Page loading... Please wait.
1|1|17 - उञः
॥ तस्मै पाणिनये नमः ॥
1|1|17
SK 106
उञः   🔊
सूत्रच्छेदः
उञः (षष्ठ्येकवचनम्) , (प्रथम्या विपरिणम्यते)
अनुवृत्तिः
प्रगृह्यम्  1|1|11 (प्रथमैकवचनम्) , अनार्षे  1|1|16 (सप्तम्येकवचनम्) , इतौ  1|1|16 (सप्तम्येकवचनम्) , शाकल्यस्य  1|1|16 (षष्ठ्येकवचनम्)
अधिकारः
-
सम्पूर्णसूत्रम्
शाकल्यस्य (मतेन) अनार्षे इतौ उञ् प्रगृह्यम्
सूत्रार्थः
"उञ्" इति निपातः अवैदिके "इति" शब्दे परे शाकल्यस्य मतेन प्रगृह्यसंज्ञकः भवति ।
"उञ्" इति कश्चन निपातः । चादयोऽसत्वे 1|4|57 अनेन सूत्रेण निर्दिष्टे "चादिगणे" अयं शब्दः वर्तते । प्राग्रीश्वरान्निपाताः 1|4|56 अनेन अस्य निपातसंज्ञा भवति । अस्य निपातस्य निपात एकाजनाङ् 1|1|14 इत्यनेन नित्यरूपेण प्रगृह्यसंज्ञायां प्राप्तायाम् अवैदिके "इति" शब्दे परे अनेन सूत्रेण सा विकल्प्यते - इत्युक्ते, विकल्पेनैव प्रगृह्यसंज्ञा भवति । प्रगृह्यसंज्ञायाः अभावात् इको यणचि 6|1|77 इति यणादेशं कृत्वा रूपं सिद्ध्यति ।

यथा - उ इति → उ इति / विति । ज्ञातव्यम् - उञ्-इत्यत्र ञकारस्य इत्संज्ञा लोपः भवति, अतः दृश्यरूपेण "उ" इत्येव अवशिष्यते ।
One-line meaning in English
According to Shakalya, the निपात "उञ्", when followed by the word "इति" in a non vedic context, gets the term "प्रगृह्य".
काशिकावृत्तिः
शाकल्यस्यैतावनार्षे इति वर्तते । उञः प्रगृह्यसंज्ञा भवति इतौ शाकल्यस्य आचार्यस्य मतेन । शाकल्यस्य इति विभाषार्थम् । उ इति, विति ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
यद्ययमेको योगः स्याद् "अञ Äष्" इति यथापठितं सूत्रकारेण, ततः "उञः" इत्यस्य श्रुतेनादेशेन सम्बन्धः स्याद्, न प्रगृह्यसंज्ञया; सा तु "निपात एकाजनाङ्" इति नित्यैव स्यात्, शाकल्यश्रुत्यनुवृत्या चादेशे विकल्पिते रूपद्वयमेव स्याद्- उ इति, Äष् इतीति; न तु वितीति तृतीय । अतो विभज्य व्याचष्टे । तत्र यद्यपि पूर्वसूत्रेषु सामानाधिकरण्येन निर्देशात्प्रदेशेष्विव प्रगृह्यशब्दो द्विवचनाद्यभिधेयः, तथापीह षष्ठीनिर्देअषात्स्वरूपपदार्थकः सम्पद्यते । अत एवाह--उञः प्रगृह्यसंज्ञा भवतीति । प्रगृह्यमित्येषा संज्ञा भवतीत्यर्थः । पुर्वत्र तु द्विवचनं प्रगृह्यसंज्ञं भवतीत्युक्तम्, अनेन च प्रगृह्यसंज्ञाया एव विकल्पनाद्- उ इति, वितीति साधितं रूपद्वयम् ॥
सिद्धान्तकौमुदी
उञ इतौ वा प्रागुक्तम् । उ इति । विति ॥
