Page loading... Please wait.
8|4|61 - उदः स्थास्तम्भोः पूर्वस्य
॥ तस्मै पाणिनये नमः ॥
8|4|61
SK 118
उदः स्थास्तम्भोः पूर्वस्य   🔊
सूत्रच्छेदः
उदः (पञ्चम्येकवचनम्) , स्थास्तम्भोः (षष्ठीद्विवचनम्) , पूर्वस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
सवर्णः  8|4|58 (प्रथमैकवचनम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
उदः स्थास्तम्भोः पूर्वस्य सवर्णः
सूत्रार्थः
उद्-उपसर्गात् परस्य स्था-धातोः स्तम्भ-धातोः सकारस्य पूर्वसवर्णः थकारः भवति ।
"उद् + स्था" इत्यत्र अनेन सूत्रेण "स्था" इत्यस्य सकारस्य पूर्वसवर्णः थकारः विधीयते । तथा च, "उद् + स्तम्भ्" इत्यत्र अनेन सूत्रेण "स्तम्भ्" इत्यस्य सकारस्य अपि पूर्वसवर्णः थकारः भवति । यथा -

1) उद् + स्थानम्
→ उत् + स्थानम् [खरि च 8|4|55 इति चर्त्वम्]
→ उत् + थ्थानम् [उदः स्थास्तम्भोः पूर्वस्य 8|4|61 इति सकारस्य थकारः]
→ उत्थ्थानम्
→ उत्थानम् [झरो झरि सवर्णे 8|4|65 इत्यनेन थकारस्य विकल्पेन लोपः]

2) उद् + स्तम्भनम्
→ उत् + स्तम्भनम् [खरि च 8|4|55 इति चर्त्वम्]
→ उत् + थ्तम्भनम् [उदः स्थास्तम्भोः पूर्वस्य 8|4|61 इति सकारस्य थकारः]
→ उत्थ्तम्भनम्
→ उत्तम्भनम् [झरो झरि सवर्णे 8|4|65 इत्यनेन थकारस्य विकल्पेन लोपः]


ज्ञातव्यम् -
1) अनेन सूत्रेण "स्था-इत्यस्य / स्तम्भ्-इत्यस्य पूर्वसवर्णः भवति" इति उक्तम् अस्ति । आदेः परस्य 1|1|54 इत्यनेन अयम् आदेशः स्था / स्तम्भ् इत्येतयोः आदि-वर्णस्य, इत्युक्ते सकारस्य भवति ।
2) विवार-श्वास-अघोष-महाप्राणस्य सकारस्य पूर्वसवर्णः तवर्गीयः विवार-श्वास-अघोष-महाप्राणः थकारः आदेशरूपेण आगच्छति ।
One-line meaning in English
For उत्+स्था and उत्+स्तम्भ्, the सकार is converted to थकार.
काशिकावृत्तिः
सवर्णः इति वर्तते। उदः उत्तरयोः स्था स्तम्भ इत्येतयोः पूर्वसवर्णादेशो भवति। उत्थाता। उत्थातुम्। उत्थातव्यम्। स्तम्भेः खल्वपि उत्तम्भिता। उत्तम्भितुम्। उत्तम्भितव्यम्। स्थास्तम्भोः इति किम्? उत्स्नाता। उदः पूर्वसवर्नत्वे स्कन्देश् छन्दस्युपसङ्ख्यानम्। अग्ने दूरम् उत्कन्दः। रोगे च इति वक्तव्यम्। उत्कन्दको नाम रोगः। कन्दतेर् वा धात्वन्तरस्य एतद् रूपम्।
