Page loading... Please wait.
8|4|57 - अणोऽप्रगृह्यस्यानुनासिकः
॥ तस्मै पाणिनये नमः ॥
8|4|57
SK 110
अणोऽप्रगृह्यस्यानुनासिकः   🔊
सूत्रच्छेदः
अणः (षष्ठ्येकवचनम्) , अप्रगृह्यस्य (षष्ठ्येकवचनम्) , अनुनासिकः (प्रथमैकवचनम्)
अनुवृत्तिः
अवसाने    8|4|56 (सप्तम्येकवचनम्) , वा  8|4|56 (अव्ययम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
अप्रगृह्यस्य अणः अवसाने वा अनुनासिकः
सूत्रार्थः
प्रगृह्यसंज्ञकं विहाय अन्यशब्दस्य अण् वर्णः अवसाने परे विकल्पेन अनुनासिकसंज्ञः भवति ।
यः अण् वर्णः (इत्युक्ते, अ/इ/उ वर्णः) प्रगृह्यसंज्ञकः नास्ति, तस्मात् अग्रे अवसानम् अस्ति चेत् सः अण् वर्णः विकल्पेन अनुनासिकसंज्ञः भवति ।

यथा - "दधि" शब्दस्य प्रथमैकवचनम् "दधि" । अस्मिन् शब्दे अन्तिमः इकारः प्रगृह्यसंज्ञकः नास्ति, अतः वर्तमानसूत्रेण सः विकल्पेन अनुनासिकः भवति । यथा - दधिँ, दधि ।

तथैव -
1. हे बाल, हे बालँ ।
2. तथा, तथाँ
3. इति, इतिँ
4. नदी, नदीँ
5. मधु, मधुँ

परन्तु अयम् अण्-वर्णः प्रगृह्यसंज्ञकः अस्ति चेत् तस्य अनुनासिकसंज्ञा न भवति । यथा - मती , अग्नी, धेनू ।

ज्ञातव्यम् -
1. अण् इति प्रत्याहारः अत्र पूर्वेण णकारेण एव गृह्यते ।
2. अस्मिन् सूत्रे "अवसाने परे" इति उक्तम् अस्ति, अतः शब्दस्य अन्तिमवर्णस्य विषये एव अस्य सूत्रस्य प्रयोगः भवितुम् अर्हति ।
One-line meaning in English
The अण् letter of a non-प्रगृह्य word becomes अनुनासिक optionally when it is followed by an अवसान.
काशिकावृत्तिः
अणः अप्रगृह्यसंज्ञस्य अवसाने वर्तमानस्य वा अनुनासिकादेशो भवति। दधिम्̐, दधि। मधुम्̐, मधु। कुमारीम्̐, कुमारी। अणः इति किम्? कर्तृ। हर्तृ। अप्रगृह्यस्य इति किम्? अग्नी। वायू।
`अणः` इति पूर्वेण णकारेण प्रत्याहारग्रहणम्। अन्यथाऽसन्देहार्थ `अचः` इति कुर्यात्। न च पदान्तहलोऽणः सम्भन्ति। `दीर्घे, मधुँ` इति। `स्वमोर्नपुंसकात्` 7|1|23 इति स्वमोर्लुक्। `अग्नी, वायू` इति। `प्रथमयोः पूर्वसवर्णः` 6|1|98 इति दीर्घः। `ईदूदेद्विवचनम्` 1|1|11 इति प्रगृह्रसंज्ञा॥
ठणःऽ इति पूर्वेण णकारेण प्रत्याहरः । अग्नी, वायू इति । ठीदूदेत्ऽ इति प्रगृह्यसंज्ञा ॥
सिद्धान्तकौमुदी
अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । दधिं । दधि । अप्रगृह्यस्य किम् । अग्नी ॥ । इति अच्सन्धिप्रकरणम्‌ ।
