Page loading... Please wait.
8|4|65 - झरो झरि सवर्णे
॥ तस्मै पाणिनये नमः ॥
8|4|65
SK 71
झरो झरि सवर्णे   🔊
सूत्रच्छेदः
झरः (षष्ठ्येकवचनम्) , झरि (सप्तम्येकवचनम्) , सवर्णे (सप्तम्येकवचनम्)
अनुवृत्तिः
अन्यतरस्याम्  8|4|62 (अव्ययम्) , लोपः  8|4|64 (प्रथमैकवचनम्) , हलः  8|4|64 (पञ्चम्येकवचनम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
हलः झरः सवर्णे झरि अन्यतरस्याम् लोपः
सूत्रार्थः
हलः परस्य झर्-वर्णस्य सवर्णे झर्-वर्णे परे विकल्पेन लोपः भवति ।
"झर्" अयं प्रत्याहारः । सर्वे वर्गचतुर्थाः, वर्गतृतीयाः, वर्गद्वितीयाः, वर्गप्रथमाः, तथा श् , ष् , स् एते वर्णाः अस्मिन् प्रत्याहारे समाविष्टाः सन्ति । "यदि अस्य प्रत्याहारस्य कश्चन वर्णः व्यञ्जनात् परः आगच्छति, तर्हि सवर्णे परे तस्य विकल्पेन लोपः भवति" इति अस्य सूत्रस्य अर्थः । यथा - "कृष्ण + ऋद्धि" इत्यत्र आद् गुणः 6|1|87 इत्यनेन गुण-एकादेशे कृते, "कृष्णर्द्धि" इति स्थिते अचो रहाभ्यां द्वे 8|4|46 इत्यनेन रेफात् परस्य दकारस्य विकल्पेन द्वित्वं भवति । अतः "कृष्णर् द् द् धि" इति रूपं सिद्ध्यति । अत्र प्रथमः दकारः व्यञ्जनात् परः अस्ति, तस्मात् परः च सवर्णः दकारः अस्ति । अतः वर्तमानसूत्रेण दकारस्य विकल्पेन लोपः जायते, अतः "कृष्णर्द्धि" इति रूपं पुनः सिद्ध्यति ।

अन्यदेकमुदाहरणम् अत्र पश्यामः । अष्टाध्याय्याः प्रथमाध्यायस्य पञ्चमं सूत्रम् अस्ति - क्ङिति च 1|1|5 । अत्र वस्तुतः "ग् + क् + ङिति च" इति पदच्छेदः अस्ति । अस्याम् स्थितौ आदौ ककारस्य उपस्थितौ गकारस्य खरि च 8|4|55 इति चर्त्वं जायते, अतः "क्क्ङिति च" इति दृश्यरूपम् सिद्ध्यति । ततः "क्क्ङिति च" इत्यत्र यः द्वितीयः ककारः तस्य झरो झरि सवर्णे 8|4|65 इति विकल्पेन लोपः भवितुम् अर्हति । एवं कृते "क्ङिति च" इति रूपं सिद्ध्यति । अतएव सूत्रपाठे एतत् सूत्रम् "क्ङिति च" एतादृशम् लिखितं दृश्यते ।
One-line meaning in English
A झर् letter coming after an हल् letter is optionally deleted if it is followed by a सवर्ण झर् letter.
