Page loading... Please wait.
8|4|48 - नादिन्याक्रोशे पुत्रस्य
॥ तस्मै पाणिनये नमः ॥
8|4|48
SK 55
नादिन्याक्रोशे पुत्रस्य   🔊
सूत्रच्छेदः
(अव्ययम्) , आदिनी (लुप्तसप्तम्यन्तनिर्देशः) आक्रोशे (सप्तम्येकवचनम्) , पुत्रस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
यरः  8|4|45 (षष्ठ्येकवचनम्) , द्वे  8|4|46 (प्रथमाद्विवचनम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
पुत्रस्य यरः द्वे न आदिन्याम् आक्रोशे
सूत्रार्थः
"पुत्रादिनी" शब्दस्य तकारस्य आक्रोशे गम्यमाने (अस्मिन् द्वित्वप्रकरणे) द्वित्वम् न भवति ।
अष्टाध्याय्याम् यर्-वर्णस्य अचो रहाभ्यां द्वे 8|4|46 तथा अनचि च 8|4|47 इत्यनेन द्वित्वम् पाठितम् अस्ति । एतयोः सूत्रयोः उक्तस्य द्वित्वस्य निषेधः अनेन सूत्रेण कासुचन अवस्थासु क्रियते ।

"पुत्र" अस्मिन् शब्दे "त् + र्" अयं संयोगः अस्ति । अस्याम् स्थितौ अनचि च 8|4|47 इत्यनेन वस्तुतः तकारस्य द्वित्वम् विधीयते, येन "पुत्त्रः" अयमपि शब्दः सिद्ध्यति । परन्तु, "पुत्रादिनी" (= "पुत्रम् खादति / अत्ति सा" इत्यर्थः) अस्य शब्दस्य प्रयोगः यदि आक्रोशे (इत्युक्ते क्रोेधं दर्शयुतुम्) क्रियते, तर्हि अस्य शब्दस्य "त्र" इत्यस्य द्वित्वम् न भवति । यथा - "पुत्रादिनी त्वमसि पापे!"

यदि अयं शब्दः "आक्रोशे" (= क्रोधेन / उच्चस्वरेण) न प्रयुज्यते, तर्हि द्वित्वस्य निषेधः न भवति । यथा - पुत्त्रादीनि सर्पिणि, पुत्रादीनी सर्पिणी । अत्र "पुत्रादीनी" शब्देन केवलं तत्वकथनम् कृतम् अस्ति, आक्रोशः न ।

अस्य सूत्रस्य विषये वार्त्तिकत्रयं ज्ञातव्यम् -
1. तत्परे च इति वक्तव्यम् । "तत्परे" इत्युक्ते तस्मिन् परे । इत्युक्ते, "पुत्रादिनी" शब्दे परे अपि (आक्रोशे) पुत्र-शब्दस्य द्वित्वं न भवति । यथा - पुत्रपुत्रादिनी त्वमसि पापे !

2. वा हतजग्धयोः इति वक्तव्यम् । पुत्र-शब्दात् अनन्तरम् हत-शब्दरूपम् / जग्ध-शब्दरूपम् आगच्छति चेत् विकल्पेन द्वित्वम् भवति । यथा - पुत्रहती, पुत्त्रहती, पुत्रजग्धी, पुत्त्रजग्धी ।

3. (एतत् तृतीयम् वार्त्तिकम् अस्य सूत्रस्य विषये नास्ति, परन्तु महाभाष्ये आचार्यः एतत् वार्तिकम् अत्र एव कथयति -) चयः द्वितीयाः शरि पौष्करसादेः इति वाच्यम् । इत्युक्ते, "पौष्करसादि" नाम्नः आचार्यस्य मतेन चय्-वर्णात् (= वर्गप्रथमवर्णात्) अनन्तरम् यदि शर्-वर्णः आगच्छति, तर्हितस्य वर्गप्रथमस्य स्थाने वर्गद्वितीयः वर्णः आदेशरूपेण आगच्छति । यथा - तत् + सह = तथ् + सह । अयम् आदेशः केवलं पौष्करसादेः मतेन भवति, अतः विकल्पेन भवति इत्यर्थः । वेदेषु बहुत्र एतादृशः वर्गद्वितीयादेशः कृतः दृश्यते । निर्देशसामर्थ्यात् अस्य अग्रे जश्त्वम् न भवति इति स्मर्तव्यम् ।
अन्यानि कानिचन उदाहरणानिः अप्सरा → अफ्सरा । क्षीरम् → ख्षीरम् । वत्सः → वथ्सः ।


