Page loading... Please wait.
8|4|47 - अनचि च
॥ तस्मै पाणिनये नमः ॥
8|4|47
SK 48
अनचि च   🔊
सूत्रच्छेदः
अनचि (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
वा  8|4|45 (अव्ययम्) , यरः  8|4|45 (षष्ठ्येकवचनम्) , द्वे  8|4|46 (प्रथमाद्विवचनम्) , अचः  8|4|46 (पञ्चम्येकवचनम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
अचः यरः अनचि द्वे वा संहितायाम्
सूत्रार्थः
अचः परस्य यरः अनचि परे विकल्पेन द्वित्वं भवति ।
"अनच्" इत्युक्ते "न अच्" । स्वरात् परस्य यर्-वर्णस्य अग्रे स्वरः नास्ति चेत् विकल्पेन द्वित्वं भवति इत्यर्थः । यथा -

1) "कृष्णः" इत्यत्र ऋकारात् परः यर्-वर्णः षकारः अस्ति । तस्मात् परः स्वरः नास्ति, अतः षकारस्य अनेन सूत्रेण विकल्पेन द्वित्वं भवितुं शक्यते । यथा - कृष्ष्णः ।
2) "मति + अत्र" अस्मिन् यण्-सन्धौ इकारस्य यणादेशे कृते "मत्य् + अत्र" इति स्थिते अनेन सूत्रेण तकारस्य विकल्पेन द्वित्वं कृत्वा "मत्यत्र, मत्त्यत्र" एते द्वे रूपे सिद्ध्यतः ।

अत्र वार्त्तिकत्रयम् ज्ञातव्यम् -
1) यणो मयो द्वे वाच्ये । अस्य वार्त्तिकस्य अर्थद्वयम् भवति -
अ) (यणः इति पञ्चमी, मयः इति षष्ठी इति स्वीकृत्य) - यण्-वर्णात् परस्य मय्-वर्णस्य विकल्पेन द्वित्वं भवति । यथा - उल्क्का, वाल्म्मिकी ।
ब) (यणः इति षष्ठी , मयः इति पञ्चमी इति स्वीकृत्य) - मय्-वर्णात् परस्य यण्-वर्णस्य विकल्पेन द्वित्वं भवति । यथा - दध्य्यत्र, मध्व्वत्र ।

2) शरः खयः द्वे वाच्ये । अस्यापि वार्त्तिकस्य अर्थद्वयम् भवति -
अ) (शरः इति पञ्चमी, खयः इति षष्ठी इति स्वीकृत्य) - शर्-वर्णात् परस्य खय्-वर्णस्य विकल्पेन द्वित्वं भवति । यथा - स्थ्थाली, स्थ्थाता ।
ब) (शरः इति षष्ठी , खयः इति पञ्चमी इति स्वीकृत्य) - खय्-वर्णात् परस्य शर्-वर्णस्य विकल्पेन द्वित्वं भवति । यथा - क्ष्षीरम्, अप्स्सरा ।

3) अवसाने च - अवसाने परे हल्-वर्णस्य विकल्पेन द्वित्वम् भवति । यथा - रामात्, रामात्त् ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे निर्दिष्टः स्थानी "यर्" वर्णः अस्ति । यर्-प्रत्याहारे हकारम् विहाय अन्यानि सर्वाणि व्यञ्जनानि समावेश्यन्ते । अतः हकारस्य अनेन सूत्रेण द्वित्वं न विधीयते ।

2. यर्-प्रत्याहारे वस्तुतः रेफः समाविष्टः अस्ति, परन्तु अचो रहाभ्यां द्वे 8|4|46 अचः परः रेफः आगच्छति चेत् तस्मात् परस्य यर्-वर्णस्य द्वित्वं भवति । अतः अचः परस्य रेफस्य अपि अनेन सूत्रेण द्वित्वं न विधीयते ।

3. एकस्य वर्णस्य स्थाने यदा वर्णद्वयं विधीयते, तदा द्वित्वं भवति इति उच्यते । तत्र कोऽपि वर्णः "पूर्ववर्णः" तथा कोऽपि वर्णः "अनन्तरम् आगतः" नास्ति । अतः द्वित्वे कृते "नूतनरूपेण प्रवर्तितः वर्णः कः" तथा "पूर्वं विद्यमानः वर्णः कः" इति प्रश्नः एव अयुक्तः अस्ति । द्वित्व is a process where one letter is replaced by its two occurrences. Both the occurrences are considered identical in all respects, and it is not correct to treat one of these two as "original" and other as a "copy". There is no rule in Ashtadhyayi that needs such a distinction, and the reason for that is that such a distinction simply does not exist.

