Page loading... Please wait.
8|4|59 - वा पदान्तस्य
॥ तस्मै पाणिनये नमः ॥
8|4|59
SK 125
वा पदान्तस्य   🔊
सूत्रच्छेदः
वा (अव्ययम्) , पदान्तस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
परसवर्णः    8|4|58 (प्रथमैकवचनम्) ,  ययि  8|4|58 (सप्तम्येकवचनम्) , अनुस्वारस्य    8|4|58 (षष्ठ्येकवचनम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
पदान्तस्य अनुस्वारस्य ययि वा परसवर्णः
सूत्रार्थः
पदान्ते विद्यमानस्य अनुस्वारस्य यय्-वर्णे परे विकल्पेन अनुस्वारः भवति ।
अनुस्वारस्य ययि परसवर्णः 8|4|58 इत्यनेन अनुस्वारस्य यय्-वर्णे परे यः अनुस्वारः नित्यम् विधीयते, सः अनेन सूत्रेण पदान्ते विकल्प्यते । यथा -
1) त्वं करोषि → त्वं करोषि, त्वङ्करोषि । अनुस्वारस्य परसवर्णः कवर्गीयः ङकारः ।
2) त्वं चलसि → त्वं चलसि, त्वञ्चलसि । अनुस्वारस्य परसवर्णः चवर्गीयः ञकारः ।
3) त्वं डयसे → त्वं डयसे, त्वण्डयसे । अनुस्वारस्य परसवर्णः टवर्गीयः णकारः ।
4) त्वं नमसि → त्वं नमसि, त्वन्नमसि । अनुस्वारस्य परसवर्णः तवर्गीयः नकारः ।
5) त्वं पश्यसि → त्वं पश्यसि, त्वम्पश्यसि । अनुस्वारस्य परसवर्णः पवर्गीयः मकारः ।
6) त्वं यासि → त्वं यासि, त्वय्ँयासि । अनुस्वारस्य परसवर्णः अनुनासिकः यँकारः ।
7) त्वं वदसि → त्वं वदसि, त्वव्ँवदसि । अनुस्वारस्य परसवर्णः अनुनासिकः वँकारः ।
8) त्वं लभसे → त्वं लभसे, त्वल्ँलभसे । अनुस्वारस्य परसवर्णः अनुनासिकः लकारः ।

अनुस्वारात् परः रेफः आगच्छति चेत् अनुस्वारस्य परसवर्णादेशः न भवति, यतः रेफस्य अनुनासिकः सवर्णः न विद्यते ।
One-line meaning in English
An अनुस्वार occurring at end of a पद is converted to an अनुस्वार optionally.
काशिकावृत्तिः
पदान्तस्य अनुस्वारस्य ययि परतः वा परसवर्णादेशो भवति। तङ्कथञ्चित्रपक्षण्डयमानन्नभःस्थम्पुरुषो ऽवधीत्, तं कथं चित्रपक्षं डयमानं नभःस्थं पुरुषो ऽवधीत्।
वावचनं पूर्वस्य नित्यात्वज्ञापनार्थम्। द्वयोर्विभावयोमध्ये ये वै विधयस्ते नित्या भवन्तीति कृत्वा। असति वाग्रहणे विपर्ययः सम्भाव्येत--पूर्वो विधिर्विभाषा, अयं तु विधिरारम्भसामथ्र्यान्नित्य इति॥
तङ्क्थमित्यादि । ककारादिषु परतो ङ्कारादयः क्रमेण भवन्ति ॥
सिद्धान्तकौमुदी
पदान्तस्यानुस्वारस्य ययि परे परसवर्णो वा स्यात् । त्वङ्करोषि । त्वंकरोषि । सय्ँयन्ता । संयन्ता । सव्ँवत्सरः । संवत्सरः । यल्ँलोकम् । यंलोकम् । अत्राऽनुस्वारस्य पक्षेऽनुनासिका यवलाः ॥
वा पदान्तस्य - वा पदान्तस्य ।अनुस्वारस्य ययि परसवर्ण॑ इत्यनुवर्तते । तदाह — पदान्तस्येत्यादिना । त्वङ्करोषीति । त्वम्-करोषीति । स्थिते मोऽनुस्वारः । परसवर्णो ङकारः । तदभावपक्षे अनुस्वार एव श्रूयते । अत्रेति । सम्-यन्तेति स्थिते मोऽनुस्वारः । तस्य परनिमित्तभूतयकारसवर्णः अनुनासिक एव यकारो भवति, आन्तर्यात् । तथाच सय्यँन्तेति रूपम् । एवं सं-वत्सर इति स्थिते अनुस्वारस्य परसवर्णोनुनासिको वकारः । सव्वँत्सर इति रूपम् । यं-लोकमिति स्थिते, अनुस्वारस्य परसवर्णोऽनुनासिको लकारः । यल्लोंकमिति रूपम् । परसवर्णाभावपक्षे तु अनुस्वार एवेत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
त्वङ्करोषि, त्वं करोषि॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.