ज्ञातव्यम् -
1. अस्मिन् सूत्रे प्रयुक्तः "आक्रोशे" शब्दः परनिमित्तम् नास्ति । "आक्रोशस्य स्थितौ" इति अस्य अर्थः ।

2. अनचि च 8|4|67 इत्यनेन वस्तुतः द्वित्वम् सर्वत्र वैकल्पिकम् अस्ति । परन्तु प्रायः कात्यायनस्य काले अनचि च 8|4|67 सूत्रेण निर्दिष्टम् द्वित्वम् नित्यम् स्यात् । अतएव सः पुत्रहती / पुत्रजग्धी, एतयोर्विषये "वा" इति विकल्पं ददाति ।

3. अस्य सूत्रस्य प्रयोगः अचो रहाभ्यां द्वे 8|4|46 तथा अनचि च 8|4|47 एताभ्याम् कृतस्य द्वित्वस्य विषये एव करणीयः एतत् ज्ञातव्यम् । षष्ठाध्यायस्य प्रथमपादे निर्दिष्टं द्वित्वम् अनेन न निषिध्यते, यतः इदम् सूत्रम् षष्ठाध्यायस्य प्रथमपादस्य सूत्रार्थम् असिद्धम् अस्ति ।
One-line meaning in English
The तकार of the word पुत्रादिनी does not get a द्वित्व when this word is used while shouting / while talking in angry tone.
काशिकावृत्तिः
आदिनि परतः आक्रोशे गम्यमाने पुत्रशब्दस्य न द्व भवतः। अनचि च 8|4|47 इति प्राप्तिः प्रतिषिध्यते। पुत्रादिनीत्वम् असि पापे। आक्रोशे इति किम्? तत्त्वकथने द्विर्वचनं भवत्येव, पुअत्रानत्ति इति पुत्त्रादिनी। शिशुमारी व्याघ्री। तत्परे चेति वक्तव्यम्। पुत्रपुत्रादिनी त्वमसि पापे। वा हतजग्धपर इति वक्तव्यम्। पुत्त्रहती, पुत्रहति। पुत्त्रजग्धी, पुत्रजग्धी। चयो द्वितीयाः शरि पौष्करसादेः। चयो द्वितीया भवन्ति शरि परतः पौष्करसादेराचार्यस्य मतेन। तकारस्य थकारः वथ्सः। ककारस्य खकारः ख्षीरम्। पकारस्य फकारः अफ्सराः।
आदिनीति [मुद्रित काशिकायां तथा पदमञ्जर्यां च `आदिनी` शब्दो ङीबन्तो गृहीतः] परसप्तमीयम्। अत आह--`आदिनि परतः` इति। `पुत्रादिनी` इति। पुत्रावत्तुं शीलमस्या इति ताच्छीस्ये णिनिः। `पुत्त्रादिनी, सिशुमारी` इति। तत्त्वख्यानमेतत्, नाक्रोशः। `तत्परे चेति यक्तव्यम्` (इति)। स आदिनिशब्दः परो यस्मात्? पुत्रशब्दात्? तत्र द्विर्वचनं न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--नेति योग विभागः क्रियते, तेन तत्परे न भविषयतीति। `वा हत` इत्यादि। हतजग्धशब्दयोः परतः पुत्त्रस्य या द्विर्वचनं न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु वागद्रहणमनुवर्त्त्यं, नेति योगविभागकरणमाश्रित्य वा कत्र्तव्यम्। न चैवं पुत्त्रादिनीत्यत्रापि विकल्पः प्रसक्तः। व्यवस्थितविभाषाविज्ञानात्। हतञ्च जग्धञ्च तत्? हतजग्धम्, हतजग्धञ्च