुप्छन्दः । बकारस्य सवर्णः पकारादेशः ।
3. अस् + ति = अस्ति । सकारस्य सवर्णः सकारः एव ।

ज्ञातव्यम् - एतत् सूत्रम् त्रिपाद्याः चतुर्थाध्यायस्य अन्ते आगच्छति, अतः त्रिपाद्याः प्रायः सर्वेषाम् सूत्राणाम् दृष्ट्या एतत् असिद्धम् अस्ति । अतः कुत्रापि यदि त्रिपाद्याः पूर्वसूत्रस्य प्रसक्तिः अस्ति, तर्हि प्रथमम् तस्य सूत्रस्य एव प्रयोगः करणीयः । यथा -
1. वाग् + सु = वाक्षु । अत्र आदौ गकारस्य उपस्थितौ आदेशप्रत्यययोः 8|3|59 इति सकारस्य षकारः भवति । ततः गकारस्य सवर्णः ककारादेशः भूत्वा रूपं सिद्ध्यति ।
2. "ककुद् + चलति" इत्यत्र आदौ स्तोः श्चुना श्चुः 8|4|40 इत्यनेन श्चुत्वे कृते "ककुज् + चलति" इति स्थिते अग्रे वर्तमानसूत्रेण चर्त्वं कृत्वा "ककुच्चलति" इति रूपं सिद्ध्यति ।
3. "द्विष्" धातोः प्रथमपुरुषद्विवचनस्य रूपसिद्धौ "द्विष् + तः" इत्यत्र आदौ ष्टुना ष्टुः 8|4|41 इत्यनेन तकारस्य टकारः विधीयते । ततः "द्विष् + टः" इत्यत्र चर्त्वे षकारस्य तादृशः एव षकारः भवति ।
One-line meaning in English
A झल् letter is converted to a चर् letter when followed by a खर् letter.
काशिकावृत्तिः
खरि च परतो झलां चरादेशो भवति। जश्ग्रहणं न अनुवर्तते, पूर्वसूत्रे च अनुकृष्तत्वात्। भेत्ता। भेत्तुम्। भेत्तव्यम्। युयुत्सते। आरिप्सते। आलिप्सते।
`युयुत्सते` इति युधेः सन्, `पूर्ववत्? सनः` 1|3|62 इत्यात्मनेपदम्। `आरिप्सते` इति। रत्रिलभिभ्यां सन्। `सनि मीमा` 7|4|54 इत्यादिनेस्, `स्कोः संयोगाद्योरन्त च` 8|2|29 इति सकारलोपः। `अत्र लोपोऽब्यासस्य` 7|4|58 इत्यभ्यासलोपः। समुच्चयार्थश्चकारः, न केवलमब्यासे चरो भवन्ति, अपि तु खरि च। असति ह्रस्मश्चकारेऽनन्तरविहितं यच्चर्त्त्वं तत्? खरादावभ्यासनिमित्ते प्रत्यये स्यात्--तिष्ठासतीत्यादौ, न तु `चखाद` इत्यादावपीति कस्यचिन्मन्दभियो भ्रान्तिः स्यात्॥
युयुत्सत इति । युधेः सन्, धकारस्य तकारः । आरिप्सते, आलिप्सत इति । रभिलभ्योः ठ्सनि मीमाघुऽ इत्यादिना अच इस्, ठ्स्कोः संयोगाद्योःऽ इति सलोपः, भकारस्य पकारः ॥
सिद्धान्तकौमुदी
खरि परे झलां चरः स्युः । इति जकारस्य चकारः । तच्छिवः । तच्शिवः ॥ ।छत्वममीति वाच्यम् (वार्तिकम्) ॥ तच्श्लोकेन । तच्छलोकेन । अमि किम् । वाक् श्च्योतति ॥
शरोऽचि - शरोऽचि ।अचो रहाभ्या॑मित्यतो "द्वे" इति, "नादिन्याक्रोशे" इत्यतो नेति चानुवर्तते । तदाह अचि पर इत्यादिना । तथाच "चतुर्षु" इत्येकषकारमेव रूपम् । नच सत्यपि द्वित्वे "झरो झरि सवर्णे" इति लोपादेव एतषकाररूपसिद्धेरिदं व्यर्थमिति वाच्यं, लोपस्य वैकल्पिकत्वादिति भावः । प्रियाश्चत्वारो यस्येति बहुव्रीहौ प्रियचतुर्शब्दो विशेष्यनिघ्न एकद्विबहुवचनान्तः । तस्य सौ रूपमाह — प्रियचत्वा इति । प्रियचतुर् स् इति स्थिते "चतुरनडुहोः" इत्युकारादाम् । तस्याङ्गत्वेन तदन्तेऽपि प्रवृत्तेः । तत उकारस्य यण् । हल्ङ्यादिलोपश्चेति भावः । हे प्रियचत्व इति । "अम् संबुद्धौ" इत्यमिति भावः । प्रयिचत्वाराविति । सुटि सर्वनामस्थानत्वादाम् । प्रियचत्वारः । प्रियचत्वारम्, प्रयिचत्वारौ । शसादावाम् न । प्रियचतुरः । प्रियचतुरा प्रियचतुभ्र्याम् प्रियचतुर्भिः । प्रियचतुरे । प्रयिचतुरः २ । प्रियचतुरोः । आमिषट्चतुभ्र्यश्चे॑ति नुटमाशङ्क्याह — गौणत्वे त्विति ।