Page loading... Please wait.
8|4|64 - हलो यमां यमि लोपः
॥ तस्मै पाणिनये नमः ॥
8|4|64
SK 60
हलो यमां यमि लोपः   🔊
सूत्रच्छेदः
हलः (पञ्चम्येकवचनम्) , यमाम् (षष्ठीबहुवचनम्) , यमि (सप्तम्येकवचनम्) , लोपः (प्रथमैकवचनम्)
अनुवृत्तिः
अन्यतरस्याम्  8|4|62 (अव्ययम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
हलः यमाम् यमि अन्यतरस्याम् लोपः
सूत्रार्थः
हल्-वर्णात् परस्य यम्-वर्णस्य यम्-वर्णे परे विकल्पेन लोपः भवति ।
अस्मिन् सूत्रे प्रयुक्तौ प्रत्याहारौ एतौ -
हल् = सर्वाणि व्यञ्जनानि ।
यम् = अन्तस्थाः + वर्गपञ्चमाः ।

यदि कश्चन यम्-वर्णः हल्-वर्णात् अनन्तरम् परन्तु यम्-वर्णात् पूर्वम् आगच्छति, तर्हि वर्तमानसूत्रेण तस्य वैकल्पिकः लोपः भवति ।

अस्य सूत्रस्य विषये कौमुद्याम् दीक्षितः "यथासंख्यविज्ञानात्" इति शब्दं प्रयुङ्क्ते । इत्युक्ते, यम्-वर्णस्य तादृशे यम्-वर्णे परे एव अयम् लोपः भवति, न अन्यथा ।

अस्य सूत्रस्य बहुषु उदाहरणेषु द्वित्वविधायकेन सूत्रेण कृतस्य द्वित्वस्यैव अनेन सूत्रेण लोपः भवति, अतः अनेन सूत्रेण प्रायः कोऽपि नूतनः शब्दः न जायते । यथा -

1. शय्या
→ शय्य्या [अनचि च 8|4|47 इति यकारस्य वैकल्पिकं द्वित्वम्]
→ शय्या [द्वितीयस्य यकारस्य हलो यमां यमि लोपः 8|4|64 इति विकल्पेन लोपः]

2. दुर्लभ
→ दुर्ल्लभ [अचो रहाभ्यां द्वे 8|4|46 इति लकारस्य वैकल्पिकम् द्वित्वम् ]
→ दुर्लभ [प्रथम-लकारस्य हलो यमां यमि लोपः 8|4|64 इति विकल्पेन लोपः]

3. कुर्मः
→ कुर्म्मः [अचो रहाभ्यां द्वे 8|4|46 इति मकारस्य वैकल्पिकम् द्वित्वम् ]
→ कुर्मः [प्रथम-मकारस्य हलो यमां यमि लोपः 8|4|64 इति विकल्पेन लोपः ]

4. जीर्णः
→ जीर्ण्णः [अचो रहाभ्यां द्वे 8|4|46 इति णकारस्य वैकल्पिकम् द्वित्वम् ]
→ जीर्णः [प्रथम-णकारस्य हलो यमां यमि लोपः 8|4|64 इति विकल्पेन लोपः ]

परन्तु अस्य सूत्रस्य प्रयोगः सर्वदा द्वित्वात् अनन्तरम् भवति इति न । यथा, "आदित्यः देवता यस्य" अस्मिन् अर्थे दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः 4|1|85 अनेन सूत्रेण "आदित्य" शब्दस्य "ण्य" प्रत्ययः भवति -
आदित्य + ण्य
→ आदित्य + य [णकारस्य चुटू 1|4|7 इति इत्संज्ञा, लोपः]
→ आदित्य् य [यस्येति च 6|4|148 इति अकारलोपः]
→ आदित् य [हलो यमां यमि लोपः 8|4|64 इति विकल्पेन यकारलोपः]
→ आदित्य

अस्मिन् उदाहरणे निर्दिष्टः यकारलोपः द्वित्वविषये नास्ति इति दृश्यताम् । अत्र अनेन सूत्रेण नूतनशब्दस्य निर्माणम् कृतम् अस्ति ।

ज्ञातव्यम् -
1. यदि यम्-वर्णात् परः भिन्नः यम्-वर्णः अस्ति, तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा - "माहात्म्य" अस्मिन् शब्दे मकारात् परः यकारः अस्ति । अत्र यद्यपि मकारात् पूर्वम् हल्-वर्णः अस्ति, मकारात् अनन्तरम् च यम्-वर्णः अस्ति तथापि द्वौ अपि यम्-वर्णौ समानौ न स्तः, अतः अनेन सूत्रेण अत्र मकारलोपः न भवति ।