तत्? परञ्चेति हतजग्धपरम्, तस्मिन्? हतजग्धपरे। `पुत्रहती, पुत्रजग्धी` इति। पुत्रो हतः, पुत्रो जग्धोऽनयेत बहुव्रीहिः, `अस्वाङ्गपूर्वपदात्` 4|1|53 इत्यादिना ङीष्। `चयो द्वितीयाः` इत्यादि। चय इति स्थानषष्ठी, खछठचफा इति द्वितीया इत्यस्यार्थः। द्वितीयत्वमेषां वर्णानां प्रथमवर्णापेक्षया भवति। `वप्सः` इति। तकारस्य चयः सकारे शरि परतो द्वितीयस्थकारः। `ख्षीरम्` इति। ककारस्य चयः वकारे शरि परतो द्वितौयः सकारः। `अफ्सराः` इति। पकारस्य चयः सकारे शरि परतो द्वितीयः फकारः॥
पुत्रादिनीति । ताच्छील्ये णिनिः । तत्परे चेति । स आदिनीशब्दो यस्मात्परस्तत्रापि परतः पुत्रशब्दस्य द्विर्वचनं न भवति---पुत्राश्च पौत्राश्च पुत्रपौत्राः, तानतुं शीलमस्याः पुत्रपौत्रादिनी । अन्ये तु ठ्तत्परे पुत्रशब्देऽ इति व्याचक्षाणाः पुत्रपुत्रादिनीत्युदाहरन्ति, तत्र पुत्रस्य पुत्रमतीति विग्रहः । वा हतजग्धपर इति । हतजग्धं च तत्परं चेति विशेषणसमासः, राजदन्तादित्वात् परशब्दस्य परनिपातः । पुत्रहतीति । पुत्रो हतोऽनयेति बहुव्रीहिः, ठस्वाङ्गपूर्वपदाद्वाऽ इति ङीष् । खयो द्वितीया इति । ठ्खयःऽ इति षष्ठी । द्वितीया इति । वर्गेषु खकारादयः ॥
सिद्धान्तकौमुदी
पुत्रशब्दस्य न द्वे स्त आदिनीशब्दे परे आक्रोशे गम्यमाने । पुत्रादिनी त्वमसि पापे । आक्रोशे किम् । तत्वकथने द्विर्वचनं भवत्येव । पुत्रादिनी सर्पिणी ॥ ।तत्परे च (वार्तिकम्) ॥ पुत्रादिनी त्वमसि पापे ॥वा हतजग्धयोः (वार्तिकम्) ॥ पुत्रहती । पुत्त्रहती । पुत्रजग्धी । पुत्त्रजग्धी ॥
नादिन्याक्रोशे पुत्रस्य - नादिन्याक्रोशे । "द्वे" इत्यनुवर्तते । "यर" इति च । आक्रोशो निन्दा । आदिनीति ङ्यन्तं लुप्तसप्तमीकम् । आदिनीशब्दे परे पुत्रशब्दस्यावयवो यो यर् तकारस्तस्य न द्वित्वम्, आक्रोशे गम्ये इत्यर्थः । तदाह-पूत्रशब्दस्येत्यादिना । पुत्रशब्दस्यावयवस्येत्यर्थः । पुत्रादिनी त्वमसि पाषे इति । पुत्रानत्तुं शीलमस्याः पुत्रादिनी । "सुप्यजातौ" इति णिनिः । "ऋन्नेभ्य" इति ङीष् । हे पापे । त्वं पुत्रादिनीत्यन्वयः । पुत्रघातिनीत्यर्थः । ईदृशाक्रोशस्य प्रायेण स्त्रीष्वेव सम्भवात् सूत्रे आदिनीति ङ्यन्तमेव विवक्षितमिति हरदत्तः । माधवोऽप्येवम् । अत्र उकारात्परस्य तकारस्याऽनचि चेति प्राप्तं द्वित्वं निषिध्यते । रेफस्य तु न क्वापि द्वित्वप्रसक्तिरित्यनुपदमेव वक्ष्यते । आक्रोशे किमिति । आक्रोशे इत्यस्य किं प्रयोजनमित्यर्थः ।