`उत्थाता` इति। `आदेः पदस्य` 1|1|53 इति सकारस्य महाप्राणस्याघोषस्य तादृश एव पूर्वसवर्णस्थकारः, `खरि च` 8|4|54 इति थकारस्य तकारः, `अनचि च` 8|4|46 इति पूर्वतकारस्य द्विर्वचनम्, `झरो झरि` 8|4|64 इति पक्ष एकस्य लोपः। `उत्तम्भिता` इति। स्तम्भिः सौत्रो धातुः। `उत्स्नाता` इति`ण्णा शौचे` (धातुपाठः-1052)। पूर्वग्रहणं परसवर्णनिवृत्त्यर्थम्। `उत्पूर्वस्य` इत्यादि। पूर्वसवर्णे कत्र्तव्ये स्कन्देश्छन्दति दि य उपसंख्यानम्--प्रतिपादनं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्--`व्यत्ययो बहुलम्` 3|1|85 इति व्यत्ययेनोदः परस्य स्कन्दे श्छन्दसि विषये पूर्वसवर्णो भविष्यति। `उत्कन्द` [`उत्कन्दः`--काशिका] इति। लोट्, सिप्, `सेह्र्रपिच्च` 3|4|87 इति हिरादेशः, `अतो हेः` 6|4|105 इति हेर्लुक्। `रोगे च` इत्यादि। इदमविशेषेण च्छन्दसि भाषायां च रोगे वाच्य उदः परस्य स्कन्देः पूर्वसवर्णो भवतीत्येतदर्थरूपं व्याक्येयमित्यर्थः। तत्रेदं व्याख्यानम्--पृषोदरादित्वा 6|3|108 द्भविष्यतीति। `उत्कन्दकः` इति। `रोगाख्यायां ण्वुल्बहुलम्` 3|3|108 इति ण्वुल्॥ बाल-मनोरमासर्वत्र शाकल्यस्य 59, 8.4.61 सर्वत्र शाकल्यस्य। `ने`त्यनुवर्तते। यत्र यत्र द्वित्वं विहितं तत्र तत्र शाकस्यस्य ऋषेर्मते द्वित्वं न भवतीत्यर्थः। दीर्घादाचार्याणाम्। `ने`त्यनुवर्तते। दीर्घात्परस्य यरो द्वित्वं केषाञ्चिदाचार्याणां मते न भवति। मतान्तरे तु भवति। `अनचि चे`त्यत्र वाग्रहणमनुवर्तते इति नाज्झलाविति सूत्रे कैयटः। एवं चाऽनचि चेत्येव द्वित्वविकल्पसिद्धौ त्रिप्रभृतिष्वित्यादिसूत्रत्रयं नारम्भणीयमिति प्रौढमनोरमायां स्थितम्। एतत्सूत्रत्रयविरोधादनचि चेत्यत्र वाग्रहणं नानुवर्त्त्यमिति युक्तं प्रतिभाति। बाल-मनोरमाउदः स्थास्तम्भोः पूर्वस्य 119, 8.4.61 उदः स्थास्तम्भोः। `अनुस्वारस्य ययि परसवर्णः` इत्यत्र समासनिर्दिष्टमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानात्। `उद` इति पञ्चमी। अतस्तस्मादित्युत्तरस्येति परिभाषया `उदःपरयो`रिति लभ्यते। तदाह--उदः परयोरिति। पूर्वेति। पूर्वनिमित्तस्य उदो दकारस्य यः सवर्णः स आदेशः स्यादित्यर्थः। पूर्वसवर्णश्चायमलोऽन्त्यपरिभाषया स्थास्तम्भोरन्तादेशो न भवतीत्याह--आदेः परस्येति। अनया परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवतीत्यर्थः। उत्थानमिति। `ष्ठा गतिनिवृत्तौ`। भावे ल्युट्। उत्तम्भनमिति। `ष्टभि प्रतिष्टम्भे` भावे ल्युट्। `स्तम्भु रोधने` इति श्नुविधौ निर्दिष्टः सौत्रो वा धातुः। `स्थास्तम्भो`रिति पवर्गीयोपधनिर्देशस्य उभयसाधारणत्वात्। ननु उद्-स्थानमित्यत्र सकारस्य पूर्वसवर्णविधौ पूर्वनिमित्तं दकारः, तत्सवर्णश्च तथदधनाः पञ्चैव। दन्तस्थानसाम्यात्स्पृष्टप्रयत्नसाम्याच्च, न तु लृकारः सकारश्च, तयोः स्थानसाम्येऽपि विवृतप्रयत्नत्वात्। नापि लकारः, ईषत्स्पृष्टत्वात्। एतदतिरिक्ताश्च