Page loading... Please wait.
7|3|28 - प्रवाहणस्य ढे
॥ तस्मै पाणिनये नमः ॥
7|3|28
SK 1129
प्रवाहणस्य ढे   🔊
सूत्रच्छेदः
प्रवाहणस्य (षष्ठ्येकवचनम्) , ढे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 उत्तरपदस्य  7|3|10
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रवाहणस्य ढे परतः उत्तरपदस्य अचामादेरचः वृद्धिर् भवति, पूर्वपदस्य वा भवति। प्रवाहणस्य अपत्यम् प्रावाहणेयः, प्रवाहणेयः। शुभ्रादिभ्यश्च 4|1|123 इति ढक् प्रत्ययः।
प्रवाहणशब्दस्य ढे प्रत्यये परत उत्तरपदस्येति व्यधिकरणे षष्ठ्यौ। प्रवाहणशब्दसय यदुत्तरपदमवयवस्तस्येत्यर्थः। `प्रवाहणेयः` इति। वहेः प्रपूर्वाण्णिच्--प्रवाहयतीति प्रवाहणः। णिजन्तात्? `कृत्यल्युटो बहुलम्` 3|3|113 इति कत्र्तरि ल्युट्, प्रादिसमासः, `णेर्विभाषा` 8|4|29 इति णत्वम्, ततोऽपत्यार्थे ढक्। किमर्थं पुनरुत्तरपदस्य वृद्धिर्विधीयते, यावता वृद्धिमवेवैतत्? यदप्येवम्, तथापि वृद्धिरविधातव्या; तद्धितस्य वृद्धिनिमित्तत्वात्, `वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे` 6|3|38 इति पुंवद्भावप्रतषेधो यथा स्यात्। यदि ह्रुत्तरपदवृद्धिर्न विधीयते, ततो यस्मिन्? पक्षे पूर्वपदे वृद्धिर्न विधीयते तस्मिन्? पक्षे प्रवाहणेयी भार्या अस्येति प्रवाहणेयीभायं इत्यत्र पुंवद्भावप्रतषेधो न स्यात्; वृद्धेरनिमित्तत्वात्? तद्धितस्य। यथा--वैयाकरणभायं इत्यत्र। ननु चासत्यपि वृद्धिनिमित्तत्वे तद्धितस्य` `जातेश्च` 6|3|40 इति पुंवद्भावप्रतिषेधो भविष्यति, अस्ति ह्रत्रापि `गोत्रं च चरणैः सह` (म।भा।2।225) इति जातित्वम्? एवं तर्हि एतज्ज्ञापयति--अनित्योऽयं प्रतिषेध इति। तेन हस्तिनीनां समूहो हास्तिकमित्यत्र `भस्याढे तद्धिते` (वा।731) इत्यौपसंख्यानिकस्य पुंवद्भावस्य प्रतिषेधो न भवति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
प्रवाहणशब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वापदस्य तु वा ढे परे । प्रवाहणस्यापत्यं प्रावाहणेयः-प्रवाहणेयः ॥
प्रवाहणस्य ढे - प्रवाहणस्य । उत्तरपदस्येत्यधिकृतम् ।तद्धितेष्वचामादे॑रित्यतोऽचामादेरित्यनुवर्तते ।मृजेर्वृद्धि॑रित्यतो वृद्धिरिति,अर्धात्परिमाणस्य पूर्वस्य तु वे॑त्यतः पूर्वस्य वेतिच । तदाह — प्रवाहणशब्दस्येति । प्रावाहणेयः प्रवाहणेनय इति । शुभ्रादित्वाड्ढकि पूर्वपदस्य पाक्षिकी आदिवृद्धिः । उत्तरपदस्य नित्यम् । उत्तरपदे आकारस्य वृद्धेः फलं तु "प्रवाहणेयीभार्य" इत्यत्रवृद्धिनिमित्तस्य चे॑ति पुंवत्त्वप्रतिषेध एव ।
प्रवाहणस्य ढे - प्रवाहणस्य ढे । उत्तरपदस्येत्यधिक्रियते ।अर्धात्परिमाणे॑त्यतःपूर्वस्य तु वा॑ इति अनुवर्तते । तदाह — -उत्तरपदस्याचामादेरित्यादि । नित्यमुत्तरपदवृद्धेः फलं तुप्रवाहणेयीभार्यः॑इत्यत्रवृद्धिनिमित्तस्ये॑ति पुंवद्भावप्रतिषेधः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
प्रवाहणस्य ढे परस्य वृद्धिर्नेत्यनुवर्तते उताहो न ? ।। किं चातः ? ।। यद्यनुवर्तते प्रवाहणेयी भार्याऽस्येति प्रवाहणेयीभार्यः, वृद्धिनिमित्तस्येति पुंवद्भावप्रतिषेधो न प्राप्नोति । अथ निवृत्तं, न दोषो भवति ।। यथा न दोषस्तथास्तु ।। अथवा पुनरस्त्वनुवर्तते । ननु चोक्तं- -प्रवाहणेयी भार्यास्य प्रवाहणेयीभार्यः ‐ वृद्धिनिमित्तस्येति पुंवद्भावप्रतिषेधो न प्राप्नोतीति ।। नैषः दोषः, मा भूदेवं जातेश्चेत्येवं(2) भविष्यति ।। ( प्रवाहणस्य ढे ) ।।