Page loading... Please wait.
8|4|63 - शश्छोऽटि
॥ तस्मै पाणिनये नमः ॥
8|4|63
SK 120
शश्छोऽटि   🔊
सूत्रच्छेदः
शः (षष्ठ्येकवचनम्) , छः (प्रथमैकवचनम्) , अटि (सप्तम्येकवचनम्)
अनुवृत्तिः
पदान्तस्य  8|4|59 (पञ्चम्येकवचनम्, पञ्चम्या विपरिणम्यते) , वा  8|4|59 (अव्ययम्) , झयः  8|4|62 (पञ्चम्येकवचनम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
पदान्तात् झयः शः छः वा अटि
सूत्रार्थः
पदान्त-झय्-वर्णात् परस्य शकारस्य अट्-वर्णे परे विकल्पेन छकारादेशः भवति ।
झय्-प्रत्याहारे वर्गचतुर्थाः, वर्गतृतीयाः, वर्गद्वितीयाः, वर्गप्रथमाः समाविष्टाः सन्ति । एतेषां परस्य शकारस्य अट्-वर्णे परे विकल्पेन छकारादेशः भवति । (अट् प्रत्याहारे सर्वे स्वराः तथा ह्, य्, व् र् - एते समाविश्यन्ते ।)

उदाहरणानि -
1. तद् + शेते
→ तज् + शेते [स्तोः श्चुना श्चुः 8|4|40 इति जकारः]
→ तच् + शेते [खरि च 8|4|55 इति चर्त्वम्]
→ तच्छेते, तच्शेते [शश्छोऽटि 8|4|63 इति शकारस्य विकल्पेन छकारः ।]

2. मधुलिड् + शेते
→ मधुलिट् + शेते [खरि च 8|4|55 इति चर्त्वम्]
→ मधुलिट्छेते, मधुलिट् शेते [शश्छोऽटि 8|4|63 इति शकारस्य विकल्पेन छकारः ।]

3. त्रिष्टुब् + शेते
→ त्रिष्टुप् + शेते [खरि च 8|4|55 इति चर्त्वम्]
→ त्रिष्टुप्शेते, त्रिष्टुप्छेते ।

अस्मिन् विषये एकम् वार्तिकम् ज्ञातव्यम् - छत्वम् अमि इति वक्तव्यम् । इत्युक्ते, केवलम् अट्-वर्णे परे एव शकारादेशः भवति इति न, अपितु अम्-वर्णे परे अपि भवति । यथा -
तद् + श्लोकेन
→ तज् + श्लोकेन [स्तोः श्चुना श्चुः 8|4|40 इति जकारः]
→ तच् + श्लोकेन [खरि च 8|4|55 इति चर्त्वम्]
→ तच्छ्लोकेन , तच्श्लोकेन [शश्छोऽटि 8|4|63 इति शकारस्य विकल्पेन छकारः ।]

एवमेव तत् + श्मश्रुणा = तच्छ्मश्रुणा, तच्श्मश्रुणा । तत् + श्ना = तच्छ्ना, तच्श्ना ।
One-line meaning in English
A शकार sandwiched between a पदान्त झय् letter on the left and an अट् letter on the right is optionally converted to a छकार.
काशिकावृत्तिः
झयः इति वर्तते, अन्यतरस्याम् इति च । झय उत्तरस्य शकारस्य अटि परतः छकरादेशो भवति अन्यतरस्याम् । वाक् छेते, वाक् शेते । अग्निचिच् छेते, अग्निचित् शेते । सोमसुच् छेते, सोमसुत् शेते । श्वलिट् छेते, श्वलिट् शेते । त्रिष्टुप् छेते, त्रिष्टुप् शेते । छत्वममि इति वक्तव्यम् । किं प्रयोजनम् ? तच्छ्लोकेन, तच्छ्मश्रुणा इत्येवम् अर्थम् ॥
`छत्वममीति धक्तव्यण्` इति। अमि परतश्छत्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`शश्छः` इति योगविभागः क्रियते, तेनाट्प्रत्याहारेऽसन्निविष्टे लकारादावपि भविष्यति, अतोऽटीत्यतिप्रसङ्गनिरासार्थो द्वितीयो योगः--तेनाटएव परभूते, नान्यनेति। योगवभागकरणसामथ्र्याच्चाम्प्रत्याहारान्तर्गतेऽनटदि क्वचिद्भवत्येव। अन्यथा योगविभागकरणमनर्थकं स्यात्। अमीति नोक्तम्, वैचित्र्यार्थम्। अत्र `वा पदान्तस्य` 8|4|58 इत्यतः पदान्तग्रहणमनुवत्र्तते, झयो विशेषणार्थम्। तेन `शि तुक्` 8|3|31 इत्यत्र तुकः पूर्वान्तकरणं छत्वार्थमुपपन्नं भवति; `डः सि धुट्` 8|3|29 इत्यतो धुङ्ग्रहणानुवृत्तेः परस्या सिद्धत्वात्? पूर्वान्तकरणमनर्थकं स्यात्॥
शश्छाएऽमीतीति । अटीत्यपनीयामीति वक्तव्यमित्यर्थः । तच्छ्लोकेन, तच्छ्मश्रुणेति अत्र लकारमकारपरस्यापि शकारस्य भवति ॥
सिद्धान्तकौमुदी
पदान्तात् झयः परस्य शस्य छो वा स्यादटि । दस्य श्चुत्वेन जकारे कृते ॥
शश्छोऽटि - शश्छोऽटि । "झय" इति पञ्चम्यन्तमनुवर्तते । "श" इति षष्ठएकवचनम् । तदाह — झयः परस्येति । "तद्-शिव" इति स्थिते दकारस्य चुत्वेन जकारे कृते जकारस्य चकार इत्यन्वयः ।
शश्छोऽटि - शाश्छोऽटि । इह पदान्तादित्यनुवत्र्यपदान्ताज्झय॑ इति व्याख्येयम्, तेनेह न,मध्वश्चोतन्त्यभितो विरप्शम् । विपूर्वाद्रपेरौणादिकः शः ।छत्वममीति ।शश्छोऽटी॑ति सूत्रंशश्छोऽमी॑ति पठनीयमित्यर्थः । तच्छ्लोकेनेति ।तच्छ्मश्रुणे॑त्याद्यप्युदाहर्तव्यम्॥
लघुसिद्धान्तकौमुदी
झयः परस्य शस्य छो वाटि। तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः। तच्छिवः, तच्शिवः। (छत्वममीति वाच्यम्) तच्छ्लोकेन॥
महाभाष्यम्
शश्छोऽटि ।। छत्वममि(तच्छ्लोकेन तच्छमश्रुणेति प्रयोजनम्)।। छत्वममीति वक्तव्यम्।। किं प्रयोजनम्?।। तच्छ्लोकेन तच्छ्मश्रुणेति।।