Page loading... Please wait.
8|4|58 - अनुस्वारस्य ययि परसवर्णः
॥ तस्मै पाणिनये नमः ॥
8|4|58
SK 124
अनुस्वारस्य ययि परसवर्णः   🔊
सूत्रच्छेदः
अनुस्वारस्य (षष्ठ्येकवचनम्) , ययि (सप्तम्येकवचनम्) , परसवर्णः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
अनुस्वारस्य ययि परसवर्णः
सूत्रार्थः
अनुस्वारस्य यय्-वर्णे परे परसवर्णादेशः भवति ।
यय्-प्रत्याहारे सर्वाणि वर्गीयव्यञ्जनानि तथा अन्तस्थवर्णाः समाविश्यन्ते । एतेषाम् उपस्थितौ अनुस्वारस्य "परसवर्णादेशः" भवति । परसवर्णादेशः इत्युक्ते अनुस्वारस्य स्थाने अग्रिम-वर्णस्य यः अनुनासिकः सवर्णः, तस्य आदेशः । यथा -

1) अनुस्वारात् परम् वर्गीयव्यञ्जनम् आगच्छति चेत् तस्य वर्गस्य पञ्चमः वर्णः आदेशरूपेण आगच्छति । यथा, "अकिँ" धातोः प्रक्रियायाम् आदौ -
अकिँ
→ अन् क् [इदितो नुम् धातोः 7|1|58 इति नुमागमः]
→ अं क् [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः]
→ अङ् क् [अनुस्वारस्य ययि परसवर्णः 8|4|58 इति परसवर्णः ङकारः]

अनेन प्रकारेण "अङ्क्" इति दृश्यरूपं सिद्ध्यति ।

एवमेवे "अचिँ" धातोः "अञ्च्" , "कुठिँ" इत्यस्य "कुण्ठ्", "वदिँ" इत्यस्य "वन्द्", "गुफिँ" इत्यस्य "गुम्फ्" एतानि रूपाणि सिद्ध्यन्ति ।

2) अनुस्वारात् परम् यकार/वकार/लकारः आगच्छति चेत् अनुस्वारस्य अनुनासिक-यकार/वकार/लकारादेशः भवति । परन्तु यकारे/वकारे/लकारे परे केवलं पदान्ते एव अनुस्वारः विद्यते, यस्य वा पदान्तस्य 8|4|59 इति अग्रिमसूत्रेण विकल्पेन परसवर्णादेशः भवति । अतः अत्र यवलानाम् उदाहरणानि न दृश्यन्ते ।