षट्चतुभ्र्यश्चे॑ति बहुवचननिर्देशात्तदर्थप्राधान्य एव नुडिति भावः । प्रियचतुरि । प्रयिचतुर्षु । परमचतुर्ण्णामिति । कर्मधारयः । आङ्गत्वात्तदन्तादपि नुटिति भावः । इति रान्ता#ः । अथ लकारान्ताः । कमलमिति । कमलं=पद्मम् । कमला=लक्ष्मीः । कमलमाचष्टे इत्यर्थे कमलशब्दात्, कमलामाचष्टे इत्यर्थे कमलाशब्दा॒त्तत्करोति तदाचष्टे॑ इति णिचि "सनाद्यन्ताः" इति धातुत्वात्तदवयवस्य सुपो लुकिणाविष्ठत्प्रातिपदिकस्ये॑ति इष्ठवत्त्वाट्टिलोपे कमव्-इ इत्यतः कत्र्तरि क्विपि णेरनिटीति णिलोपे अपृक्तलोपे च कमलिति रूपम् । ततः सोर्हल्ङ्यादिलोपे कमलिति रूपम् । कमलाविति । औजसादिषु न कोऽपि विकार इति भावः । कमलं कमलौ कमलः । कमला कमल्भ्यां कमल्भिः । कमले । कमल्भ्यः । कमलः । कमलः कमलोः कमलाम् । सुपि विशेषमाह — षत्वं कमल्ष्विति । लकारस्य इण्त्वादिति भावः । तोयमाचष्टे तोयित्यादियकारान्तास्तु न सन्त्येव, क्विपिलोपो व्योः इति यलोपस्य दुर्वारत्वा । णिलोपस्य स्थानिवत्त्वं तु न भवति, यलोपे तन्निषेधात् । वस्तुतस्तुन पदान्ता हलो यणः सन्ती॑ति लण्सूत्रस्थभाष्यादनभिधानमेवंजातीयकानामिति हरदत्तः । "भोभगो" इति सूत्रेवृक्षव्करोती॑ति भाष्यं तु एकदेश्युक्तिरिति तदाशय इत्यलम् । इति लान्ताः ।
शरोऽचि - शरोऽचि ।अचो रहाम्भा॑मित्यतोद्वे॑इति,नादिन्याक्रोशे॑इत्यतोने॑ति चानुवर्तत इत्याह — न द्वे स्त इति । नन्वस्तु द्वित्वमेकस्य,झरो झरि सवर्णे॑इति लोपे सिद्धमिष्टम्, मैवम्, लोपस्य वैकल्पिकत्वेन पक्षे द्वयोः श्रवणप्रसङ्गात् । प्रियाः चत्वारश्चत्वारि वा यस्य सप्रियचत्वाः॑ । आङ्गत्वात्तदन्तस्यापिचतुरनडुहो॑रित्याम् ।हे प्रियचत्व॑इत्यत्र तुअम्सबुद्धौ॑इत्यम् । इति रान्ताः । कमलमिति.॒कमला श्रीर्हरिप्रिये॑त्यमरः । कमलमिति ।तत्करोति तदाचष्टे॑इति णिचीष्ठवद्भावाट्टिलोपः । णिजन्तात्क्विपि,णेरनिटी॑ति णिलोपः । एवं सलिलमाचक्षाणः — ॒सलिलौ॑सलिल॑इत्यादि बोध्यम् । नन्वेवं तोयमाचक्षाणस्तय् तोयौ तोय इति यान्ता अपि सुसाधाः । न चवेरपृक्तलोपाद्वलि लोपः पूर्वविप्रतिषेधेन॑ति यलोपः शङ्क्यः,लोपो व्योर्वली॑ति लोपे कर्तव्ये णिलोपस्य टिलोपस्या वा स्थानिवद्भावेन यकारस्य वल्परत्वाऽभावादिति चेन्मैवम्,न पदान्ते॑ति सूत्रेण यलोपे स्थानिवद्भावनिषेधात् । तस्माल्लोपो व्योर्वलीति यलोपः स्यादेवेति यान्ता नोक्ताः । इति लान्ताः । पदान्त इति । प्राचा तुझलि॑त्यप्युक्तं, तन्निष्फलत्वादुपेक्ष्यम् ।
लघुसिद्धान्तकौमुदी
खरि झलां चरः। इत्युदो दस्य तः। उत्थानम्। उत्तम्भनम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.