Page loading... Please wait.
8|4|54 - अभ्यासे चर्च्च
॥ तस्मै पाणिनये नमः ॥
8|4|54
SK 2182
अभ्यासे चर्च्च   🔊
सूत्रच्छेदः
अभ्यासे (सप्तम्येकवचनम्) , चर् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
झलाम्  8|4|53 (षष्ठीबहुवचनम्) , जश्  8|4|53 (प्रथमैकवचनम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
अभ्यासे झलाम् जश् चर् च
सूत्रार्थः
अभ्यासे विद्यमानस्य झल्-वर्णस्य यथायोग्यम् जश् वर्णादेशः चर्-वर्णादेशः वा भवति ।
द्वित्वप्रकरणे द्वित्वे कृते द्वयोः यः प्रथमः तस्य पूर्वोभ्यासः 6|1|4 इत्यनेन "अभ्यास" संज्ञा भवति । अस्मिन् अभ्यासे विद्यमान यः झल्-वर्णः तस्य "यथायोग्यम्" जश् उत चर्-वर्णादेशः भवति ।

यथायोग्यम् इत्युक्ते किम्? संवार-नाद-घोष-वर्णानाम् तादृशः एव संवार-नाद-घोष-आदेशः भवति (इत्युक्ते, जश्-वर्णस्य आदेशः भवति), तथा विवार-श्वास-अघोष-वर्णानाम् तादृशः एव विवार-श्वास-अघोष-आदेशः भवति । अतः अत्र सामान्यनियमः वक्तुं शक्यते -

1. वर्गप्रथमस्य वर्गद्वितीयस्य च वर्गप्रथमादेशः भवति । यथा - पठ् → पपाठ । खाद् → चखाद ।
2. वर्गतृतीयस्य वर्गचतुर्थस्य च वर्गतृतीयादेशः भवति । यथा - जप् → जजाप । धाव् → दधाव ।
3. शकारषकारसकाराणाम् तादृशः एव आदेशः भवति यतः एते त्रयः चर्-प्रत्याहारे समाविश्यन्ते । यथा - शस् → शशास् ।
4. हकारस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति यतः हकारस्य कुहोश्चुः 7|4|62 इत्यनेन झकारादेशः भवति ।
One-line meaning in English
A झल् letter present in an अभ्यास is converted either to a जश् letter or a चर् letter as appropriate.
काशिकावृत्तिः
अभ्यासे वर्तमानानां झलां चरादेशो भवति, चकाराज् जश्च। चिखनिषति। चिच्छित्सति। टिठकारयिषति। तिष्ठासति। पिफकारयिषति। बुभूषति। जिघत्सति। ढुढौकिषते। प्रकृतिचरां प्रकृतिचरो भवन्ति। चिचीषति। टिटीकिषते। तितनिषति। प्रकृतिजशां प्रकृतिजशो भवन्ति। जिजनिषते। बुबुधे। ददौ। डिड्ये।
चकारेण चश्ग्रहणमनुवत्र्तते, तेनोत्तरत्र तदनुवृत्तिर्न भवति। `चिखनिषति` ति। खनतेः सन्, द्विर्वचनम्, हलरादिशेषः, `कुहोश्चुः` 7|4|62 इति चुत्वम्--छकारः, तस्थानेन चकारः। `चित्छित्सति`[`चिच्छित्सति`--का।प्रांउ।पाठो] इति। छिदेः सन्, द्विर्वचनम्, `छे च` 6|1|71 इति तुक्, चुत्वम्। `ठिठकारयिषति` इति। ठकारमाचष्ट इति `तत्करोति तदाचष्टे` (धा।200, 201) इति णिच्, इष्ठवद्भावाट्टिलोपः, सन्, इट्, गुणः, अयादेशः। `तिष्ठाससि` इति। `शर्पूर्वाः खयः` 7|4|61 शेषः। `पिफकारयिषति` इचि। `टिठकारयिषतीत्यनेन तुल्यसाधनम्। अयं तु विशेषः--फकारशब्दाण्णिच्। `प्रकृतिचरा प्रकृतिचरो भवन्ति` इति। जश्त्वबाधनार्थम्` पर्जन्यवल्लक्षण (व्या।प।