Page loading... Please wait.
8|4|67 - नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्‌
॥ तस्मै पाणिनये नमः ॥
8|4|67
SK 3661
नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्‌   🔊
सूत्रच्छेदः
नः (अव्ययम्) , उदात्तस्वरितोदयम् (प्रथमैकवचनम्) , अगार्ग्यकाश्यपगालवानाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उदत्तोदयस्य स्वरितोदयस्य च अनुदात्तस्य स्वरितो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते, अगार्ग्यकाश्यपगालवानां मतेन। उदात्त उदयो यस्मात् स उदात्तोदयः। उदात्तपरः इत्यर्थः। एवं स्वरितोदयः। उदात्तो दयस्तावत् गार्ग्यस्तत्र। वात्स्यस्तत्र। तत्रशब्द आद्युदात्तः। तस्मिन्नुदात्ते परतो गार्ग्यशब्दः स्वरितो न भवति। स्वरितोदयः गार्ग्यः क्व। वात्स्यः क्व। क्वशब्दः स्वरितः, तस्मिन् परतः अनुदात्तः स्वरितो न भवति। अगार्ग्यकाश्यपगालवानाम् इति किम्? गार्ग्यस् तत्र। गार्ग्यः क्व। तेषां हि मतेन स्वरितो भवत्येव। उदात्तस्वरितपरस्य इति वक्तव्ये उदयग्रहणं मङ्गलार्थम्। अनेकाचार्यसङ्कीर्तनं पूजार्थम्।
`उदात्तस्वरितोदयम्` इति। उदात्तस्वरितादुवयौ यस्मादिति बहुव्रीहिः। उदयशब्दोऽत्र प्रत्येकमभिसम्बध्यत इति दर्शयितुमाह--`उदात्तोदयस्य` इत्यादि। उदयशब्दः परशब्दस्यार्थे वत्र्ततेऽत्र। `गाग्र्यस्तत्र` इति तत्रशब्द आद्युदात्तः। `सप्तम्यास्त्रल्` 5|3|10 इति त्रल्प्रत्ययान्ताल्लित्स्वरेण। `गार्ग्यः क्व` इति। कशब्दः स्वरितस्तित्स्वरेण, `किमोऽत्` 5|3|12 इति किंशब्दादत्प्रत्ययः। किमः क्वादेशः `क्वाति` 7|2|105 इति। उदात्तस्वरितमिति वक्तव्ये लाघवार्थत्वाद्विल्पष्टार्थत्वाच्च `उदयग्रहणं मह्गलार्थम्` इति। इष्टार्थसिद्धेर्हेतुर्गङ्गलम्, इष्टं पुनरर्थागस्त्रस्य प्रथनं वीरपुरुषादिता च। तथा चोक्तम्--`यतो मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणियन्ते, वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च` (म।भा।1.1.1) इति। यथा मङ्गलादीन्येर्ववधानि भवा तथा मङ्गलावसानान्यपि। मङ्गलार्थं इहोदयशब्दे क्रियमाण उत्तरारन्भो मङ्गलपूर्वकौ भवति। तेन यद्वक्ष्त--`वीर्घप्लुतयोश्चानेन विवृताकारेण ग्रहणं नेष्यते, संवृतेन [`संवृतेन च णस्य मात्रिकस्य ग्रहणमिष्यते`--काशिका] तु मात्रिकस्य सर्वगुण युक्तस्याकारसय ग्रहणमि` (का।8.4.69) इति, तदुपपन्नं भवति। मङ्गलपूर्वकेषु हि कारयेष्वारभ्यमाप्पेध्वपीष्टार्थसिद्धिर्भवति। उशब्दश्चायं लोके वृदिशब्दवन्मङ्गलार्थत्वेन प्रसिद्धः। तस्मात्? तस्य ग्रहणं मङ्गलार्थं क्रियते॥---
उदातस्वरितावुदयौ यस्मादिति बहुव्रीहिः । उदयशब्दः प्रत्येकमभिसम्बध्यते, यदाह---उदातोदयस्येति । उदयशब्दः परशब्देन समानार्थः प्रातिशाख्येषु प्रसिद्धः । तत्रशब्दो लित्स्वरेणाद्यौदातः, क्वशब्दः ठ्किमोऽत्ऽ इत्यत्प्रत्ययान्तस्तित्स्वरितः । उदातस्वरितपरस्येति वक्तव्य इति । एतदप्युपलक्षणम्, उदातस्वरितयोरित्येव वक्तव्यमिति, इत एव परशब्दार्थलाभात् । मङ्गलार्थमिति । उदयशब्दोच्चारणमेव मङ्गलम् । णङ्गलादीनि हि शास्त्राणि प्रथन्ते, मङ्गलमध्यानि मङ्गलान्तामि च वीरपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि च । इह चादौ वृद्धिशब्दः, मध्ये शिवशब्दः---ठ्शिवशमरिष्टस्य करेऽ इति, अन्ते चायमुदयशब्दः ॥
सिद्धान्तकौमुदी
उदात्तपरः स्वरितपरश्चानुदात्तः स्वरितो न स्यात् । गार्ग्यादिमते तु स्यादेव । प्रय आरुः (प्र य आ॒रुः) । वोश्वाः क्वा 1 भीशवः (वोश्वाः क्वा॑ 1॒ भीश॑वः) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.