2. अत्र यथासङ्ख्यमनुदेश समानाम् 1|3|10 अस्य सूत्रस्य प्रयोगः न करणीयः, यतः अत्र "विधिः" तु लोपविधिः एव अस्ति, यथासङ्ख्यं भिन्नाः विधयः न दत्ताः सन्ति । (प्रत्येकस्य वर्णस्य लोपस्य फलम् भिन्नम् नास्ति, तथा च रेफात् परस्य रेफस्य उदाहरणानि अपि न सन्यि अतः अत्र अस्य सूत्रस्य प्रयोगः न करणीयः इति तत्वबोधिन्याम् उक्तम् अस्ति )।
One-line meaning in English
A यम्-letter sandwiched between a हल्-letter (on left) and the same यम्-letter (on right) is optionally removed.
काशिकावृत्तिः
अन्यतरस्याम् इति वर्तते। हल उत्तरेषां यमां यमि परतो लोपो भवति अन्यतरस्याम्। शय्य्या इत्यत्र द्वौ यकारौ, क्रमजस्तृतीयः, तत्र मध्यमस्य वा लोपो भवति। शय्या, शय्य्या। अदितेरपत्यमादित्य्यः इत्यत्र तकारात् परः एकः यकारः,यणो मयः इति क्रमजो द्वितीयः, तत्र मध्यमस्य वा लोपो भवति। आदित्यः, आदित्य्यः। आदित्यो देवता अस्य स्थालीपाकस्य इति आदित्य्यः इत्यत्र अपि द्वौ यकारौ क्रमजस्तृतीयः। तत्र मध्यमस्य मध्यमयोर् वा लोपो भवति। हलः इति किम्? आन्नम्। यमाम् इति किम्? अग्निः। अर्ध्यम्। यमि इति किम्? शार्ङ्गम्।
`शय्य्येत्यत्र द्वौ यकारो` इति। एकः `संज्ञायां समज` 3|3|99 इत्यादिना विहितस्य क्यपोऽवयवः, अपरस्त्वपङः। `क्रमजस्तृतीयः` इति। क्रमः=आनुपूर्वी, ततो जातः क्रमजः। स पुनः `अनचि च` 8|4|46 इत्यनेन यो विहितः, स हि पूर्वयकाराभ्यां पश्चाज्जात इति क्रमजो भवति। `तकारत् परो यकार एकः` [एको यकारः--काशिका] इति। `दित्यदित्यादित्य` 4|1|85 इत्यादिना विहितस्य ण्यस्यावयवः। `द्वौ यकारौ` इति। एकोऽदितिशब्दात्? `तस्यापत्यम्` 4|1|92 इत्यर्थे `दित्यदित्या`दिसूत्रेण 4|1|85 विहितस्यावयवः। द्वपितीयस्त्वादित्यशब्दादेव `साऽस्य देवता` 4|2|23 इत्यर्थे तेनैव सूत्रेण विहितस्य ण्यस्यावयवः। `क्रमजस्तृतीयः` इति। `यणो मयः` (वा।956) इत्यनेन यो विहितः। `मध्यमस्य मध्यमयोर्वा` इति। अन्यतरस्याम्? 8|4|61 इत्यधिकारात्। यद्येकस्य भवति ततो मध्यमस्य, अथ द्वयोरिति ततो मद्यमयोः। `आश्नम्` इति। `अन्नाष्णः` 4|4|85 इति निपातनात्? `अदो जग्धिर्ल्यप्ति किति` 2|3|36 इति न भवति जग्ध्यादेशः, `रदाभ्याम्` 8|2|42 इत्यादिना निष्ठानत्वम्। भवत्ययं नकारो यम्, यमि परतश्च; न च हल उत्तरः, किं तर्हि? अचः। `अध्र्यम्` इति। `पादार्धाभ्याञ्च` 5|4|25 इति तादर्थे यत्। अत्र घकारो रेफादुत्तरो भवति, यकारे यमि परतः। न त्वयं यम्? धकारः; तस्य यम्त्वसन्निवेशात्। `शाङ्गंम्` इति। शृङ्गस्य विकार इत्यण्, आदिवृद्धिः, रपरत्वम्। अत्र ङकारो यम्? हल उत्तरो भवति, न तु तस्मात् परो यम्? गकारः; तस्य यम्प्रत्याहारेऽसन्निवेशात्। नत्वादिवृद्धिस्तद्धिताश्रया बहिरह्गा भवति; न तु तस्मात्? परो यम्? गकारः; तस्य यम्प्रत्याहारेऽसन्निवेशात्। नत्वादिवृद्धिस्तद्धिताश्रया बहिरङ्गा भवित; लोपस्त्वन्तरङ्गः, ततश्चान्तरङ्गे लोपे कत्र्तव्ये वृद्धेरसिद्धत्वम्, तस्या असिद्धत्वात्? तदाश्रितस्य रेफस्याप्यसिद्धत्वमेव। एवं च सति ङकारो हल एव परो न भवतीति यत्? केचिच्चोदयन्ति तन्मतमिदं नोपन्यसनीयमेव; मूलोदाहरणेऽपि तथा सम्भवात्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