सर्वे वर्णा भिन्नस्थानकत्वान्न दकारसवर्णाः। ततश्च पूर्वनिमित्तभूतदकारसवर्णास्तथदधना#ः पञ्चापि सकारस्य प्राप्ताः, स्थानीभूतसकारेण दन्तस्थानत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात्। आभ्यन्तरप्रयत्नत आन्तर्यस्य च पञ्चस्वप्यभावात्। स्थानीभूतसकारस्य विवृप्रयत्नत्वात्, एतेषां च पञ्चानां स्पृष्टप्रयत्नत्वात्। अतोऽत्र बाह्रप्रयत्नत एवान्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह--अत्राऽघोषस्येति। `अघोषस्ये`त्यनेन आआसवतो विवरवतश्चेत्युक्तप्रायं, समनियतत्वात्। स्थानीभूतस्तावत्सकारोऽत्राघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टवान्। तस्य तथदधनेषु प्रथमतृतीयपञ्चमा न भवन्ति, तेषामल्पप्राणत्वात्। नापि चतुर्थो भवति, तस्य घोषनादसंवारयत्नकत्वात्। द्वितीयस्तु थकारोऽघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टयवान्। अतः स एव थकारः पूर्वनिमित्तभूतदकारसवर्णः सकारस्य भवतीत्यर्थः। एवं च उद्-स्थानमिति स्थिते दकारस्य `खरि चे`ति चर्त्वेन तकारे सकारस्य पूर्वसवर्णे थकारे उत्थ्थानमित्येकतकारं द्विथकारं च रूपं सिद्धम्। एवं उत्थतम्भनमित्यत्रापि योज्यम्। तत्र द्वितकारमेकथकारं चेति विशेषः। तस्येति। सकारादेशस्य थकारस्येत्यर्थः। एवं च प्रथमथकारस्य लोपपक्षे एकतकारमेकथकारं च रूपमिति भावः। ननु प्रथमथकारस्य ल#ओपाभावपक्षे एकतकारं द्विथकारं च रूपमित्यनुपपन्नम्। प्रथमथकारस्य खरि चेति चर्त्वे सति द्वितकारमेकथकारमित्यापत्तेरित्यत आह--लोपाभावेति। असिद्धत्वादिति। `खरि चे`ति सूत्रापेक्षया उदस्था इत्यस्य परत्वादिति भावः। उत्त्तम्भनमिति त्रितकारपाठस्तु प्रामादिकः। उक्तप्रक्रियाया उभयत्रापि साधारण्यात्। केचित्तु `न मुने` इत्यत्र नेति योगविभागमभ्युपगम्य पूर्वसवर्णस्य थकारस्य चर्त्वं प्रत्यसिद्धत्वाऽभावाच्चर्त्वे उत्त्तम्भनमिति त्रितकाररूपं कथञ्चित्साधयामासुः। तत्तु मूलकृतो न संमतं, मूले उभयसाधारण्येनैव प्रक्रियानिरूपणात्। वस्तुतस्तु `दीर्घादाचार्याणा`मित्युत्तरम्। अनुस्वारस्य ययि परसवर्णः, वा पदान्तस्य, तोर्लि, उदःस्थास्तम्भोः पूर्वस्य, झयो होऽन्यतरस्याम्, शश्छोऽटीति षट्सूत्रीपाठोत्तरं `झलाञ्जश् झशि`, अभ्यासे चर्च`, `खरि च`, `वाऽवसाने`, `अणोऽप्रगृह्रास्यानुनासिकः`, इति पञ्चसूत्रीपाठ इति `हलो यमा`मिति सूत्रस्थभाष्यसंमतः सूत्रकमः। एवं च `खरि चे`ति चर्त्वे कर्तव्ये उदः स्थास्तम्भोरिति पूर्वसवर्णस्य थकारस्य असिद्धत्वाऽभावाच्चर्त्वे उत्थ्तानमिति द्वितकारमेकथकारं च रूपम्, उत्तूतम्भनमिति तु त्रितकारमेव रूपमिति शब्देन्दुशेखरे प्रपञ्चितम्।
