Page loading... Please wait.
8|4|52 - दीर्घादाचार्याणाम्
॥ तस्मै पाणिनये नमः ॥
8|4|52
SK 58
दीर्घादाचार्याणाम्   🔊
सूत्रच्छेदः
दीर्घात् (पञ्चम्येकवचनम्) , आचार्याणाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
यरः  8|4|45 (षष्ठ्येकवचनम्) , द्वे  8|4|46 (प्रथमाद्विवचनम्) , न  8|4|49 (अव्ययम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
दीर्घात् यरः द्वित्वम् न - आचार्याणाम्
सूत्रार्थः
आचार्याणाम् मतेन दीर्घवर्णात् परस्य यर्-वर्णस्य द्वित्वं न भवति ।
अष्टाध्याय्याम् यर्-वर्णस्य अचो रहाभ्यां द्वे 8|4|46 तथा अनचि च 8|4|47 इत्यनेन द्वित्वम् पाठितम् अस्ति । एतयोः सूत्रयोः निर्दिष्टं द्वित्वम् अनेकैः आचार्यैः मतेन दीर्घात्-परस्य यर्-वर्णस्य न भवति ।

यथा -
1. "पात्रम्" इत्यत्र अनचि च 8|4|47 इत्यनेन तकारस्य विहितम् द्वित्वम् वर्तमानसूत्रेण निषिध्यते ।
2. "कार्यम्" इत्यत्र अचो रहाभ्यां द्वे 8|4|46 इत्यनेन यकारस्य विहितम् द्वित्वम् वर्तमानसूत्रेण निषिध्यते ।

ज्ञातव्यम् -
1. अत्र पाणिनिः "केषाञ्चन" आचार्याणाम् मतेन दीर्घात् परस्य यर्-वर्णस्य द्वित्वम् न भवति इति वदति । इत्युक्ते, दीर्घात् परस्य यर्-वर्णस्य द्वित्वम् विकल्पेन भवति इति अर्थः स्वीकरणीयः ।

2. अयम् द्वित्वनिषेधः केवलं यर्-वर्णस्य द्वित्वप्रकरणस्य विषये अस्ति । षष्ठाध्यायस्य प्रथमपादे निर्दिष्टं द्वित्वम् अनेन न निषिध्यते, यतः इदम् सूत्रम् षष्ठाध्यायस्य प्रथमपादस्य सूत्रार्थम् असिद्धम् अस्ति ।

3. अचो रहाभ्यां द्वे 8|4|46 तथा अनचि च 8|4|47 अनयोः सूत्रयोः मूलरूपेण वैकल्पिकम् द्वित्वम् एव पाठ्यते । अतः वर्तमानसूत्रस्य प्रयोजनमेव नास्ति इति केचन पण्डिताः वदन्ति । केचन अन्ये वैयाकरणाः तु अस्य सूत्रस्य निर्देशसामर्थ्यात् अचो रहाभ्यां द्वे 8|4|46 तथा अनचि च 8|4|47 अनयोः सूत्रयोः "वा" शब्दस्य अनुवृत्तिः न स्वीकरणीया इति मन्यन्ते ।
One-line meaning in English
According to various experts, a यर्-letter following a दीर्घ letter does not undergo द्वित्वम्.
काशिकावृत्तिः
दीर्घादुत्तरस्य आचार्याणां मतेन न द्वित्वं भवति। दात्रम्। पात्रम्। मूत्रम्। सूत्रम्।
नित्यार्थोऽयमारम्भः। अत्रारम्भसामथ्र्यादेव सिद्ध आचार्यग्रहणं पूजार्थ। दातद्रमित्यादौ `अनचि च` 8|4|46 इति प्राप्तिः॥
दात्रमित्यादौ ठनचि चऽ इति प्राप्तिः ॥
सिद्धान्तकौमुदी
द्वित्वं न । दात्रम् । पात्रम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.