4. "कृष्ष्ण" इत्यत्र पुनः अनचि च 8|4|47 इत्यनेन षकारस्य द्वित्वं कर्तुम् शक्यते वा? एवं कुर्मश्चेत् अनन्तकालयावत् द्वित्त्वमेव भवेत् इति दोषः उद्भवति । अस्य परिहारार्थम् लक्ष्ये लक्षं सकृदेव प्रवर्तते अस्याः परिभाषायाः प्रयोगः क्रियते । "लक्ष्य" इत्युक्ते स्थानी । "लक्ष" इत्युक्ते सूत्रम् । "सकृतम्" इत्युक्ते एकवारम् । अतः अनया परिभाषया एतत् ज्ञायते, यत् एकस्मिन् स्थले (इत्युक्ते एकस्य स्थानिनः विषये) कस्यचन सूत्रस्य एकवारमेव प्रयोगः भवितुम् अर्हति । अतःअनचि च 8|4|47 इत्यनेन एकवारं द्वित्वं भवति चेत् पुनः तस्मिन् एव स्थानिनि अनेन सूत्रेण द्वित्वं न भवति ।
One-line meaning in English
The यर् letter that (a) follows an अच् letter and (b) is not followed by an अच् letter is optionally doubled.
काशिकावृत्तिः
अचः इति वर्तते, यरः इति च। अनच्परस्य अच उत्तरस्य यरो द्वे वा भवतः। दद्ध्यत्र। मद्ध्वत्र। अचः इत्येव, स्मितम्। ध्मातम्। यणो मयो द्वे भवत इति वक्तव्यम्। केचिदत्र यणः इति पञ्चमी, मयः इति षष्ठी इति व्याचक्षते। तेषाम् उल्क्का, वल्म्मीकः इत्युदाहरणम्। अपरे तु मयः इति पञ्चमी, यणः इति षष्ठी इति। तेषाम् दध्य्यत्र, मध्व्वत्र इत्युदाहरणम्। शरः खयो द्वे भवत इति वक्तव्यम्। अत्र अपि यदि शरः इति पञ्चमी, खयः इति षष्ठी, तदा स्त्थाली, स्त्थाता इति उदाहरणम्। अथवा खय उत्तरस्य शरो द्वे भवतः। वत्स्सः। इक्ष्षुः। क्ष्षीरम्। अप्स्सराः। अवसाने च यरो द्वे भवत इति वक्तव्यम्। वाक्क, वाक्। त्वक्क्, त्वक्। षट्ट्, षट्। तत्त्, तत्।
`अनच्परस्य` इति। अचोऽन्योऽनच्, अनच्? परो यस्मात्? सोऽयमनच्परः। `दद्ध्यत्र` इति। अत्राचः परो धकारो यर्, तस्यानचि यकारे परतो द्विर्वचनम्। `झलां जश्? झशि` (8।453) इति धकारस्य दकारः। `मद्ध्वत्र` इति। अत्रानच्परस्य धकार्सय द्वर्वचनम्। `यणो मयः` इत्यादि। अच उत्तरलस्य यरो द्विर्वचनमुक्तम्। अनचि यण उत्तरस्य मयोऽचि परतो न प्राप्नोतीत्युपसंख्यायते। किं पुनरिहोदाहरणम्? इत्याह--`केचित्` इत्यादि। `उत्क्का, वल्म्मौकः` इत्यादि। यकाराद्यन उत्तरस्य ककारस्य मकारस्य च मयो द्विर्वचनम्। `दध्य्यत्र, मध्व्वत्र` इति। धकारान्मय उत्तरस्य यकारस्य च यणो द्विर्वचनम्।`शरः खयः` इत्यादि। `स्त्थालौ, स्त्थाता` इति सकाराच्छर उत्तरस्य खयस्थकारस्य द्विर्वचनम्। `वत्स्सः` इति। तकारात्? खय उत्तरस्य सकगारस्य शरो द्विर्वचनम्। `इक्च्षु_, कष्वीरम्` इति। ककारात्? खय उत्तरस्य खरः षकारस्य द्विर्वचनम्। `अप्स्सराः` इति। पकारात्? खयः परस्य सकारस्य शरो द्विर्वचनम्। `अवसाने द्वे` इत्यादि। `अवचि च` इति पर्युदासाश्रयणादिदमुज्यते। प्रसज्यप्रतिषेधेतु `यनोऽनुनासिकेऽनुनासिको वा` 8|4|44 इत्यतो वाग्रहणमनुवर्त्त्यं शक्यनिदमकर्त्तुम्। नैतत्। प्रसज्यप्रतिषेधे हि विधिवाक्यत्वं सूत्रस्य नोपपद्यते, ततश्च केनचिद्द्विर्वचनं स्यात्? तस्मादेव प्रतिषेध वाक्याद्विधिवाक्यतास्यानृमास्यत इत्यदोवः। प्रसज्यप्रतिषेधे सति प्रतिपत्तदिगौरवभयात्? पर्युदासाश्रयणम्॥