परसवर्ण इति समस्तमपि सवर्णग्रहणमिह निष्कृष्य सम्बद्ध्यते । उत्थातेति । सकारस्य पूर्वसवर्णस्तकारः । अन्ये तु बाह्यप्रयत्नसाम्यात् थकारमिच्छन्ति । तत्र तखाराद्वयस्य श्रवणम् । न च पूर्वस्य चर्त्वम्; तत्र कर्तव्येऽस्य पूर्वसवर्णस्यासिद्वत्वात् । रोगे चेति वक्तव्यमिति । इदमविशेषेण च्छन्दसि, भाषायां च ॥
सिद्धान्तकौमुदी
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः स्यात् ॥ आदेः परस्य (कौमुदी-44) । उत्थानम् । उत्तम्भनम् । अत्राघोषस्य सस्य तादृश एव थकारः । तस्य झरो झरि (कौमुदी-71) इति पाक्षिको लोपः । लोपाभावपक्षे तु थकारस्यैव श्रवणं न तु खरि च (कौमुदी-121) इति चर्त्त्वम् । चर्त्त्वं प्रति थकारस्याऽसिद्धत्वात् ॥
उदः स्थास्तम्भोः पूर्वस्य - उदः स्थास्तम्भोः ।अनुस्वारस्य ययि परसवर्णः॑ इत्यत्र समासनिर्दिष्टमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानात् । "उद" इति पञ्चमी । अतस्तस्मादित्युत्तरस्येति परिभाषयाउदःपरयो॑रिति लभ्यते । तदाह — उदः परयोरिति । पूर्वेति । पूर्वनिमित्तस्य उदो दकारस्य यः सवर्णः स आदेशः स्यादित्यर्थः । पूर्वसवर्णश्चायमलोऽन्त्यपरिभाषया स्थास्तम्भोरन्तादेशो न भवतीत्याह — आदेः परस्येति । अनया परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवतीत्यर्थः । उत्थानमिति ।ष्ठा गतिनिवृत्तौ॑ । भावे ल्युट् । उत्तम्भनमिति ।ष्टभि प्रतिष्टम्भे॑ भावे ल्युट् । "स्तम्भु रोधने" इति श्नुविधौ निर्दिष्टः सौत्रो वा धातुः ।स्थास्तम्भो॑रिति पवर्गीयोपधनिर्देशस्य उभयसाधारणत्वात् । ननु उद्-स्थानमित्यत्र सकारस्य पूर्वसवर्णविधौ पूर्वनिमित्तं दकारः, तत्सवर्णश्च तथदधनाः पञ्चैव । दन्तस्थानसाम्यात्स्पृष्टप्रयत्नसाम्याच्च, न तु लृकारः सकारश्च, तयोः स्थानसाम्येऽपि विवृतप्रयत्नत्वात् । नापि लकारः, ईषत्स्पृष्टत्वात् । एतदतिरिक्ताश्च सर्वे वर्णा भिन्नस्थानकत्वान्न दकारसवर्णाः । ततश्च पूर्वनिमित्तभूतदकारसवर्णास्तथदधना#ः पञ्चापि सकारस्य प्राप्ताः, स्थानीभूतसकारेण दन्तस्थानत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात् । आभ्यन्तरप्रयत्नत आन्तर्यस्य च पञ्चस्वप्यभावात् । स्थानीभूतसकारस्य विवृप्रयत्नत्वात्, एतेषां च पञ्चानां स्पृष्टप्रयत्नत्वात् । अतोऽत्र बाह्रप्रयत्नत एवान्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह — अत्राऽघोषस्येति ।