उञ ऊँ - ऊँ । इदमप्येकपदं सूत्रम् । ऊँ इति दीर्घस्याऽनुनासिकस्य ऊकारस्य लुप्तप्रथमाविभक्तिकस्य निर्देशः । उञ इत्यनुवर्तते, इतौ शाकल्यस्य प्रगृह्रमिति च । तदाह — उञ इताविति । ऊँ ईतीति । उक्तविधे ऊँकारादेशे रूपम् । प्रगृह्रत्वात्प्रकृतिभावः । एतदादेशाऽबावपक्षे पूर्वसूत्रेण प्रगृह्रत्वे सतिउ इती॑ति रूपम् । प्रगृह्रत्वस्याप्यभावे सति यणादेशेविती॑ति रूपमिति त्रीणि रूपाणि फलितानि । तदेवमुञ ऊँ इत्येकमेव सूत्रं विभज्य व्याख्यातम् । एकसूत्रत्वे तु उञ इतौ परे "ऊँ" इत्ययं दीर्घोऽनुनासिकः प्रगृह्रश्चादेशः शाकल्यामते स्यात् । तदभावपक्षे तुनिपात एका॑जिति नित्यं प्रगृह्रत्वमित्येतावल्लभ्येत । ततश्च "ऊँ इति "उ इती॑ति रूपद्वयमेव स्यात्,विती॑ति रूपं न लभ्येत । अतो विभज्य व्याख्यातम् ।
उञ ऊँ - ऊँ । अनुनासिक इति । तेनास्मिन् परेयरोऽनुनासिके-॑ इति विकल्पःयदेतनूँ इति पठसि॑यदेतदूँ॑ इति वा । एतदर्थमेवात्रानुनासिकग्रहणम् । अन्यथायरोञम्यनुनासिको वे॑त्येवावक्ष्यत् ।यरो ञमि ञम्वे॑त्येवावक्ष्यदित्युक्तौ तु यथासङ्क्यप्रवृत्त्याअम्मयं॑तन्ने॑त्यादिसिद्धावपिचिन्मयं॑एतन्मुरारि॑रिति न सिध्येत् ।कृन्मेजन्तः॑ङमुण्नित्य॑मित्यादिनिर्देशाश्रयणे तु प्रतिपत्तिगौरवम् । वस्तुस्तुयरोऽनुनासिके ञम्वे॑त्येव सूत्रयितुं युक्तमित्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
18 उञ्ञ ऊँ इह कस्मान्नं भवति आहो। उताहो इति । उञ्ञ इत्युच्यते। न चात्रोञ्ञं पश्यामः । उञ्ञोऽयमन्येन सहैकादेश उञ्ञ्ग्रहणेन गृह्यते । आचार्यप्रवृत्तिर्ज्ञापयति नोञ्ञ एकादेश उञ्ञ्ग्रहणेन गृह्यते इति। यदयमोदिति ओदन्तस्य निपातस्य प्रगृह्यसञ्ञ्ज्ञां शास्ति । नैतदस्ति ज्ञापकम्। उक्तमेतत्- प्रतिषिद्धार्थोऽयमारम्भ इति। दोषः खल्वपि स्याद् यद्युञ्ञ एकादेश उञ्ञ् ग्रहणेन न गृह्येत। जानु उ अस्य रुजति-जानू अस्य रूजति, जान्वस्य रुजति। मय उञ्ञो वो वेति वत्वं न स्यात्। एवं तर्ह्येकनिपाता इमे। अथवा द्वावुकाराविमौ। एकोऽननुबन्धकः। अपरः सानुबन्धकः। तद्योऽननुबन्धकस्तस्यैष एकादेशः। ।। उञ्ञ इति योगविभागः।। उञ्ञ इति योगविभागः कर्तव्यः। उञ्ञः शाकल्यस्याचार्यस्य मतेन प्रगृह्यसञ्ज्ञा भवति। उ इति। विति। ततः ऊँ। ऊँ इत्ययमादेशो भवति शाकल्यस्याचार्यस्य मतेन दीर्घोऽनुनासिकः प्रगृह्यसञ्ञ्ज्ञकश्च। ऊँ इति। किमर्थो योगविभागः। ऊँ वा शाकल्यस्य। शाकल्यस्याचार्यस्य मतेन ऊँ विभाषां यथा स्यात्। ऊँ इति, उ इति। अन्येषामाचार्याणां मतेनविति।