Page loading... Please wait.
8|3|33 - मय उञो वो वा
॥ तस्मै पाणिनये नमः ॥
8|3|33
SK 108
मय उञो वो वा   🔊
सूत्रच्छेदः
मयः (पञ्चम्येकवचनम्) , उञो (षष्ठ्येकवचनम्) , वः (प्रथमैकवचनम्) , वा (अव्ययम्)
अनुवृत्तिः
अचि  8|3|32 (सप्तम्येकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
पदस्य मयः उञः वः वा अचि
सूत्रार्थः
पदान्ते विद्यमानस्य मय्-वर्णात् परस्य उञ्-शब्दस्य स्वरे परे विकल्पेन वकारादेशः भवति ।
सूत्रार्थात् पूर्वम् पदार्थम् पश्यामः -
1. "उञ्" इति कश्चन निपातः चादिगणे निर्दिष्टः अस्ति । (चादिगणस्य आवली चादयोऽसत्वे 1|4|57 इत्यत्र दत्ता अस्ति ।] अस्मिन् शब्दे ञकारस्य इत्संज्ञा अस्ति, अतः दृश्यरूपेण केवलं उकारः एव आगच्छति ।
2. मय्-प्रत्याहारे ञ्-वर्णम् विहाय सर्वाणि व्यञ्जनानि समाविश्यन्ते ।

अतः अस्य सूत्रस्य अर्थः - पदान्ते यदि मञ्-वर्णः अस्ति, तर्हि तस्मात् परस्य उञ्-शब्दस्य (इत्युक्ते उकारस्य) स्वरे परे विकल्पेन वकारादेशः भवति । यथा -

"किम् उ उक्तम्" इति स्थिते
→ किम् व् उक्तम् [मय उञो वो वा 8|3|33 इति विकल्पेन वकारः]
→ किम्वुक्तम् ।

विकल्पाभावे "किमु उक्तम्" इत्येव तिष्ठति, यतः इति स्थिते इत्यनेन उञ्-इत्यस्य निपात एकाजनाङ् 1|1|14 इत्यनेन प्रगृह्यसंज्ञा अस्ति, अतः प्लुतप्रगृह्याः अचि नित्यम् 6|1|125 इत्यनेन प्रकृतिभावः जायते ।

विशेषः - "किम् उ इति" इत्यत्र -
1) ऊँ 1|1|18 इत्यनेन "उ" इत्यस्य वैकल्पिके ऊँ-आदेशे कृते "किम् ऊँ इति" इति सिद्ध्यति । "ऊँ" आदेशः प्रगृह्यः अस्ति, अतः अस्य अग्रे सन्धिः न भवति ।
एवं न कुर्मश्चेत् -
2) उञः 1|1|17 इत्यनेन "उ" इत्यस्य वैकल्पिकः प्रकृतिभावः भवति, अतः "किमु उक्तम्" इति जायते ।
एवमपि न कुर्मश्चेत् -
3) मय उञो वो वा 8|3|33 इत्यनेन उकारस्य वैकल्पिकः वकारादेशः भवति, अतः किम् व् इति = किम्विति इति जायते ।
एवमपि न कुर्मश्चेत्
4) इको यणचि 6|1|77 इत्यनेन यणादेशं कृत्वा "किम्विति" इति जायते ।