3) अनुस्वारात् परम् रेफः आगच्छति चेत् परसवर्णः न भवति, यतः रेफस्य अनुनासिकः सवर्णः नास्ति ।
One-line meaning in English
An अनुस्वार is converted to a परसवर्ण in presence of a यय् letter.
काशिकावृत्तिः
अनुस्वारस्य ययि परतः प्रस्वर्णः आदेशो भवति। शङ्किता। शङ्कितुम्। शङ्कितव्यम्। उञ्छिता। उञ्छितुम्। उञ्छितव्यम्। कुण्डिता। कुण्डितुम्। कुण्डितव्यम्। नन्दिता। नन्दितुम्। नन्दितव्यम्। कम्पिता। कम्पितुम्। कम्पितव्यम्। इह कुर्वन्ति, वृषन्ति इत्यत्र णत्वस्य असिद्धत्वात् पूर्वं नकारस्य अनुस्वारः क्रियते। तस्य अपि परसवर्णेन पुनर् नकार एव भवति। तस्य अपि असिद्धत्वात् पुनर् णत्वं न भवति। एवम् अनुस्वारीभूतो णत्वम् अतिक्रामति इति। ययि इति किम्? आक्रंस्यते। आचिक्रंस्यते।
`शङ्किता` इत्यादि। `शकि शङ्कायाम्` (धातुपाठः-86), `उछि उञ्छे` (धातुपाठः-215), `कुडिदाहे` (धातुपाठः-270), `टुनदि समुद्धो` (धातुपाठः-67), `कपि चलने` (धातुपाठः-375)--एभ्यस्तृजादयः, इदित्त्वान्नुम्, `नश्चापदान्तस्य झलि` 8|3|24 इत्यनुस्वारः, तस्यानेन परसवर्णः। `कुर्वन्ति, कृषन्ति` इति। करोतेः, `कृष विलेखने` (धातुपाठः-1286) इत्यस्माच्च तौदादिकात्? परस्य लडादेशस्य झेः `झोऽन्तः` 7|1|3 इत्यन्तादेशः। नकारस्यानुस्वारे तस्य च परसवर्णे नकारे सति `अट्कुप्वाङ्नुम्` 8|4|2 इत्यादिना णत्वं प्राप्नोति, तत्? कस्मान्न भवति? इत्याह--`इह` इत्यादि। णत्वमत्रानुस्वारात्? पूर्वं स्यात्? पश्चाद्वा? पूर्वं तावन्न भवति; यस्मादनुस्वारे कत्र्तव्ये णत्वस्यासिद्धत्वम्, अतः पूर्वं नकारस्यानुस्वार एव क्रियते। परसवर्णे नकारे कृते पश्चादपि न भवति; णत्वे कत्र्तव्येऽनुस्वारस्थानिकस्यासिद्धत्वात्। `परसवर्णेन` इति। परसवर्णार्थेन शास्त्रेणेत्यर्थः। भवति तादथ्र्यात्? ताच्छब्द्यम्। यथा प्रदीपार्था मल्लिका प्रदीप इति। `पुनः` इति। अनुस्वारक्रियाया उत्तरकालमित्यर्थः। `एवम्` इत्यादिनाऽनुस्वारीभूतो नकारो णत्वमतिक्रामतीति भाष्ये णत्वस्यातिक्रमणमनुस्वारीभूतस्य नक्रस्योक्तम्। तदेवासिद्धत्वात्? परसवर्णस्य नकारसय णत्वं न सम्पद्यत इति दर्शयति। `अतिक्रामति` इति। अतिक्रम्म वत्र्तत इत्यर्थः। `आर्क्रस्यते` इति। आङ्पूर्वात्? क्रमेर्लुट्, `आङ उद्गमने` 1|3|40 इत्यात्मनेपदम्। `आचिर्क्रसते`[आचिक्रंस्यते--काशिका] इति। `पूर्ववत्? सनः` 1|3|62 इत्यात्मनेपदम्॥
शङ्कितेत्यादि । ठ्शकि सङ्कायाम्ऽ, ठुच्छि उञ्छेऽ, ठ्कुडि दाहेऽ, ठ्टुअनदि समृद्धौऽ, ठ्कपि चलनेऽ, इदत्वान्नुम्, ठ्नश्चापदान्तस्य झलिऽ इत्यनुस्वारः, तस्य ककारादिषु परतो यथासंख्यं परसवर्णा वर्गपञ्चमाङ्कारादयः । कुर्वन्ति, कृषन्तीत्यत्र झेरन्तादेशे नकारस्य णत्वं प्राप्नोति, तत्कस्मान्न भवति ? इत्याह---इहेति । णत्वमनुस्वारात्पूर्वं न भवति, यस्माण्णत्वस्यासिद्धत्वात् पूर्वमनुस्वार एव क्रियते, पश्चादपि न भवति, अनुस्वारस्थानिकस्यास्य परसवर्णस्य णत्वे कर्तव्ये असिद्धत्वात् । परसवर्णेनेति । परसवर्णार्थेन शास्त्रेणेत्यर्थः । एवमित्यादि । अनुस्वारीभूतो णत्वमतिक्रामतीति भाष्ये यदुक्तं तदेवमुक्तप्रकारेणेत्यर्थः ॥
सिद्धान्तकौमुदी
स्पष्टम् । अङ्कितः । अञ्चितः । कुण्ठितः । शान्तः । गुम्फितः । कुर्वन्तीत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वम् ॥