83) प्रवृत्त्या प्रकृतिरूपाश्चरः प्रकृतिचरः स्थानिनाऽभिन्नरूपा इत्यर्थः। `चिचीषति` इति। `अज्झनगमां सनि` 6|4|16 इति दीर्घः। `तितीर्षति`[न स्तः--काशिकायाम्] इति। `ऋत इद्धातोः` 7|1|100 इतीत्त्वं रपरत्वं च, `हलि च` 8|2|77 इति दीर्घः। `जिझकारयिषति` [न स्तः--काशिकायाम्] इति। टिठकारयिधतीत्यनेन तुल्यसाधनम्। अत्र झकारशब्दाण्णिजि विशेषः। `जिघत्सति` इति। अदेः सन्, `लुङसनोर्घस्लृ` 2|4|37 इति धस्लादेशः पूर्ववदभ्यासस्य चुत्वम्--झकारः, तस्य जश्त्वम्--जकारः, `सः स्यार्धधातुके` 7|4|49 इति सकारस्य तकारः। `डुढौकिषते` इति। ढौकतेः सन्। `प्रकृतिजशां प्रकृतिजशो भवन्ति` इति। चर्वाधनार्थं पूर्ववत्? प्रकृत्या स्थानिनाऽभिन्नरूपा जशः प्रकृतिजशः। `जिजनिषते` इति। `पूर्ववत्? सनः` 1|3|62 इत्यात्मनेपदम्। `बुबुधे` इति। अनुदात्तेत्त्वादात्मनेपदम्, `लिटस्तझयोरेशिरेच्` 3|4|81 इत्येश्। `ददौ` इति। `आत औ णलः` 7|1|34 इत्यौत्त्वम्। `डिडए इति। `डीङ्? विहायसा गतौ` (धातुपाठः-968), पूर्ववदेशादेशः, स्थानिवद्भावड्डीत्यस्य द्विर्वचनम्॥
चिखनिषतीति । खनेः सन्, द्विर्वचनम्, ठ्कुहोश्चःऽ इति चुत्वम्---च्छकारः, तस्य चर्त्वम्---चकारः । टिठकारयिषतीति । ठकारमाचष्ट इति णिच्, टिलोपः, सन्, ठकारस्य टकारः । तिष्ठासतीति । ठ्शूर्पूर्वाः खयःऽ इति थकारस्य शेषः, तस्य चर्त्वं तकारः । प्रकृतिश्चां प्रकृतिचर इति । जश्त्वबाधनार्थं पर्जन्यवल्लक्षणप्रवृत्या प्रकृतिरूपाश्चरः स्थानिनाऽभिन्नरूपा भवन्तीत्यर्थः । एतच्चान्तरतमपरिभाषया लभ्यते । प्रकृतिजशां प्रकृतिजश इति । व्याख्यातम् । डिड।ल् इति । डीङे लिटि द्विर्वचने ठेरनेकाचःऽ इति यण् ॥
सिद्धान्तकौमुदी
अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः खयां चरः । तत्रापि प्रकृतिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेक आन्तरतम्यात् ॥
अभ्यासे चर्च्च - भ भूव् अ इति स्थिते — अभ्यासे चर्च ।झलां जश् झशी॑त्यस्माज्झलामित्यनुवर्तते । चकारेण जश् समुच्चीयते । तदाह — अभ्यासे झलामित्यादिन । झलश्चतुर्विंशतिः । तत्र शषसाः — शरः । तेषामभ्यासे लोपो वक्ष्यते — "शर्पूर्वाः खय" इति । हकारस्य त्वभ्यासे "कुहोश्चु" रिति चुत्वं वक्ष्यते । एवं च झल्षु झयो विंशतिरिहाऽभ्यासगताः स्थानिनो लभ्यन्ते । तेषां मध्ये कस्य चरः, कस्य जश इत्याशङ्कायामाह — झशां जश इति । वर्गाणां तृतीयचतुर्था झशः । तेषां जशः जबगडदा इत्यर्थः । यद्यद्वर्ग्याः स्थानिनस्तत्तद्वग्र्या आदेशा इत्यपि बोध्यम् । खयां चर इति । वर्गाणां प्रथमद्वितीयाः खयः, तेषां चरः चटकतपा इत्यर्थः । अत्रापि यद्यद्वर्ग्याः स्थानिनस्तत्तद्वग्र्या आदेशा इत्यपि बोध्यम् । तत्रापीति । तेष्वपि वर्ग्येषु प्रकृत्या = स्वभावेन जशामेव सतां प्कृत्या स्वभावेन जश एव सन्तस्तत्तद्वग्र्या आदेशाः स्युः । एवं प्रकृत्या स्वभावेन चरामेव सतां प्रकृत्या स्वभावेन चर एव सन्तस्तत्तद्वग्र्या आदेशाः स्युरित्यर्थः । पर्जन्यवल्लक्षणप्रवृत्तेरिति भावः । कुत इयं व्यवस्थेत्यत आह — आन्तरतम्यात् । झशां जशां च घोषसंवारनादप्रयत्नसाम्यम् । खयां चरां च आआसाऽघोषविवारप्रयत्नसाम्यम् । तत्तद्वग्र्याणां तत्तद्वग्र्या आदेशा इत्यत्र तु स्थानसाम्यं नियामकं बोध्यम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
अभ्यासे झलां चरः स्युर्जशश्च। झशां जशः खयां चर इति विवेकः। बभूव। बभुवतुः। बभूवुः॥
महाभाष्यम्
अभ्यासे चर्च प्रकृतिचरां प्रकृतिचरो भवन्ति। चिचीषति। प्रकृतिजशां प्रकृतिजशश्च भवन्ति। जिजनिषति। बुबुधे। ददौ।। (अभ्यासे चर्च)।।