ज्ञातव्यम् - किम्वुक्तम् / किम्विति इत्यत्र मोऽनुस्वारः 8|3|23 इत्यस्य प्रसक्तिः नास्ति, यतः मोऽनुस्वारः 8|3|23 एतत् सूत्रम् मय उञो वो वा 8|3|33 इत्यनेन कृतः वकारः असिद्धत्वात् द्रष्टुं न शक्नोति ।
One-line meaning in English
When the word उञ् comes after a letter from the मञ् प्रत्याहार occurring at पदान्त, and when such an उञ् is followed by a स्वर, the word उञ् is optionally converted to a वकार.
काशिकावृत्तिः
मय उत्तरस्य उञो वा वकारादेशो भवति अचि परतः। शंवस्तु वेदिः, शमु अस्तु वेदिः। तद्वस्य परेतः, तदु अस्य परेतः। किंवावपनम्, किमु आवपनम्। प्रगृह्यत्वातुञः प्रकृतिभावे प्राप्ते वकारो विधीयते। तस्य असिद्धत्वाद् हलि इति मो ऽनुस्वारः 8|3|23 न भवति।
`मयः` इति प्रत्याहारस्य ग्रहणम्, न तु अय वय `मय` इति धातोः। कुत एतत्? व्याप्तिन्यायात्। किमर्थमिदमुच्यते, यावता `इको यणचि` 6|1|74 इत्युञो वकारः सिद्ध एव, विकल्पार्थमिति चेत्? स्यादेतत्--यदि `इको यणचि` इति नित्यं स्यात्, तस्माद्विकल्पार्थं वचनमिति? एतच्च न; `पदान्ताद्वा` 6|1|73 इत्यतो वेत्यनुवर्त्तिष्यते, सा च व्यवस्थितविभाषा विज्ञायते। तेनोञो विकल्पेन यन्मवतीत्याह--`प्रगृह्रत्वात्` इत्यादि। प्रगृह्रत्वं पुनः `उञः` 1|1|17 इति प्रगृह्रसंज्ञाविधानात्। तस्मिन्? सति `प्लुतप्रगृह्र अचि` 6|1|121 इति प्रकृतिभावः प्राप्नोति, तस्मिन्? प्राप्ते वकारो विधीयते। एवमपि `इको यणचि` इत्यस्यानन्तरमुञो यण्? वकारो विधेयः एवं हि व इति न कत्र्तव्यं भवति; यणः प्रकृतत्वात्। वेति वचनं न कत्र्तव्यं भवति; `पदान्ताद्वा` 6|1|76 इत्यतो वाग्रहणं मण्डूकप्लुत्याऽनुवत्र्तते? इत्याह--`असिद्धत्वात्` इत्यादि। तत्र ह्रुच्यमाने वकारस्य [नास्ति--कांउ।पाठे] सिद्धत्वाद्धलि विधीयनानोऽनुस्वारः स्यात्, न चेष्यते, तस्मादिहैव क्रियते। इह क्रिममाणो मोऽनुस्वारो न भवति, वत्वस्यासिद्धत्वात्॥
ठिको यणचिऽ इत्यनेनैव सिद्धत्वान्नार्थोऽनेन ?---इत्याशङ्क्याह---प्रगृह्यत्वादिति । प्रगृह्यत्वं च ठ्निपात एकाजनाङ्ऽ इति । एवमपि ठिको यणचिऽ इत्यस्यानन्तरम् ठ्मय उञो वाऽ इति वक्तव्यम्, एवं हि वग्रहण न कर्तव्यं भवति ? तत्राह---तस्यासिद्धत्वादिति । यदा त्वितिपर उञ् भवति मयश्च परः, तदा ठुञःऽ इति प्रकगृह्यसंज्ञाया विकल्पः, Äषादेशश्च; तत्र यदा प्रगृह्यसंज्ञा न भवति तदानेन वत्वं च प्राप्नोति यणादेशश्च, तत्रास्य वत्वस्यासिद्धत्वाद्यणादेशे सत्यनुस्वारोऽपि भवति---किंविति । प्रगृह्यसंज्ञाअपक्षे त्वनेन वा वत्वम्---किव्विति, किमु इति । Äषादेशस्यापि स्थानिवद्भावादनेन पक्षे वकारो भवति, स चान्तरतमत्वादनुनासिकः, तच्चतुर्थं रूपम् । Äषादेशस्यैव वत्वाभावपक्षे श्रवणम्, तत्पञ्चमं रूपम् ॥