किं पृच्छायां जुगुप्सने॑ इत्यव्ययवर्गेऽमरः । एवमुत्तरत्राप्येवञ्जातीयकेषु द्रष्टव्यम् । तत्त्वकथन इति । यस्याः पुत्राः स्वयमेव म्रियन्ते तां प्रति पुत्रादिनीति वस्तुस्थितिकथने तु न द्वित्वनिषेधः, तत्र निन्दाया अप्रतीतेरित्यर्थः । तत्परे च । वार्तिकमेतत् । स आदिनीशब्दः परो यस्मात्स तत्परः । आदिनीशब्दपरके पुत्रशब्दे च परे पुत्रशब्दावयवस्य यरो न द्वित्वमित्यर्थः । पुत्रपुत्रादिनी त्वमिति । पुत्रस्य पुत्रानत्तीति विग्रहः । अत्र पूर्वस्य पुत्रशब्दस्य आदिनीशब्दः परो न भवति, द्वितीयपुत्रशब्देन व्यवधानात् । अतः पूर्वसूत्रेणाऽप्राप्ते द्वित्वनिषेधे इदमारब्धम् । वा हतजग्धयोः । हतशब्दे जग्धशब्दे च परे पुत्रशब्दावयवस्य यरो द्वित्वं वा स्यादित्यर्थः । पुत्रहतीति । तकारद्वित्वे रूपम् । पुत्रो हतो ययेति विग्रहः ।अस्वाङ्गपूर्वपदा॑दिति ङीषिति केचित् । वस्तुतस्तु जातिपूर्वादित्यस्य तत्रानुवृत्तेर्गौरादित्वान्ङीषिति युक्तम् । पुत्रघातसाहसस्य स्त्रीष्वेव सम्भवात्स्त्रीलिङ्गमेवोदाह्मतम् । पुत्रहतीति । द्वित्वाऽभावे रूपम् । एवं पुत्रजग्धी पुत्रजग्धीति । अनचि चेति द्वित्वविकल्पे सिद्धे पुत्रशब्दस्य क्तान्ते चेद्धतजग्धयोरेव आक्रोश एवेति नियमार्थमिदं वार्तिकमित्याहुः ।
नादिन्याक्रोशे पुत्रस्य - नादिन्या । स्त्रीष्वाक्रोशः प्रायेण प्रवर्तत इति स्त्रीलिङ्गमुदाहरति-पुत्रादिनीति । इहसुप्यजातौ-॑ इति णिनिः । तत्परे चेति । आदिनि यः पुत्रशब्दस्तस्मिन् परेऽपि पुत्रशब्दस्य न द्वे स्त इत्यर्थः ।वा हतेति । द्वित्वस्य वैकल्पिकत्वे वार्तिकमिदं नारम्भणीयमित्येक । अन्ये तु-हतजग्धयोः परतः पुत्रशब्दस्यैवअनचि चे॑ति द्वित्वं नान्येषामित्यादिनियमसंभवात्तदर्थमारम्भणीयमेवेदमित्याहुः । पुत्रहतीति । पुत्रो हतो यया सा ।अस्वाङ्गपूर्वपदाद्वे॑ति ङीष् । एवं पुत्रो जग्धो यया सा पुत्रजग्धी ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
नादिन्याक्रोशे पुत्रस्य ।।नादिन्याक्रोशे पुत्रस्येति तत्परे च।। नादिन्याक्रोशे पुत्रस्येत्यत्र तत्परे चेति वक्तव्यम्। पुत्रपुत्रादिनि(1)।। वा हतजग्धपरे च।। वा हतजग्धपरे इति वक्तव्यम्। पुत्रहती। पुत्र्रहती। पुत्रजग्धी। पुत्र्रजग्धी। ।। चयो द्वितीयाः शरि पौष्करसादेः।। चयो द्वितीया भवन्ति शरि परतः पौष्करसादेराचार्यस्य मतेन। वथ्सः(2)। ख्षीरम्(3)। अफ्सराः।(नदिन्याक्रोशे पुत्रस्य)