Page loading... Please wait.
4|2|5 - संज्ञायां श्रवणाश्वत्थाभ्याम्‌
॥ तस्मै पाणिनये नमः ॥
4|2|5
SK 1206
संज्ञायां श्रवणाश्वत्थाभ्याम्‌   🔊
सूत्रच्छेदः
संज्ञायाम् (सप्तम्येकवचनम्) , श्रवण-अश्वत्थाभ्याम् (पञ्चमीद्विवचनम्)
अनुवृत्तिः
तेन  4|2|1 (तृतीयैकवचनम्) , नक्षत्रेण  4|2|3 (तृतीयैकवचनम्) , कालः  4|2|3 (प्रथमैकवचनम्) , युक्तः  4|2|3 (प्रथमैकवचनम्) , लुप्  4|2|4 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"नक्षत्रेण युक्तः कालः" (इति) श्रवण-अश्वत्थाभ्याम् संज्ञायां लुप्
सूत्रार्थः
"युक्तः कालः" अस्मिन् अर्थे "श्रवण" तथा "अश्वत्थ" शब्दाभ्याम् प्रयुक्तस्य तद्धितप्रत्ययस्य संज्ञायाः निर्देशे लुप् भवति ।
Additional description will be added soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अविशेषे लुप् विहितः पूर्वेण, विशेषार्थो ऽयम् आरम्भः। श्रवनशब्दादश्वत्थशब्दाच् च उत्पन्नस्य प्रत्ययस्य लुब् भवति संज्ञायां विषये। श्रवणारात्रिः। अश्वत्थो मुहूर्तः। लुपि युक्तवद्भावः कस्मान् न भवति? निपातनात् विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः 4|2|23 इति। संज्ञायाम् इति किम्? श्रावणी, आश्वत्थी रात्रिः।
`लुपि युक्तवद्भावः कस्मान्न भवति` इति। यदि स्यात्, श्रवणशब्दस्य पुंल्लिङ्गता स्यात्। `निपातनात्` इत्यादिना परिहारः। गतार्थः॥
विशेषार्थोऽयमारम्भ इति । न तु संज्ञायां नियमार्थः; विधिसम्भवे नियमायोगात्, ठ्श्रवणाकार्तिकीऽ इत्यसंज्ञायामपि लुपो दर्शनाच्च । लुपि युक्तवद्भावः कस्मान्न भवतीति । श्रवणा रात्रिरित्यत्र । निपातनादिति । ङीप्त्वत्र प्रत्ययलक्षणेन भवति; ठण् योऽकारःऽ इति विज्ञानात् ॥
सिद्धान्तकौमुदी
विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । संज्ञायां किम् । श्रावणी । आश्वत्थी ॥
संज्ञायां श्रवणाश्वत्थाभ्याम् - संज्ञायाम् । श्रवणाऽआत्थाभ्यां परस्य नक्षत्र प्रत्ययस्य लुप् स्यात्संज्ञायामित्यर्थः । ननु लुबविशेषे॑ इत्येव सिद्धे किमर्थमिदमित्यत आह — विशेषार्थोऽयमारम्भ इति । श्रवणा रात्रिरिति । श्रवणयुक्तचन्द्रमसा युक्ता रात्रिरित्यर्थः ।विभाषा फाल्गुनीश्रवणे॑ति सूत्रे श्रवणेति निर्देशस्य सामान्यापेक्षत्वादपोर्णमास्यामपि युक्तवद्भावो नेति विज्ञायते । अतःश्रवणा रात्रि॑रिति सिद्धमिति प्रकृतसूत्रे भाष्ये स्पष्टम् । अआत्थो मुहूर्त इति । अआत्थो नाम अइआनीनक्षत्रम् । तेन युक्तः अआत्थः — मुहूर्तविशेषो ज्यौतिषे प्रसिद्धः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
संज्ञायां श्रवणाश्वत्थाभ्याम्( 1428) (श्रवणाशब्दसाधकं भाष्यम्) इह कस्मान्न युक्तवद्भावो भवति ‐ श्रवणा रात्रिः? निपातनादेतत्सिद्धम्। किं निपातनम्? विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः (4।2।23) इति।।