अनच्परस्येति । अचोऽन्योऽनच्, स परो यस्मात्सोऽनच्परः । अनेन पर्युदासो दशितः, किं प्रयोजनम् ? न किञ्चित्, प्रत्युत दोष एव, अवसाने न सिध्यति---वाक्क, अच्सदृशस्य वर्णान्तरस्याभावात्, प्रतिपतिगौरवप्रसङ्गात्पर्युदास आश्रितः । पक्षान्तरे हि विशेषप्रतिषेधात् सामान्येन विधिरनुमेयः स्यादिति गौरवम् । उल्क्का, वल्म्मीक इति । लकारो यण्, ककारमकारौ यमौ । स्त्थालीति सकारः शर, थकारः खय् । वत्स्सादिषु तकारककारपकाराः खयः, सकारषकारौ शरौ । अवसाने इति । पर्युदासाश्रयणादिदमारब्धम् । प्रसज्यप्रतिषेधे तु परस्य निमितस्यानाश्रयणाद् ठ्वाऽ इत्यधिकारात्सिद्धम् ॥
सिद्धान्तकौमुदी
अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वम् ॥
खरि च - केनेत्यत आह — खरि च ।झलाञ्जश्झशी॑त्यतो झलामिति ,अभ्यासे चर्चे॑त्यतश्चरिति चानुवर्तते । तदाह — खरि पर इत्यादिना । इति जकारस्येति । स्थानत आन्तंक्यादिति भावः । ततः छत्वं नतु प्रागुत्यपि बोध्यम् । छत्वस्य चुत्वचर्त्वे प्रत्यसिद्धत्वात् । हलो यमामिति सूत्रस्थभाष्यसंमतसूत्रक्रमे तु चुत्वेन जकारे कृते शस्य छत्वं ततो जकारस्य चत्र्वम् । नतु छत्वात् प्राक् चत्र्वम्, चर्त्वं प्रतिछत्वस्याऽसिद्धत्वात् । तच्छिव इति । स चासौ शिवश्चेति, तस्य शिव इति वा विग्रहः ।चोः कृ॑रिति कुत्वं तु न, श्चुत्वस्याऽसिद्धत्वात् । छत्वममीति ।शश्छोऽटी॑ति सूत्रेऽटीति विहाय अमीति वक्तव्यमित्यर्थः ।शश्छोऽमी॑ति सूत्रं पठनीयमिति यावत् । तच् श्लोकेनेति । स चासौ श्लोकश्च,तस्य श्लोक इति वा विग्रहः । लकारस्य अड्बहिर्भूतत्वात्तत्परकस्य शकारस्य सूत्रपाठतः छत्वे अप्राप्ते वार्तिकमिदम् । वाक्श्च्योततीति । अत्र तु कुत्वं भवत्येव, चकारस्य स्वाभाविकतया श्चुत्वनिष्पन्नत्वाऽभावेन असिद्धत्वाभावात् । अत्र चकारस्य अम्बर्हिर्भूतत्वात्तत्परकशकारस्यात्र न छत्वम् ।
अनचि च - अनचि च । यरो द्वे वेति ।यरोऽनुनासिके॑ इति सूत्राद्यरो वेति चानुवर्तते ।अचो रहाभ्या॑मिति सूत्रादयो द्वे इति च, तदाह-अचः परस्येत्यादि । एवं चात्रवा॑ग्रहणानुवृत्त्यैवेष्टसिद्धेःत्रिप्रभृतिषु शाकटायनस्य॑सर्वत्र शाकल्यस्य॑ दीर्घादाचार्याणा॑मिति च सूत्रत्रयं नारम्भणायमिति भावः । अच इति किम् ,तादात्म्य॑मित्यादौ मस्य द्वित्वं मा भूत् ।अनची॑ति यदि पर्युदासः स्यात्ततोनञिवयुक्तमन्यसदृशे तथा ह्रर्थगति॑रिति न्यायादज्भिन्नेऽच्सदृशे वर्णे हलीत्यर्थः स्यात्, ततो लाघबाद्धलीत्येव वदेत्, तस्मात्प्रसज्यप्रतिषेध इत्याह-न त्वचीति । एवं चाबसानेऽपि द्वित्वं भवति-वाक्क् वाक् ।
लघुसिद्धान्तकौमुदी
अचः परस्य यरो द्वे वा स्तो न त्वचि। इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते॥
महाभाष्यम्
अनचि च ।। द्विर्वचने यणो मयः।। द्विर्वचने यणो मय इति वक्तव्यम्।। किमुदाहरणम्?।। यदि यण इति पञ्चमी मय इति षष्ठी उल्क्का वल्म्मीकमित्युदाहरणम्।। अथ मय इति पञ्चमी यण इति षष्ठी दध्य्यत्र मध्व्यत्रेत्युदाहरणम्?।।शरःखयः।। शरःखय इति वक्तव्यम्।। किमुदाहरणम्?।। यदिशर इति पञ्जमीखयःथ्द्य;ति षष्ठी स्थ्थाली स्थ्थाता इत्युदाहरणम्। अथ खय इति पञ्जमी शर इति षष्ठी स्थ्थाली स्थ्थाता इत्युदाहरणम्। अथ खय इति पञ्चमी शर इति षष्ठी, वत्स्स(र)ः क्ष्षीरम् अपस्सरा इत्युदाहरणम्। ।। अवसाने च।। अवसाने च द्वे भवत इति वक्तव्यम्। वाक्क्। वाक्। त्वक्क् त्वक्। स्रुक्क्स्रुक्।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्।। नायं प्रसज्यप्रतिषेधः-अचि नेति।। किं तर्हि?।। पर्युदासोऽयं यदन्यदच इति।।