हलः परस्य यमो लोपः स्याद्वा यमि । इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् । लोपारम्भफलं तु, आदित्यो देवताऽस्येत्यादित्यं हविरित्यादौ । यमां यमीति यथासङ्ख्यविज्ञानान्नेह । माहात्म्यम् ॥
हलो यमां यमि लोपः - उभयत्रापि प्रथमयकारस्य लोपविधिमाह — हलो यमां यमि लोपः ।झयो होऽन्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवर्तते । तच्च विभक्तिप्रतिरूपकमव्ययं वार्थे वर्तते । यमामिति बहुत्वं प्रयोगबहुत्वापेक्षम् । एकैकस्मिन् प्रयोगे बहूनां यमामसम्भवात् । "हल" इति दिग्योगे पञ्चमी ।परस्ये॑ति शेषः । तदाह-हलः परस्य यम इत्यादिना । अनेन सूत्रेण उदाहरणद्वयेऽपि प्रथमयकारस्य लोपे सति एकयकाररूपे संपद्यते । लोपाऽभावपक्षे तु द्वियकाररूपं संपद्यते । ननुहलो यमा॑मिति सूत्रमेतदर्थं नारम्भणीयम्, अचो रहाभ्यामिति यकारद्वित्वस्य वैकल्पिकतया द्वित्वे सति द्वियकाररूपस्य, द्वित्वाऽभावे एकयकाररूपस्य च सिद्धेरित्याशङ्क्य नास्य सूत्रस्यात्र प्रयोजनमित्याह — इति लोपेति । तर्हि किमस्य सूत्रस्य फलमित्यत आह — लोपारम्भेति ।दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः॑ इत्यादित्यशब्दाच्छेषार्थण्यान्ताद्देवतार्थेण्यः । आदित्य — य इति स्थितेयस्येति चे॑ति यकारादकारस्य लोपे तकाराद्यकारस्याऽनेन सूत्रेण लोपः । तस्मिन् सत्येव आदित्यमित्येकयकारं रूपं सिध्यति, नान्यथा । अतः सूत्रारम्भो न विफल इति भावः । अत्रआपत्यस्य च तद्धितेऽनाती॑ति लोपस्तु न, जाताद्यर्थकत्वेन आपत्यत्वाऽभावात् । अत्र त्वतत्सूत्रं न्याय्यत्वादुपन्यस्तमिति भावः । नन्वेवमपि महात्मनो भाव इत्यर्थेगुणवचनब्राआहृणादिभ्यः॑ इति ष्यञि टिलोपे आदिवृद्धौ माहात्म्यमित्यत्रापि तकारान्मकारस्य लोपः स्यात्, तस्य यम्त्वात्, यकाररूपयम्परकत्वाच्चेत्यत आह — यमामिति । यथासंख्यविज्ञानादिति । विज्ञायते अनेनेति विज्ञानं=सूत्रम् ।विज्ञानं शिल्पशास्त्रयोः॑ इत्यमरः । यथासंख्यसूत्रादित्यर्थः । तथाच मकारस्य मकारे परत एव लोपलाभाद्यकारे परे न लोप इत्यर्थः ।
हलो यमां यमि लोपः - हलो यमां यमि । हलः किम् न्याय्यम् । इह यकारादीनां यकारादौ परे यथासम्भवमुदाहरणान्युच्यन्ते । सुध्युपास्यः । मध्वरिः । अत्रयणो मय॑ इति मयः परस्य यस्य वस्य च द्वित्वे कृते अनेन लोपः । दुर्लभः । दुर्ञुङुवे । कुर्मः । अत्र तुअचो रहाभ्या॑मिति लस्य ञस्य मस्य च द्वित्वे कृते लोपः । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः । अत्रअनचि चे॑ति ङमो द्वित्वे सत्यनेन ङकारणकारनकाराणां लोपः । लोपः स्याद्वेति ।झयो ह्मः॑ इति सूत्रादन्यतरस्यामित्यनुवर्तत इति भावः ।लोपारम्भफलं तु आदित्यो देवतेति । आदित्यशब्दात्दित्यदित्ये॑ति ण्यप्रत्ययेयस्येति चे॑त्यकारलोपेऽनेन च यलोपे आदित्यमित्येकयकारकं रूपं सिध्यति नान्यथेति भावः । नचआपत्यस्य च तद्धितेऽनाती॑त्यनेन यलोपे कृते एकयकारकं रूपं सिध्यतीति वाच्यम् ; अदितौ जात आदित्य इत्यादिविवक्षायां तस्याऽप्रवृत्तेः । यथासङ्ख्यविज्ञानादिति । उक्तोदाहरणेषु वोपारम्भफलाभावाद्रोफस्य रेफे परत उदाहरणाऽभावाच्च यथासङ्क्यासूत्रमिह नोप्रन्यस्तम् ष । माहात्म्यमिति । अत्र मलोपो नेत्यर्थः ।हलोयरां यरि सवर्णे लोपः॑ इति तु न सूत्रितम् ।मूर्ध्रः॑शाङ्र्ग॑ मित्यादौ रेफात्परस्य लोपांपत्तेः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.