काशिकावृत्तिः
हलः इति वर्तते, अन्यतरस्याम् इति च। हल उत्तरस्य झरो झरि सवर्णे परतो लोपो भवति अन्यतरस्याम्। प्रत्त्तम्, अवत्त्तम् इत्यत्र त्रयस्तकाराः, क्रमजश्चतुर्थः। तत्र मध्यमस्य मध्यमयोर् वा लोपो भवति। मरुत्त्त्तः इत्यत्र चत्वारस्तकाराः क्रमजः पञ्चमः। तत्र मध्यमस्य मध्यमयोः मध्यमानां वा लोपो भवति। मरुच्छब्दस्य हि उपसङ्ख्यानसामर्थ्यातच उपसर्गात्तः 7|4|47 इति तत्वं भवति। झरः इति किम्? शार्ङ्गम्। झरि इति किम्? प्रियपञ्च्ञा। अल्लोपस्य च पूर्वत्र असिद्धे न स्थानिवतिति स्थानिवद्भावप्रतिषेधात् चकारस्य ञकारे लोपः स्यात्। सवर्णे इति किम्? तर्प्ता तप्तुम्। तर्प्तव्यम्। सवर्णग्रहणसामर्थ्यातिह सङ्ख्यातानुदेशो न भवति, सवर्णमात्रे लोपो विज्ञायते। तेन शिण्ढि, पिण्ढि इति ढकारे डकारस्य लोपो भवति।
`प्रत्तमवत्तम्` इत्यादि। ददातेः क्तः, `अच उपसर्गात्तः` 7|4|47 इत्यकारस्य तकारः, दकारस्यापि `खरि च` 8|4|54 इति चत्र्वम्। एवं तावत्? त्रयस्तकाराः--द्वावादेशौ, एकः प्रत्ययावयवः। `अनचि च` (श्र।4।47) इति यो निर्वृत्तः स क्रमजश्चतुर्थः। `मध्यमस्य मध्यमयोर्वा` इति। पूर्ववदन्यतरस्यांग्रहणानुवृत्तेरेव वेदितव्यम्। `मरुत्त्त इति चत्वारस्तकाराः` इति। तरयः पूर्ववत्, चतुर्थो मरुच्छब्दावयवः, क्रमजः पञ्चम इति `अनचि च` 8|4|46 इति यो विहितः। ननु चाजन्तादुपसर्गात्? तत्वमुच्यते, न च मरुच्छब्दोऽजन्तः, किं तर्हि? हलन्तः, तत्? कथं तत्वं भवति? इत्याह--`मरुच्छब्दस्य` इत्यादि। `उपसर्गाः क्रियायोगे` 1|4|58 इत्यत्र मरुच्छब्दस्योपसंख्यानमुपसर्गकार्यार्थम्। यदि सत्यामपि तस्यां तत्वं न स्यात्, तदा तस्य वैयध्र्यं स्यात्। तस्मादुपसंख्यानसामथ्र्यादनजन्तादपि तत्वं भवत्येव। तर्हि यथा ह्रुपसर्गोपसंख्यानसामथ्र्यात्? तत्वं भवति, तथा भरुन्नयतीत्यत्रापि `उपसर्गादसमासेऽपि णोपदेशस्य` 8|4|14 इति तकारेणा नडादिव्यवाये णत्वं स्यात्। यदीष्यते तदा भवतु। यदि नेष्यते तदा क्षुभ्नादिषु 8|4|38 द्रष्टव्यः। `शाङ्र्गम्` इति। ङकारो हल उत्तरो भवति झरि च सवर्णे परतः, न त्वयं झरिति न भवति लोपः। `प्रियपञ्च्ञा` इति प्रियाः पञ्चास्येति बहुव्रीहिः, ततस्तृतीयैकवचनम्। `अल्लोपोऽनः` 6|4|134 इत्यकारलोपः, `स्तोः श्चुना श्चुः` 8|4|39 इति श्चुत्वं तवर्गस्य। वर्गो वर्गेण सवर्ण इति ञकारश्चवर्गस्य सवर्णः। न त्वयं ञकारो झर्। तेन तस्मिन्? परभूते पूर्वस्माद्धलः परस्यापि चकारस्य लोपो न भवति। ननु चाक्रियमाणेऽपि झरीत्येतस्मिन्? नैवात्र लोपः प्राप्नोति, निर्दिष्टग्रहणस्यादन्तर्यार्थत्वात्; अनन्तरे परभूते सवर्णे लोपेन भवितव्यम्, न चात्रानन्तरो ञकारः, पूर्वस्य लोपे कृते `अचः परस्मिन्? पूर्वविधौ` 1|1|56 इत्यकारलोपस्य स्थानिवद्भावात्, तत्? किं झरीतयनेन? इत्यत आह--`लोपस्य` इत्यादि। पूर्वत्रासिद्धीये ह्रल्लोपस्य स्थानिवद्भावः प्रतिषिध्यते। अत्र `झरि` इत्येतन्नोच्येत यदि, तदात्र लोप स्यादेव। `तर्प्ता` इति। `तृप