Page loading... Please wait.
1|1|16 - सम्बुद्धौ शाकल्यस्येतावनार्षे
॥ तस्मै पाणिनये नमः ॥
1|1|16
SK 105
सम्बुद्धौ शाकल्यस्येतावनार्षे   🔊
सूत्रच्छेदः
सम्बुद्धौ (सप्तम्येकवचनम्) , शाकल्यस्य (षष्ठ्येकवचनम्) , इतौ (सप्तम्येकवचनम्) , अनार्षे (सप्तम्येकवचनम्)
अनुवृत्तिः
 प्रगृह्यम्  1|1|11 (प्रथमैकवचनम्) , ओत्  1|1|15 (प्रथमैकवचनम्)
अधिकारः
-
सम्पूर्णसूत्रम्
शाकल्यस्य (मतेन) सम्बुद्धौ ओत् अनार्षे इतौ प्रगृह्यम्
सूत्रार्थः
सम्बोधन-एकवचनरूपस्य ओकारः अवैदिके "इति" शब्दे परे शाकल्यस्य मतेन प्रगृह्यसंज्ञकः भवति ।
"सम्बोधनैकवचनस्य ओकारः" इत्युक्ते सम्बोधनैकवचनस्य ओकारान्तरूपाणाम् ओकारः । यथा - साधो, धेनो आदयः । "अवैदिकः इति-शब्दः" इत्युक्ते सः "इति" शब्द यः लौकिकसंस्कृतेषु प्रयुज्यते । यदि सम्बोधनैकवचनस्य ओकारात् परः एतादृशः इति-शब्दः आगच्छति, तर्हि शाकल्यमुनेः मतेन सः ओकारः प्रगृह्यसंज्ञां प्राप्नोति । (शाकल्यमुनेः मतेन इत्युक्ते विकल्पेन । "केवलं शाकल्यस्य मतेन, पाणिनेः मतेन न" इति अस्य अर्थः नास्ति ।)

अतः "विष्णो इति" इत्यत्र अनेन सूत्रेण ओकारस्य विकल्पेन प्रगृह्यसंज्ञां प्राप्तायाम् प्रकृतिभावः दृश्यते । यदि अत्र प्रकृतिभावं न कुर्मश्चेत् "विष्णविति / विष्ण इति" इति द्वेधा सन्धिं कर्तुं शक्यते ।

ज्ञातव्यम् - वेदानां सन्दर्भे तु ओकारस्य शाकल्यमतेन अपि प्रगृह्यत्वम् नास्ति । यथा - "ब्रह्मबन्धो इति" , "अध्वर्यो इति" एतयोः वाक्ययोः ओकारस्य प्रगृह्यसंज्ञा न भवति, अतः अग्रे सन्धिः अपि कर्तुं शक्यते - ब्रह्मबन्धविति, अध्वर्यविति ।
One-line meaning in English
According to Shakalya, the ओकार at end of the सम्बोधन-एकवचन form, when followed by the word "इति" in a non vedic context, gets the term प्रगृह्य.
काशिकावृत्तिः
ओतिति वर्तते । सम्बुद्धिनिमित्तो य ओकारः स शाकल्यस्य आचार्यस्य् मतेन प्रगृह्यसंज्ञो भवति, इतिशब्दे अनार्षे अवैदिके परतः । वायो इति, वायविति ; भानो इति, भानविति । सम्बुद्धौ इति किम् ? गवित्ययमाह । अत्र अनुकार्यानुकरणयोः भेदस्य अविवक्षितत्वात्, असत्यर्थवत्त्वे विभक्तिर्न भवति । शाकल्यग्रहणं विभाषार्थम् । इतौ इति किम् ? वायोऽत्र । अनार्षे इति किम् ? एता गा ब्रहमबन्ध इत्यब्रवीत् (काठकसंहिता 10.6) ॥
`सम्बुद्धिनिमित्तः` इति। सम्बुद्धिर्निमित्तं यस्य स तथोक्तः। एतेन `सम्बुद्धौ` इत्यस्य निमित्तसप्तमीत्वं दर्शयति। परसप्तम्यां त्वस्याम् `हे त्रपो`इत्यत्र न स्यात्, `स्वमोर्नपुंसकात्` 7|1|23 इति सम्बुद्धेर्लुप्तत्वादिति भावः। `सम्बुद्धौ च` 7|3|106 इति वत्र्तमाने `ह्यस्वस्य गुणः` 7|3|108 इत्यनेन यो गुणो विधीयते, स सम्बुद्धिनिमित्तः, तस्य सम्बुद्धिनिमित्तत्वमुपादाय विहितत्वात्। `गवित्ययमाह` इति। केनचिद् गौरिति वक्तव्ये शक्तिवैकल्याद् `गो` इत्युक्तम्, तमन्यो यदानुकरोति, तत्रैतत् प्रत्युदाहरणम्। ननु चानुकार्येणार्थेनार्थवत्त्वात् प्रतिपदिकत्वे सति विभक्त्यात्र भवितव्यमित्यत आह- `अत्र` इत्यादि। अत्रानुक्रियमाणस्यानुकरणस्य यदि भेदो विवक्ष्यते, ततोऽर्थवत्तायां सत्यां स्याद्विभक्तिः, स तु न विवक्ष्यत इति कुतस्तस्याः प्रसङ्गः? न हीह शब्दशास्त्रे वस्तुनः सत्तैव शब्-संस्कारस्य प्रधानं कारणम्, किं तर्हि, विवक्षा च। सा चेह नास्ति। `शाकल्यग्रहणं विभाषार्थम्` इति। एतेन पूजार्थताशङ्कां निरस्यति। यदि हि पूजार्थमेव तत् स्यात्, विकल्पो न भवेदिति भावः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति । विष्ण इति । विष्णविति । आनर्ष इति किम् । ब्रह्मबन्धवित्यब्रवीत् ॥
सम्बुद्धौ शाकल्यस्येतावनार्षे - संबुद्धौ शाकल्यस्येति । सम्बुद्धाविति निमित्तसप्तमी, ओदित्यनुवृत्तेन सहाऽन्वेति ।प्रगृह्र॑मित्यनुवर्तते, स च पुँल्लिङ्गतया विपरिणम्यते । ऋषिः=वेदः ।तदुक्तमृषिणे॑त्यादौ तथा दर्शनात् । ऋषौ भवः — आर्षः, न आर्षः-अनार्षः । अवैदिके इतिशब्दे परत इत्यर्थः । शाकल्यग्रहणाद्विकल्पस्तदाह — संबुद्धिनिमित्तक इति । विष्णो इतीति । अत्र ओकारो "ह्यस्वस्य गुण" इति सम्बुद्धिनिमित्तकः । अत्र ओदन्तत्वेऽपि निपातत्वाऽभावादप्राप्ते विभाषेयम् ।विष्ण॑वितीति प्रगृह्रत्वाऽभावे रूपम् ।
सम्बुद्धौ शाकल्यस्येतावनार्षे - संबुद्धौ । ऋषिर्वेदःतदुक्तमृषिणा॑ इत्यादौ तथा दर्शनादित्याभिप्रेत्याह-अवैदिक इति । संबुद्धौ किम् । अहो इति । अत्र परत्वाद्विकल्पो मा भूत् । न चओ॑दिति सूत्रस्य निरवकाशत्वं शङ्क्यम् ,अहो ईशा॑ इत्यादौ तस्य सावकाशत्वात् । इताविति किम् । पटोऽत्र ।
लघुसिद्धान्तकौमुदी
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.