Page loading... Please wait.
8|4|62 - झयो होऽन्यतरस्याम्
॥ तस्मै पाणिनये नमः ॥
8|4|62
SK 119
झयो होऽन्यतरस्याम्   🔊
सूत्रच्छेदः
झयः (पञ्चम्येकवचनम्) , हः (षष्ठ्येकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्)
अनुवृत्तिः
सवर्णः  8|4|58 (प्रथमैकवचनम्) , पूर्वस्य  8|4|61 (षष्ठ्येकवचनम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
झयः हः पूर्वस्य सवर्णः अन्यतरस्याम्
सूत्रार्थः
झय्-वर्णात् परस्य हकारस्य विकल्पेन पूर्वसवर्णः (वर्गचतुर्थः) आदेशः भवति ।
झय्-प्रत्याहारेण वर्गप्रथमाः, वर्गद्वितीयाः, वर्गतृतीयाः, वर्गचतुर्थाः निर्दिश्यन्ते । एतेषां परस्य हकारस्य विकल्पेन पूर्वसवर्णादेशः विधीयते । संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव पूर्वसवर्णः वर्गचतुर्थः वर्णः आदेशरूपेण आगच्छति । यथा -

1) वाग् + हरि → वाग्घरि, वाग्हरि ।
2) अज् + हलौ → अज्झलौ, अज्हलौ ।
3) मधुलिड् + हसति → मधुलिड्ढसति, मधिलिड्हसति ।
4) तद् + हितम् → तद्धितम् , तद्हितम् ।
5) त्रिष्टुब् + हि → त्रिष्टुब्भि, त्रिष्टुब्हि ।

विशेषः - अस्मिन् सूत्रे अनुस्वारस्य ययि परसवर्णः 8|4|58 इत्यस्मात् केवलम् "सवर्णः" इति अनुवर्तते । तथा च, उदः स्थास्तम्भोः पूर्वस्य 8|4|61 इत्यस्मात् "पूर्वस्य" इति स्वीकृत्य "पूर्वस्य सवर्णः = पूर्वसवर्णः" इति अर्थविधानम् क्रियते ।
One-line meaning in English
A हकार following a झय् letter is optionally converted to the पूर्वसवर्ण वर्गचतुर्थ.
काशिकावृत्तिः
झयः उत्तरस्य पूर्वसवर्णादेशो भवति अन्यतरस्याम्। वाग्घसति, वाघसति। स्वलिड् ढसति, श्वलिड् हसति। अग्निचिद् धसत्। अग्निचिद् हसति। सोमसुद् धसति, सोमसुद् हसति। त्रिष्टुब् भसति, त्रिष्टुब् हसति। झयः इति किम्? प्राङ् हसति। भवान् हसति।
`वाग्धसति` इत्यादावुदाहरणे हकारस्य महाप्राणस्यान्तरतम्यात्? तादृश एव घकारादयो वर्गचतुर्था भवन्ति। अन्यतरस्यांग्रहणं पूर्वविध्योर्नित्यत्वज्ञापनार्थम्॥
उदाहरणेषु हकारस्य महाप्राणस्य सोष्मणो घोषवतस्तादृश एवं घकारादयश्चतुर्था भवन्ति ॥
सिद्धान्तकौमुदी
झयः परस्य हस्य पूर्वसवर्णो वा स्यात् । घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थं एवादेशः । वाग्घरिः । वाग्हरिः ॥
झयो होऽन्यतरस्याम् - झयो हः । झय इति पञ्चमी ।परस्ये॑त्यध्याहार्यम् । "ह" इति । षष्ठी ।उदः स्थास्तम्भो॑रित्यतःपूर्वस्ये॑ति,अनुस्वारस्य ययी॑त्यतः "सवर्ण" इति चानुवर्तते, तदाह — इयः परस्येत्यादिना ।वाग्घरि॑रित्युदाहरणम् । वाच्शब्दश्चकारान्तः, कुत्वं जश्त्वम् । वाग्-हरिरिति स्थिते हकारस्य पूर्वसवर्णविधौ गकारः पूर्वो निमित्तम्, तत्सवर्णाः कखगघङाः पञ्च । तेषां हकारेण स्थानिना स्थानत आन्तर्यमविशिष्टम् । आभ्यन्तरप्रयत्नसाम्यं तु पञ्चानामपि हकारेण स्थानिना न विद्यते, स्पृष्टविवृतप्रयत्नबेदात् । अतो बाह्रयत्नत आन्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह — घोषवत इत्यादिना । स्थानीभूतो हकारो घोषनादसंवानमहाप्राणाख्ययत्नचतुष्टयवान्, तस्य क-ख-ग-घ-ङेषु प्रथमतृतीयपञ्चमा न भवन्ति, तेषामल्पप्राणत्वात् । द्वितीयः खकारोऽपि न भवति, तस्याऽघोषस्वासविवारयत्नकत्वात् । चतुर्थस्तु घकारो घोषनादसंवारमहाप्राणवान् । अतः स एव घकारो हकारस्य (स्थाने) भवतीत्यर्थः । ततश्च वाग्घरिरिति भवति । पूर्वसवर्णभावे तु वाग् हरिरिति रूपम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
झयः परस्य हस्य वा पूर्वसवर्णः। नादस्य घोषस्य संवारस्य महाप्राणस्य तादृशो वर्गचतुर्थः। वाग्घरिः, वाघरिः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.