प्रीणने` (धातुपाठः-1271), पकारस्य तकारः स्थानबेदात्? सवर्णो न भवति, तेनाच लोपे न भवति। ननु च निमित्तानां कार्यिणां च साम्यादिह संख्यातानुदेशेन भवतिव्यम्, तत्रासत्यपि सवर्णग्रहणे तर्प्तेत्यादौ नैव लोपः प्राप्नोति, तत्? किं तन्निवृत्त्यर्थेन सवर्णग्रहणेन? इत्यत आह--`सवर्णग्रहणसामथ्र्यात्` इत्यादि। यद्यत्र यतासंक्यं स्यात् ततो झकारस्य झकार एव लोपः प्रसज्येत, यावता झकारस्य झकार एव सवर्णः, एवं च सति सवर्णग्रहणमनर्थकं स्यात्; व्यवच्छेद्याभावात्। न हि झकारस्यासवर्णो झकारः सम्भवति। तस्मादत्र सवर्णग्रहणसामथ्र्यान्न संख्यातानुदेशो भवति। तेन शिण्डि, पिण्ढौत्यत्र सवर्णमात्रे ढकारे डकारलोपे भवतीति। `शिष्लृ विशरणे` [`विशेषणे`--धा।पा`] (धातुपाठः-1451), `पिष्लृ सञ्चूर्णने` (धातुपाठः-1452), लोङ्, सिप्, `सेह्र्रपिच्च` 3|4|87 इति हिरादेशः, श्नम्, `श्नसोरल्लोपः` 6|4|111 इत्यकारलोपः, `हुझल्भ्यो हेर्धिः` 6|4|101 इति धिभावः, `ङलां जश्? झशि` 8|4|52 इति जश्त्वम्--षकारस्य डकारः, `नश्चापदान्तस्य झलि` 8|3|24 इत्यनुस्यारः; `ष्टुना ष्डुः` 8|4|40 इति धकारस्य ढकारः, `अनुस्वारस्य ययि परसव्रणः` 8|4|57 इति णकारः, अनेन डकारस्य ढकारे लोपः॥
त्रयस्तकारा इति । ठच उपसर्गातःऽ इत्याकारस्य तकारः, तकारस्यापि चर्त्वं तकारः; एकः प्रत्ययसम्बन्धी, ठनचि चऽ इति द्विर्वचने क्रमजश्चतुर्थः । चत्वारस्तकारा इति । पूर्वोक्तास्त्रयः, चतुर्थो रुच्छब्दसम्बन्धी, पञ्चमो द्विर्वचनेन सम्पादितः । मरुच्छब्दस्योपसंख्यानसामर्थ्यादिति । एतच्च ठ्मरुच्छब्दस्योपसंख्यानम्ऽ इत्यत्रैव प्रतिपादितम् । शार्ङ्गिन्निति । भवत्ययं ङ्कारो हलः परः झरि सवर्णे परतः, न त्वयं झरिति न लुप्यते । प्रिययञ्च्ञेति । प्रियाः पञ्चास्येति बहुव्रीहिः, ठ्वा प्रियस्यऽ इति प्रियशब्दपूर्वनिपातस्तृतीयैकवचनम्, अल्लोपः, नकारस्य श्चुत्वम्---ञकारः । भवत्ययं चकारो हलः परः स्वयं च झर् सवर्णे च परतः, न तु ञकारो झरिति न लुप्यते । ननु चाल्लोपस्य स्थानिवत्वादनन्तरो न भवति सवर्णः, तत्किमेतन्निवृत्यर्थेन ठ्झरिऽ इत्यनेन ? इत्यत आह---अल्लोपस्येति । तर्प्तेति । ठ्तृप प्रीणनेऽ, पकारस्य तकारः स्थानेभेदात्सवर्णो न भवति । ननु च निमितानां कायिणां च संख्यासामान्यादिह संख्यातानुदेशे सति नैव तप्तेत्यत्र लोपः प्राप्नोति, तत्किमेतन्निवृत्यर्थेन सवर्णग्रहणेन ? अत आह---सवर्णग्रहणसामर्थ्यादिति । न हि यथासंख्येऽसवर्णे झरस्ति, यद्व्यावृत्यर्थं सवर्णग्रहणं स्यात् । शिण्ढि, पिण्ढैइति । ठ्शिष्लृ विशेषणेऽ, ठ्पिष्लृ सञ्चूर्णनेऽ---रुधादी, लोट्, सेर्हिः, ठ्श्नसोरल्लोपःऽ, हेर्धिः, ठ्झलां जश् झशिऽ इति षकारस्य डकारः, ठ्नश्चापदान्तस्य झलिऽ इत्यनुस्वारः, तस्य परसवर्णो णकारः, धकारस्य ष्टुअत्वम्---ढकारः, अनेन डकारस्य ढकारे लोपः ॥
सिद्धान्तकौमुदी