अणोऽप्रगृह्यस्यानुनासिकः - अणोऽप्रगृह्रस्य । "वा॒अवसाने" इत्यनुवर्तते । तदाह — अप्रगृह्रेत्यादिना । अत्र अण् पूर्वेणैव णकारेण, व्याख्यानात् । ततस्च "कर्तृ" इत्यत्र नानुनासिकः । इत्यच्संधीति । अल्पाच्तरमिति, सिद्धमनच्त्वादिति, कथमनच्त्वमिति च सूत्रवार्तिकभाष्यप्रयोगादेवजातीयस्थलेषु असंदेहार्थं संध्यभावोऽभ्यनुज्ञातः । अतोऽत्र कुत्वश्चुत्वयोरभावेऽपि न दोषः । इति*बालमनोरमायामच्सन्धिः ।अत तिङन्ते प्रत्ययमाला ।अथ प्रत्ययमालां वक्ष्यन्नाह — कण्डूयतेः सन्निति । "धातोः कर्मणः" इत्यनेनेति भावः । प्रथमस्यैकाच इति ।अजादेर्द्वितीयस्ये॑ति द्वितीयैकाचो द्वित्वे प्राप्ते इत्यपि ज्ञेयम् ।कण्ड्वादेस्तृतीयस्येति ।एकाचो द्वित्व॑मिति शेषः ।कण्ड्वादे॑रित्यनन्तरंयगन्तस्ये॑ति शेषः, केवलकण्ड्वादिषु तृतीयैकाचोऽभावात् । कण्डूयियिषतीति । कण्डूयेति यगन्तात्सनि इटि अतो लोपः । इस् इति तृतीयस्यैकाचो द्वित्वम् । असु उपतापे । कण्ड्वादिः । असूयियिषति । अजादेस्तृतीयस्य एकाचो द्वित्वम् । क्यजन्तात्सन्निति । "उदाह्यियते" इति शेषः । यथेष्टं नामधातुषु — इत्पि वार्तिकम । नाम = प्रातिपदिकं, तद्धटितधातुष्वित्यर्थः । अजादेस्त्वाद्येतरस्येति । अजादेरित्यनुवृत्त्या आदिभूतादचः पेरषामेकाचां यतेष्टमित्यर्थलाभादिति भावः । नदराणामिति । तेषां मध्ये आदिभूतादचः परस्यैवेत्यर्थः । इन्द्रीयतेः सन्निति । इन्द्रशब्दात् क्यजन्तात्सन्नित्यर्थः । द्रीशब्दयिशब्दयोरिति । नकारस्य आदिभूतादचः परत्वान्न द्वित्वम् । दकारस्य तु आदिभूतादचः परत्वाऽभावान्न द्वित्वनिषेध इति भावः । चिच्नद्रीयिषतीति । चन्द्रीयतेः सनि प्रथमस्यैकाचो द्वित्वम् । चन्द्रिद्रीयिषतीति । द्वितयीस्यैकाचो द्वित्वम् । प्रियमिति । प्रियमाख्यातुमिच्छतीत्यर्थे "तत्करोति तदाचष्टे" इति ण्यन्तात्सनि इटि णाविष्ठवत्त्वात्प्रियशब्दस्यप्रियस्थिरे॑ति प्रादेशे वृद्धौ पुकि णिचो गुणाऽयादेशयोः षत्वे प्रापयिषेत्येव सन्नन्तम् । प्रियमाचक्षाणं प्रेरयितुमिच्छतीत्यर्ते तु प्रापि इति ण्यन्तादुक्ताद्धेतुमण्णौतद्नतात्सनि इटि द्वितीयं णिचमाश्रित्य प्रथमणिचो लोपेद्वितीयणिचो गुणाऽयादेशयोः प्रापयिषेत्येव सन्नन्तम् । तत्र यथेष्टं नामधातुष्वित्याद्यानां त्रयाणामेकाचामेकैकस्य द्वित्वेपिप्रापयिषती॑त्यादिरूपत्रयमित्यर्थः । उरुमिति । उरुमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे उरुशब्दाचष्टे इत्यर्थे णिचिप्रियस्थिरे॑ति वरादशे उपधावृद्धौ वारि इति ण्यन्तात्सनि इटि णिचो गुणाऽयादेशयोः षत्वे वारयिषेति सन्नन्तम् । माधवमते वृद्ध्याङ्गीकाराद्वारीत्यस्माद्धेतुमण्ण्यन्तात् सनि इटि प्रथमणेर्लोपे षत्वे वारयिषेत्येव रूपम् । तत्र यथेष्टं नामधातुषवित्येकैकस्य एकाचो द्वित्वे विवारयिषतीत्यादिरूपत्रयमित्यर्थः । बाढंसिसाधयिषतीति । बाढमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे णिजादि पूर्ववत् ।