"अदस्" शब्दस्य येषाम् रूपाणाम् अन्ते "मी" , "मू" उत "मे" इति विद्यते, तानि "प्रगृह्य" नाम्ना ज्ञायन्ते ।
अदस्-शब्दस्य मीकारान्त/मूकारान्त/मेकारान्तरूपाणि अनेन सूत्रेण प्रगृह्यसंज्ञां प्राप्नुवन्ति ।
एतानि रूपाणि एतादृशानि -
अ) अदस् (पुँ) - अमू (प्रथमा/द्वितीया-द्विवचनम्) , अमी (प्रथमाबहुवचनम्)
आ) अदस् (स्त्री) - अमू (प्रथमा/द्वितीया-द्विवचनम्)
इ) अदस् (नपुँ) - अमू (प्रथमा/द्वितीया-द्विवचनम्)
एतेषां सर्वेषाम् प्रगृह्यसंज्ञा भवति । इत्युक्ते, अदस्-शब्दस्य "अमी" तथा "अमू" एतयोः रूपयोः प्रगृह्यसंज्ञा भवति ।
यथा - "अमी आसते", "अमू आसाते" - इत्यत्र "अमी" तथा "अमू" एतयोः प्रगृह्यत्वात्
इको यणचि 6|1|77 इति यणादेशः न भवति ।
अत्र एकः विशेषः ज्ञातव्यः । अदस्-शब्दस्य "अमू" इति रूपम् द्विवचनस्य अस्ति । अतः
ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 अनेनैव सूत्रेण तस्य प्रगृह्यसंज्ञा भवितुम् अर्हति । परन्तु अदस्-शब्दस्य पुँल्लिङ्गस्य "अमू" रूपस्य विषये
ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 इत्यस्य प्रसक्तिः असिद्धत्वात् न भवति, अतः अदस्-शब्दस्य पुँल्लिङ्गस्य "अमू" रूपस्य विषये तु वर्तमानसूत्रेणैव प्रगृह्यसंज्ञा क्रियते । प्रक्रियां पश्यामश्चेत् स्पष्टं स्यात् -
अदस् (पुँ) + औ [प्रथमाद्विवचनस्य प्रत्ययः]
→ अद अ + औ [
त्यदादीनामः 7|2|102 इति सकारस्य अकारः]
→ अद + औ [
अतो गुणे 6|1|97 इति पररूप-एकादेशः अकारः]
→ अदौ [
वृद्धिरेचि 6|1|88 इति वृद्धि-एकादेशः]
→ अमू [
अदसोऽसेर्दादु दो मः 8|2|80 इत्यनेन दकारात् परस्य औकारस्य ऊकारः, तथा दकारस्य मकारः]
अत्र अग्रे अमू-शब्दस्य
ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 इत्यनेन प्रगृह्यसंज्ञा न भवति, यतः
अदसोऽसेर्दादु दो मः 8|2|80 एतत् सूत्रम्
ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 इत्यस्य कृते असिद्धम् अस्ति । अतः
ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 इत्यनेन केवलं "अदौ" इति रूपं दृश्यते, यस्य अन्ते ईकार-ऊकार-एकारः नास्ति । अतः
ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 अनेन सूत्रेण पुँल्लिङ्गस्य "अमू" इत्यस्य प्रगृह्यसंज्ञा भवितुं न अर्हति ।
तर्हि स्त्रीलिङ्ग-नपुँसकलिङ्गरुपयोः विषये किम् भवति? पुनः प्रक्रियाम् अनुसृत्य जानीमः -
अदस् (स्त्री) + औ
→ अद अ +औ [
त्यदादीनामः 7|2|102 इति सकारस्य अकारः]
→ अद + औ [
अतो गुणे 6|1|97 इति पररूप-एकादेशः अकारः]
→ अद + टाप् + औ [स्त्रीत्वस्य विवक्षायाम्
अजाद्यतष्टाप् 4|1|4 इति टाप्-प्रत्ययः]
→ अदा + औ [
अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः]
→ अदा + शी [
औङः आपः 7|1|18 इति औ-प्रत्ययस्य शी-आदेशः]
→ अदा + ई [
लशक्वतद्धिते 1|3|8 इति शकारस्य इत्संज्ञा ।
तस्य लोपः 1|3|9 इति लोपः]
→ अदे [
आद्गुणः 6|1|87 इति गुणादेशः]
→ अमू [
अदसोऽसेर्दादु दो मः 8|2|80 इत्यनेन दकारात् परस्य एकारस्य ऊकारः, तथा दकारस्य मकारः]
अत्रापि अमू-शब्दस्य
ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 इत्यनेन प्रगृह्यसंज्ञा न भवितुम् अर्हति, यतः
अदसोऽसेर्दादु दो मः 8|2|80 एतत् सूत्रम्
ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 इत्यस्य कृते असिद्धम् अस्ति । परन्तु, अस्मात् सोपानात् पूर्वमेव "अदे" इत्यत्र
ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 इत्यनेन प्रगृह्यसंज्ञा भवितुं अर्हति । एकवारं प्रगृह्यसंज्ञा भवति चेत् अग्रे तस्याः नाशः न जायते । अतः अमू-शब्दस्य अपि अग्रे प्रगृह्यसंज्ञा भवति ।
एवमेव नपुँसकलिङ्गस्य विषये अपि -
अदस् (नपुँ) + औ
→ अद अ +औ [
त्यदादीनामः 7|2|102 इति सकारस्य अकारः]
→ अद + औ [
अतो गुणे 6|1|97 इति पररूप-एकादेशः अकारः]
→ अद + शी [
नपुँसकाच्च 7|1|19 इति औ-प्रत्ययस्य शी-आदेशः]
→ अदा + ई [
लशक्वतद्धिते 1|3|8 इति शकारस्य इत्संज्ञा ।
तस्य लोपः 1|3|9 इति लोपः]
→ अदे [
आद्गुणः 6|1|87 इति गुणादेशः]
→ अमू [
अदसोऽसेर्दादु दो मः 8|2|80 इत्यनेन दकारात् परस्य एकारस्य ऊकारः, तथा दकारस्य मकारः]
अत्रापि अदे-शब्दस्य प्रगृह्यसंज्ञा भवति, अतः अमू-शब्दस्यापि प्रगृह्यसंज्ञा भवति ।
अतः वर्तमानसूत्रेण केवलम् पुँल्लिङ्गस्य "अमू" तथा "अमी" एतयोः एव प्रगृह्यसंज्ञा क्रियते ।
ज्ञातव्यम् - यत्र यत्र "अदस्" शब्दस्य ग्रहणं भवति, तत्र तत्र "अदकस्" इति शब्दः अपि गृह्यते । (अयम् "अदकस्" इति अदस्-शब्दात्
अव्ययसर्वनाम्नाम् अकच् प्राक्टेः 5|3|71 इत्यनेन "अकच्" इति प्रत्ययं कृत्वा सिद्ध्यति ) । परन्तु अदकस्-शब्दस्य रूपाणि मकारान्तानि न सन्ति, अतः तेषां विषये वर्तमानसूत्रेण प्रगृह्यसंज्ञा न विधीयते ।