सिद्धान्तकौमुदी
मयः परस्य उञो वो वा स्यादचि । किमु उक्तम् । किम्वुक्तम् । वत्वस्यासिद्धत्वान्नानुस्वारः ॥
मय उञो वो वा - मय उञो वो वा । "मय" इति पञ्चमी, "उञ" इति षष्ठी । "ङमो ह्यस्वादचि" इत्यतोऽचीत्युवर्तते, तदाह — मयः परस्येति । किम्वुक्तमिति ।किमु उक्त॑मिति स्थिते मकारोत्तरोकारस्य उञो "निपात एकाच्" इति नित्यं प्रगृह्रत्वात्प्रकृतिभावाद्यणभावे प्राप्ते वत्ववचनमिदम् । ननु तर्हीको यणचीत्यनन्तरमेवमय उञो वे॑ति पठितव्यं, वग्रहणाऽभावेन लाघवात् । त्रिपाद्यां पाठे वग्रहणस्यापि कर्तव्यत्वेन गोरवादित्यत आह — वत्वस्येति । यदि षष्ठस्य प्रथमे पादे इको यणचीत्यत्रैव मय उञो यणादेशविकल्पो विधीयेत,तर्हि किम्वुक्तमित्यत्र "मोऽनुस्वार" इति मकारस्य वकारे परेऽनुस्वारः स्यात् । त्रिपाद्यां वत्वविधौ तु तस्याऽसिद्धत्वान्नानुस्वारः । त्रिपाद्यामनुस्वारविध्यपेक्षया वत्वविधेः परत्वादिति भावः ।
मय उञो वो वा - ॒प्रगृह्र॑मित्यनुवर्तनादाह — प्रगृह्रश्चेति । ननु दीर्घोच्चारणसामथ्र्यादेव प्रकृतिभावासिद्धौ किमनेन प्रगृह्रत्वेनेति चेदत्राहुः-प्रगृह्राप्रगृह्रयोद्र्वयोरप्युञोरादेशापत्तौ प्रगृह्रादेशे प्रकृतिभावादिष्टसिद्धावपि अप्रगृह्रादेशस्याऽनुनासिको वकारः स्यात्तद्वारणाय प्रगृह्रत्वाश्रयणमिति । आदेशस्यास्य स्थानिवत्त्वेनोञ्त्वादुञ इति प्रगृह्रत्वविकल्पे प्राप्ते नित्यार्थं तदाश्रयणमित्यन्ये । यदि तुप्रगृह्र॑मित्यस्य स्थानिविशेषणत्वं स्वीकृत्यप्रगृह्रस्योञः ऊँ इत्यमादेशः॑ इति व्याख्यायते, तदा दीर्घानुनासिकोक्तिवत्प्रगृह्रश्चेत्युक्तिरपि स्वरूपकथनमेवेति बोध्यम् । ऊँ इत्यत्र यदि शाकल्यस्येति नापेक्ष्यते, तदा प्रगृह्रस्योञो नित्यमादेशः स्यात्ततश्चविति॑ऊँ अत् ॑ एते द्वे रूपे स्याताम्, तस्माच्छाकल्यग्रहणानुवृत्त्या आदेशविकल्पे सिद्धे त्रीणि रूपाणि सिध्यन्तीति कैयटस्तदाह — अयमादेषो वा स्यादिति । व(त्व)स्यासिद्धत्वादिति । अत एवेदं त्रिपाद्यां विधीयते । प्रकृतिभावमात्रबाधनार्थत्वे हिइको य॑णित्यनन्तरंमय उञो वे॑त्येवावक्ष्यत्, यणं चाऽन्ववर्तयिष्यत् ।
लघुसिद्धान्तकौमुदी
मयः परस्य उञो वो वाचि। किम्वुक्तम्, किमु उक्तम्॥
महाभाष्यम्
मय उञ्ञो वो वा किमर्थं मय उत्तरस्य उञ्ञो वो वेत्युच्यते(2) नेको यणचीत्येव सिद्धम्?।। न सिध्यति। प्रगृह्यः प्रकृत्येति प्रकृतिभावः प्राप्नोति।। यदि पुनस्तत्रैवोच्येत-इको यणचि मय उञ्ञो वेति?।। नैवं शक्यमिह हि दोषः स्यात्-किम्वावपनं महत्। मोऽनुस्वारो हलीत्यनुस्वारः प्रसज्येत। वत्वे पुनः सत्यसिद्धत्वान्न भविष्यति।। मय उञ्ञो वो वा।।