Page loading... Please wait.
7|3|19 - हृद्भगसिन्ध्वन्ते पूर्वपदस्य च
॥ तस्मै पाणिनये नमः ॥
7|3|19
SK 1133
हृद्भगसिन्ध्वन्ते पूर्वपदस्य च   🔊
सूत्रच्छेदः
हृद्भगसिन्ध्वन्ते (सप्तम्येकवचनम्) , पूर्वपदस्य (षष्ठ्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 उत्तरपदस्य  7|3|10
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
हृद् भग सिन्धु इत्येवम् अन्तो ऽङ्गे पूर्वपदस्य उत्तरपदस्य च अचामादेरचो वृद्धिर् भवति तद्धिते ञिति, णीति, किति च परतः। सुहृदयस्य इदम् सौहार्दम्। सुहृदयस्य भावः सौहार्द्यम्। सुभगस्य भावः सौभाग्यम्। दौर्भाग्यम्। सुभगायाः अपत्यम् सौभागिनेयः। दौर्भागिनेयः। कल्याण्यादिषु सुभगदुर्भगेति पठ्यते। सुभग मन्त्रे इत्युद्गात्रादिषु पठ्यते। तत्र उत्तरपदवृद्धिर् न इष्यते। महते सौभगाय। छन्दसि सर्वविधीना विकल्पितत्वात्। सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, सक्तुसिन्धुषु भवः साक्तुसैन्धवः। पानसैन्धवः। सिन्धुशब्दः कच्छादिषु पठ्यते, तेन तदन्तविधिरिष्यते इति अण्प्रत्ययः।
`सौहार्दम्` इति। तस्येदम्` 4|3|120 इत्यण्। यदा सुह्मदयशब्दादण्, तदा `ह्मदयस्य ह्मल्लेखयदण्लासेषु` 6|3|49 इति ह्मद्भावः। `सौहाद्र्यंम्` इति। `गुणवचनब्राआहृणादिभ्यः` 5|1|123 इति ष्यञ्, `वा शोकष्यञ्रोगेषु` 6|3|50 इति ह्मद्भावः। `सौभागिनेयः, दीर्भागिनयः` इति। `कस्याण्यादीनामिनङ च` 4|1|126 इति ढकि कृत इनङादेशः। `सक्तुसिन्धवः` इति। शापकपार्थिवादित्वान्मध्यमपदलोपो समासः। `साक्तुसैन्धवः` इति। ओर्देशे 4|2|118 ठञि प्राप्ते `कच्छादिभ्यश्च` 4|2|132 इत्यण्। ननु च केवलस्तत्र सिन्धुशब्दः पठते, कथं तदन्ताद्भवति? इत्याह--`तेन` इत्यादि। कथं पुनस्तेन सिन्धुशब्देन तदन्तविधिर्लभ्यते, यावता `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति` (व्या।प।89) इति तदन्तविधिः प्रतिषिध्यते? नैष दोषः; चकारस्तत्रानुक्तसमुच्चयार्थः, तेन सिन्धुशब्दात्? तदन्तादपि भवति॥
सुहृद इति । ठ्सुहृद्दुर्ह्ड्दौ मित्रामित्रयोःऽ इति निपातितः सुहृच्छब्दः । यदा तु सुहृदयस्येदमिति पाठः, तदा ठ्हृदयस्य हृल्लेखऽ इत्यादिना हृद्भावः । सौहार्द्यमिति । ठ्वा शोकष्यञ्रोगेषुऽ इति हृद्भावः । सिन्धवो जनपदः, नदीवचनस्यापि ग्रहणम्, तथा समुद्रवचनस्यापि ॥
सिद्धान्तकौमुदी
हृदाद्यन्ते पूर्वोत्तरपदयोरचामादेरचो वृद्धिर्ञिति णिति किति च । सुहृदोपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः । तेषु भवः साक्तुसैन्धवः ॥
हृद्भगसिन्ध्वन्ते पूर्वपदस्य च - ह्मद्भग । ह्मदाद्यन्त इति । ह्मत्, भग, सिन्धु-एतदन्तेषु समासेष्वित्यर्थः । चकारादुत्तरपदस्येत्यनुकृष्यते । तदाह — पूर्वोत्तरपदयोरिति । सौहार्द इति । अणि उभयपदादिवृद्धिः । ऋकारस्य तु आकारो रपरः । सौभागिनेय इति । कल्याण्यादित्वाड्ढकि इनङि उबयपदादिवृद्धिरिति भावः । एतत्प्रसह्गादेव इदं सूत्रमत्रोपन्यस्तम् । "महते सौभगाय" इत्यत्र तु उद्गात्रादित्वाद्भावे अञ् । उत्तरपदादिवृद्ध्यभावश्छान्दसः । सिन्धव इति । अआआ इत्यर्थः ।
हृद्भगसिन्ध्वन्ते पूर्वपदस्य च - हद्भद ।पूर्वपदस्य चे॑ति चकारेणउत्तरपदस्य॑ इत्यनुकृष्यते । तदाह — -पूर्वोत्तरपदयोरिति ।महते सौभगाये॑त्यत्र तूद्रात्रादित्वादञ् । छान्दसत्वान्नोत्तरपदवृद्धिरित्याशयः ।चटकायाऋ॑इति स्त्रीलिङ्गनिर्देशात्पुंसि न स्यादित्याशङ्क्याह ।चटकस्येति वाच्यम् । चटकस्येति वाच्यमिति । एवं चचटकादैरगि॑त्येव सांप्रदायिकः पाठ इति न्यासकृदुक्तिर्वार्तिकविरोधादुपेक्ष्या ।स्त्रियामपत्ये लुग्वक्तव्यः । तयोरेवेति । तत्र टाबन्तात्तद्धित लुकिलुक्तद्धितलुकी॑ति टापो लुकी जातिलक्षमङीषं बाधित्वा अजादिलक्षणष्टाबिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.