अन्तिकबाढयो॑रिति साधादेशः । तत्र सकारस्यादेशत्वाऽभावान्न षत्वम् । तदाह — षत्वं तु नास्तीति । बोभूयिषयिषतीत्यत्र प्रक्रियां दर्शयति — यङिति । "भूधातो" रिति शेषः । द्वित्वे बोभूयेति स्थितम् । सन्निति । इटि अतो लोपे षत्वे बोभूयिषेति स्थितम् । ण्यन्तात्सन्निति । बोभूयिषेत्यस्माद्धेतुमण्णिचि अतो लोपे बोभूयिषि इति स्थितम् । तस्मात् सनि इटि णिचो गुणाऽयादेशयोः षत्वे बोभूयिषयिषेति स्थितम् । ततो लटस्तिपि शपि पररूपे बोभूयिषयिषतीति रूपम् ।अनभ्यासस्ये॑त्युक्तेर्न पुनर्द्वित्वम् । अथ बोभूययिषयतीत्यत्र प्रक्रियां दर्शयति — यङिति ।भूधातो॑रिति शेषः । द्वित्वे बोभूयेति स्थितम् । णिजिति । बोभूयेत्यस्माद्धेतुमण्णौ अतो लोपे बोभूयि इति स्थितम् । सन्नन्ताण्णिजिति । बोभूयि इत्यस्मात्सनि इटि णिचो गुणाऽयादेशयोः ष्तवे बोभूययिषेति स्थितम् । तस्माद्धेतुमण्णिचि अतो लोपे बोभूययिषि इत्यस्माल्लटस्तिपि शपि गुणाऽयादेशयोर्बोभूययिषयतीति रूपं सिद्धम् । प्रत्ययमाला समाप्ता । अथ पूर्वकृदन्तप्रकरणम् ।
अणोऽप्रगृह्यस्यानुनासिकः - अणोऽप्रगृह्रस्य । अण इति किम् , हर्तृ कर्तृ । अच्सन्धिरिति । कुत्वं श्चुत्वं वाऽत्र न कृतं, स्पष्टप्रतिपत्त्यर्थम् । अत एवानुस्वारस्याप्यच्त्वादित्यादिनिर्देशोऽप्युपपन्नः । इति प्रकृतिभावप्रकरणम्॥इति तत्त्वबोधिन्यामच्सन्धिप्रकरणम्॥ — — — — — — — — — — — — — अथ तिङन्ते प्रत्ययमाला । प्रथमस्येति । अजादेस्तु द्वितीयस्य द्वित्वे प्राप्ते इत्यपि ज्ञेयम् । प्राचा तुयथेष्टं नामाधातुषु॑ इति प्राप्तेकण्ड्वादेस्तृतीयस्येत्युक्त॑मित्यवतारितं, तदयुक्तम्, नामधातुत्वस्य निराकृतत्वात् । अत एव मूले नामधाथून् समाप्य कण्ड्वादयः पृथगेवोक्ताः । द्रीशब्दयिशब्दयोरिति । नकारस्य त्वचः परत्वाद्द्वत्वं नेति भाव- । पिप्रापयिषतीति । णाविष्ठवद्भावेन प्रियशब्दस्यप्रियस्थिरे॑त्यादिना प्रादेशः । ततो द्वित्वादि । सिसाधयिषतीति । इष्टवद्भावादिहअनतिकबाढयो॑रिति साधादेशः । सादिधयिषति । साधयियिषति । षत्वं तु नास्तीति । आदेशावयवत्वादिति भावः । बोभयिषयिषतीति । इह यङ् निमित्तद्वित्वे कृतेऽपि सन्निमित्तद्वत्वे कृतेऽपि सन्निमित्तद्वित्ववारणायलिटि धातो॑रिति सूत्रेअनभ्यासस्ये॑ त्येतदवश्यं वर्तव्यम् । एवं चलक्ष्ये लक्षमं सकृदेव प्रवर्तते॑ इति अनभ्यासग्रहणं तत्र माऽस्त्विति भाष्यस्थं प्रत्याख्यानं प्रौढिवादमात्रमिति भावः ।अथ पूर्वकृदन्तप्रकरणम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.