अघोषस्ये॑त्यनेन आआसवतो विवरवतश्चेत्युक्तप्रायं, समनियतत्वात् । स्थानीभूतस्तावत्सकारोऽत्राघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टवान् । तस्य तथदधनेषु प्रथमतृतीयपञ्चमा न भवन्ति, तेषामल्पप्राणत्वात् । नापि चतुर्थो भवति, तस्य घोषनादसंवारयत्नकत्वात् । द्वितीयस्तु थकारोऽघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टयवान् । अतः स एव थकारः पूर्वनिमित्तभूतदकारसवर्णः सकारस्य भवतीत्यर्थः । एवं च उद्-स्थानमिति स्थिते दकारस्यखरि चे॑ति चर्त्वेन तकारे सकारस्य पूर्वसवर्णे थकारे उत्थ्थानमित्येकतकारं द्विथकारं च रूपं सिद्धम् । एवं उत्थतम्भनमित्यत्रापि योज्यम् । तत्र द्वितकारमेकथकारं चेति विशेषः । तस्येति । सकारादेशस्य थकारस्येत्यर्थः । एवं च प्रथमथकारस्य लोपपक्षे एकतकारमेकथकारं च रूपमिति भावः । ननु प्रथमथकारस्य ल#ओपाभावपक्षे एकतकारं द्विथकारं च रूपमित्यनुपपन्नम् । प्रथमथकारस्य खरि चेति चर्त्वे सति द्वितकारमेकथकारमित्यापत्तेरित्यत आह — लोपाभावेति । असिद्धत्वादिति ।खरि चे॑ति सूत्रापेक्षया उदस्था इत्यस्य परत्वादिति भावः । उत्त्तम्भनमिति त्रितकारपाठस्तु प्रामादिकः । उक्तप्रक्रियाया उभयत्रापि साधारण्यात् । केचित्तु "न मुने" इत्यत्र नेति योगविभागमभ्युपगम्य पूर्वसवर्णस्य थकारस्य चर्त्वं प्रत्यसिद्धत्वाऽभावाच्चर्त्वे उत्त्तम्भनमिति त्रितकाररूपं कथञ्चित्साधयामासुः । तत्तु मूलकृतो न संमतं, मूले उभयसाधारण्येनैव प्रक्रियानिरूपणात् । वस्तुतस्तुदीर्घादाचार्याणा॑मित्युत्तरम् । अनुस्वारस्य ययि परसवर्णः, वा पदान्तस्य, तोर्लि, उदःस्थास्तम्भोः पूर्वस्य, झयो होऽन्यतरस्याम्, शश्छोऽटीति षट्सूत्रीपाठोत्तरंझलाञ्जश् झशि॑, अभ्यासे चर्च॑,खरि च॑,वाऽवसाने॑,अणोऽप्रगृह्रास्यानुनासिकः॑, इति पञ्चसूत्रीपाठ इतिहलो यमा॑मिति सूत्रस्थभाष्यसंमतः सूत्रकमः । एवं चखरि चे॑ति चर्त्वे कर्तव्ये उदः स्थास्तम्भोरिति पूर्वसवर्णस्य थकारस्य असिद्धत्वाऽभावाच्चर्त्वे उत्थ्तानमिति द्वितकारमेकथकारं च रूपम्, उत्तूतम्भनमिति तु त्रितकारमेव रूपमिति शब्देन्दुशेखरे प्रपञ्चितम् ।
उदः स्थास्तम्भोः पूर्वस्य - उदः स्था ।अनुस्वारस्य ययी॑त्यत्र समस्तमपि सवर्णग्रहणमिह निष्कृष्य संबध्यते, एकदेशे स्वरितत्वप्रतिज्ञानादित्यमिप्रेत्याह — पूर्वसवर्णः स्यादिति॥
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
उदः स्थास्तम्भोः पूर्वस्य ।। उदः(1) पूर्वत्वे स्कन्देश्छन्दस्युपसङ्ख्यानम्।। उदः पूर्वत्वे स्कन्देश्छन्दस्युपसङ्ख्यानं कर्त्तव्यम्।। अघ्न्ये दूरमुत्कन्द(2)।। रोगे च(1)।। रोगे चेति वक्तव्यम्। उत्कन्दको रोगः।।