अनुस्वारस्य ययि परसवर्णः - अनुस्वारस्य ययि । स्पष्टमिति । अनुवत्र्यपदान्तराभावादिति भावः । अङ्कित इति । अन्क पदे लक्षणे चेति चुरादौ नौपधः । नश्चापदान्तस्येति कृतानुस्वारस्य निर्देश इति केचित् । ण्यन्तात् क्तः, इट् । निष्ठायां सेटीति णिलोपः । अनुस्वारस्यानेन परसवर्णः । परनिमित्तमत्र ककारः, तत्सवर्णः कवर्गः । सोऽनुस्वारस्य भवन् नासिकारस्थानसाम्याङकार एव भवति । अञ्चित इति । अन्चु गतिपूजनयोः । नोपधः । तस्मात् । क्तः । अञ्चेः पूजायामिति इट् । नाञ्चेः पूजायामिति निषेधादनिदितामिति नलोपो न । अत्र नश्चापदान्तस्येत्यनुस्वारस्य परसवर्णो ञकारः । कुण्ठित इति । कुठि प्रतिघाते । इदित्त्वान्नुम् । क्त इट् । अत्र नश्चेत्यनुस्वारस्य परसवर्णो णकारः । शान्त इति । शम उपशमे । क्तः । वा दान्तशान्तेत्यादिनिपातनान्नेट् । अनुनासिकस्य क्वीति दीर्घः । नश्चेति मस्यानुस्वारः । तस्यं परसवर्णो नकारः । गुम्फित इति । गुन्फ ग्रन्थे-द्वितीयान्तः चतुर्थान्तो वा, नोपधः । क्तः इट् ।नोपधात्थफान्ताद्वा॑ इत्यकित्त्वपक्षे नलोपो न । अत्र नश्चेत्यनुस्वारस्य परसवर्णो मकारः । ननु कृञ्धातोर्लट्, झिः, झोऽन्तः, तनादिकृञ्भ्य उः, गुणः, परत्वम् ।अत उत्स#आर्वधातुके॑ । उकारस्य यण् । न भकुर्छुरामिति निषेधात् र्वौरुपधाया इति दीर्घो न । कुर्वन्तीति रूपम् । अत्र नकारस्य नश्चापदान्तस्येत्यनुस्वारं बाधित्वा परत्वाद्रषाभ्यामिति णत्वं स्यात् । न च त्रिपाद्यां नश्चापदान्तस्येत्यपेक्षया रषाभ्यामित्यस्य परत्वात्पूर्वत्रासिद्धमित्यसिद्धत्वादनुस्वारे सति परसवर्णे च नकारस्यैव श्रवणमिति वाच्यम् । एवमपि परसवर्णविधिना प्राप्तस्य नकारस्य रषाभ्यामिति णत्वप्राप्तेर्दुर्वारत्वादित्यत आह — कुर्वन्तीत्यादि । रषाभ्यामित्यपेक्षया परसवर्णस्य परतया णत्वे कर्तव्ये अनुस्वारस्थानिकपरसवर्णस्य नकारस्याऽसिद्धत्वान्न णत्वमिति भावः ।
अनुस्वारस्य ययि परसवर्णः - अनुस्वारस्य । अत्रययी॑ति स्पष्टार्थम्, अचि परेऽनुस्वाराऽभावात् । शलि तु परसवर्णोऽनुस्वारान्तरतमो न संभवतीतिकुण्डं रथेने॑त्यत्रेवदंशन॑मित्यादावपि परसवर्णविध्यप्रवृत्तेः । अत्र वदन्ति-॒ईषद्विवृतमूष्माणां, विवृतं स्वराणा॑मिति भाष्यमतेययी॑त्यास्यापार्थकत्वम् । सूत्रकारमते तदावश्यकमेव । अन्यथादशन॑मित्यादावनुस्वारान्तरतमः परसवर्णोऽनुनासिक ईकारः स्यात् । ईकारशकारयोस्तन्मते सावण्र्यस्य सत्त्वात् । तथाकुण्डं शेते॑ इत्यादावनुस्वारस्यवा पदान्तस्ये॑ति स्यादिति । अङ्कित इति ।अङ्क पदे लक्षणे चे॑ति चुरादिण्यन्तात्क्तः ।निष्ठायां सेटी॑ति णिलोपः । परसवर्णेन ङः ।अकि लक्षणे॑ इत्यस्माद्वा क्तः । नुमोऽनुस्वारे परसवर्णेन ङः । अञ्चित इति ।अञ्चेः पूजाया॑मिति निष्ठायामिट् ।नाऽचे॑रिति नलोपनिषेधः ।कुण्ठित इति ।कुठि प्रतिघाते॑ क्तः । नुमोऽनुस्वारे परसवर्णेन णः ।शान्त इति ।शम उपशमे॑ क्तः ।वा दान्तशान्ते॑ति निपरातनादिडभावः ।अनुनासिकस्य क्वी॑ति दीर्घः । मस्यानुस्वारे परसवर्णेन नकारः । गुम्फित इति ।गुम्फ ग्रन्थे॑क्तः । मस्यानुस्वारे परसवर्णेन मः॥
लघुसिद्धान्तकौमुदी
स्पष्टम्। शान्तः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.