हलः परस्य झरो लोपो वा स्यात्सवर्णे झरि । द्वित्वाभावे लोपे सत्येकधम् । असति लोपे द्वित्वलोपयोर्वा द्विधम् । सति द्वित्वे लोपे चासति त्रिधम् । कृष्णर्धिः । कृष्णर्द्धिः । कृष्णर्द्द्धिः । यण इति पञ्चमी मय इति षष्ठीति पक्षे ककारस्य द्वित्वम् । लस्य तु अनचि च (कौमुदी-48) इति । तेन तवल्कार इत्यत्र रूपचतुष्टयम् ॥ द्वित्वं लस्यैव कस्यैव नोभयोरूभयोरपि । तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम् ॥
झरो झरि सवर्णे - झरो झरि सवर्णे ।झयोहोऽन्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवर्तते ।हलो यमा॑मित्यतो "हल" इति, "लोप" इति चानुवर्तते । तदाह — हलः परस्येत्यादिना । तदिह रूपत्रयं संपन्नमित्याह-द्वित्वाभाव इत्यादिना । रेफात्परस्य ऋधिति धात्वन्तस्य धकारस्यअचो रहाभ्या॑मिति द्वित्वाऽभावे सतिझरो झरी॑ति लोपे च सति एकधकारं रूपमित्यर्थः । असतीति । "द्वित्वाऽभावे" इत्यनुकृष्यते । तस्यैव ऋधेर्धकारस्य द्वित्वाऽभावे लोपे चा.ञसति द्विधकारं रूपम् । तथा तस्यैव ऋधेर्धकारस्य द्वित्वे लोपे च सति द्विधकारमेव रूपमित्यर्थः । सतीति । तस्यैव ऋधेर्धकारस्य द्वित्वे सति लोपे च असति त्रिधकारं रूपमित्यर्थः । यद्यपि द्विधपक्षे प्रथमधकारस्य त्रिधपक्षे मध्यमधकारस्य चझलाञ्जश् झशी॑ति जश्त्वेन दकारो भवति । तथापि प्रक्रियाभिप्रायेण भूतपूर्वगत्या वा द्विधत्वं त्रिधत्वं चेति न दोषः । अथ तवल्कार इत्यत्राह यण इति । यणः परस्य मयो द्वित्वमिति व्याख्याने ककारस्य द्वित्वं, लकारस्य त्वनचि चेति द्वित्वमित्यर्थः । तेनेति लकारककारयोर्द्वित्वविकल्पेनेत्यर्थः । द्वित्वं लस्यैवेति । लकारस्य द्वित्वे ककारस्य द्वित्वाऽभावे च सति द्विलकारमेकककारं च प्रथमं रूपमित्यर्थः । नोभयोरिति । लकारककारयोरुभयोरपि द्वित्वाऽभावे एकलकारमेकककारं तृतीयं रूपमित्यर्थः । उभयोरपीति । लककारयोरुभयोरपि द्वित्वे द्विलकारं द्विककारं चतुर्थं रूपमित्यर्थः । तवल्कारादिष्विति । आदिना ममल्कारादिङ्ग्रहः ।
झरो झरि सवर्णे - झरो झरि ।हलो यमा॑मित्यतोहल॑ इत्यनुवर्तते, तदाह-हलः परस्येति । हलः किम् । प्रत्तम् । झर इति किम् । शाङ्र्गम् । झरीति किम् । तर्प्ता । सवर्णग्रहणसामथ्र्याद्यथासङ्ख्यमत्र न भवति । तेनशिण्डी॑ त्यत्र डस्य विकल्पेन लोपः सिध्यतीति दिक् । लोपोवेति ।झयो हः॑ इति सूत्रादन्यतरस्यामित्यनुवृत्तेः । असति लोप इति ।द्वित्वाऽभावे॑इत्यनुषज्यते । द्वित्वलोपयोरसतोरित्यर्थः । त्रिधमिचि ।यणो मयः॑ इति लक्षणान्तरेण पुनर्द्वित्वेचतुर्ध॑मिति बोध्यम् ।द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि ।तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम्॥
लघुसिद्धान्तकौमुदी
हलः परस्य झरो वा लोपः सवर्णे झरि॥
महाभाष्यम्
झरो झरि सवर्णे सवर्णग्रहणं किमर्थम्।। झरो झरि सवर्णग्रहणं समसङ्ख्यप्रतिषेधार्थम्।। झरो झरि सवर्णग्रहणं क्रियते।। (किं प्रयोजनम्?)।। समसङ्ख्यप्रतिषेधार्थम्।। सङ्ख्यातानुदेशो मा भूदिति।। किं च स्यात्?।। इह न स्यात्-शिण्ढि पिण्ढि।।(झरो झरि)