Page loading... Please wait.
8|4|45 - यरोऽनुनासिकेऽनुनासिको वा
॥ तस्मै पाणिनये नमः ॥
8|4|45
SK 116
यरोऽनुनासिकेऽनुनासिको वा   🔊
सूत्रच्छेदः
यरः (षष्ठ्येकवचनम्) , अनुनासिके (सप्तम्येकवचनम्) , अनुनासिकः (प्रथमैकवचनम्) , वा (अव्ययम्)
अनुवृत्तिः
पदान्तात्  8|4|42 (षष्ठ्येकवचनम्, "पदस्य" इति विपरिणम्यते)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
पदस्य यरः अनुनासिके अनुनासिकः वा
सूत्रार्थः
पदान्ते विद्यमानस्य यर्-वर्णस्य अनुनासिके परे विकल्पेन अनुनासिकः भवति ।
यर्-प्रत्याहारे हकारं विहाय सर्वाणि व्यञ्जनानि समाविश्यन्ते । अनुनासिकः इत्युक्ते वर्गपञ्चमाः तथा य्ँ, व्ँ, ल्ँ । एतेषु परेषु यर्-वर्णस्य विकल्पेन अनुनासिकादेशः भवति ।

यथा -
1) वाग् + मुखम् = वाङ्मुखम्, वाग्मुखम् । गकारस्य विकल्पेन ङकारादेशः ।
2) पूगात् + ञ्यः = पूगाच् + ञ्यः (स्तोः श्चुना श्चुः 8|4|40 इति श्चुत्वम्) → पुगाञ्ञः । ( पूगाञ्ञ्योऽग्रामणीपूर्वात्‌ 5|3|112 इत्यस्मिन् सूत्रे अस्य प्रयोगः दृश्यते) ।
2) षड् + मुखम् = षण्मुखम्, षड्मुखम् । डकारस्य विकल्पेन णकारादेशः ।
3) एतद् + मुरारि = एतन्मुरारि, एतद्मुरारि । दकारस्य विकल्पेन नकारादेशः ।
4) त्रिष्टुब् + नमति = त्रिष्टुम्नमति, त्रिष्टुब्नमति । बकारस्य विकल्पेन मकारादेशः ।

अत्र एकम् वार्तिकम् ज्ञातव्यम् - यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनं कर्तव्यम् । इत्युक्ते, लौकिकसंस्कते प्रत्यये परे अनेन सूत्रेण अनुनासिकादेशः नित्यं भवति, विकल्पेन न । यथा -
1) "तत् प्रमाणं यस्य तत्" अस्मिन् अर्थे प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5|2|37 अनेन सूत्रेण मात्रच्-प्रत्ययः विधीयते । अस्मिन् परे अनेन वार्तिकेन अनुनासिकादेशः नित्यम् भवति । यथा - तत् + मात्रच् → तन्मात्रम् ।
2) नित्यं वृद्धशरादिभ्यः 4|3|144 अनेन विहितस्य मयट्-प्रत्यये परे अपि अनुनासिकादेशः नित्यं भवति । यथा - चित् + मयम् = चिन्मयम् । वाग् + मयम् = वाङ्मयम् ।

विशेषः - यवादिगणः नाम कश्चन गणः मादुपधायाश्च मतोर्वोऽयवादिभ्यः 8|2|9 अस्मिन् सूत्रे निर्दिष्टः अस्ति । अस्मिन् गणे निर्दिष्टानाम् शब्दानाम् मतुप्-प्रत्यये परे किमपि परिवर्तनम् न भवति । अतः अस्य गणस्य शब्दानाम् विषये अस्य सूत्रस्य प्रसक्तिः न भवति । यथा - ककुद् + मान् = ककुद्मान् । हरित् + मत् = हरित्मय । गरुत् + मान् = गरुत्मान् ।

ज्ञातव्यम् -
1. यद्यपि अत्र यर्-वर्णः स्थानी अस्ति, तथापि यर्-प्रत्याहारे समाविष्टाः सर्वे वर्णाः अत्र स्थानीरूपेण आगन्तुम् न शक्नुवन्ति । यथा, पदान्तग्रहणेन झलां जशोऽन्ते 8|2|39 इति जश्त्वे कृते वर्गीयव्यञ्जनेषु केवलं जश्-वर्णाः एव अत्र भवितुम् अर्हन्ति । तत्रापि पदान्तजकारस्य प्रायः बहुत्र चोः कुः 8|2|30 इति कुत्वम् विधीयते, अतः पदान्तजकारस्य विषये अस्य सूत्रस्य प्रायः प्रसक्तिः न विद्यते । पदान्तशकारस्य व्रश्चभ्रस्ज... 8|2|36 इत्यनेन षत्वे कृते अग्रे झलां जशोऽन्ते 8|2|39 इत्यनेन जश्त्वे डकारः विधीयते, अतः पदान्तशकारषकारयोः विषये अपि अस्य सूत्रस्य प्रसक्तिः नास्ति । पदान्तसकारस्य ससजुषो रुः 8|2|66 इत्यनेन रूत्वं भवति, अतः पदान्तसकारस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः नास्ति ।
2. यद्यपि अस्मिन् सूत्रे "कस्मिन् अपि अनुनासिके वर्णे परे" अनुनासिकादेशः प्रोक्तः अस्ति, तथापि प्रयोेगे अस्य सूत्रस्य प्रयोगः केवलं वर्गीयव्यञ्जनानां विषये एव दृश्यते । यतः, अनुनासिकाः य्ँ, व्ँ, ल्ँ वर्णाः यर्-वर्णात् अनन्तरम् भवितुम् न शक्नुवन्ति । यदा स्वरात् अनन्तरम् अनुस्वारः, तस्मात् अनन्तरम् च य्/व्/ल् वर्णः आगच्छति, तदा एव तेषां निर्माणं भवितुं शक्यते ।
One-line meaning in English
A यर् letter occurring at end of a पद is optionally converted to an अनुनासिक when it is followed by an अनुनासिक.
काशिकावृत्तिः
पदान्तग्रहणम् अनुवर्तते। यरः पदान्तस्य अनुनासिके परतः वा अनुनासिकः आदेशो भवति। वाङ् नयति, वाग्नयति। श्वलिण्नयति, श्वलिङ्नयति। अग्निचिन्नयति, अग्निचिद् नयति। त्रिष्तुम्नयति, त्रिष्टुब् नयति। पदान्तस्य इत्येव, वेद्मि। क्षुभ्नाति। यरो ऽनुनासिके प्रत्यये भाषायां नित्यवचनं कर्तव्यम्। वाङ्मयम्। त्वङ्मयम्। व्यवस्थितविभाषाविज्ञानात् सिद्धम्।
`पदान्तस्य` इत्यनेन `न पदान्ताट्टोरनाम्` 8|4|41 इत्यतः पदान्तग्रहणमनुवत्र्तते, तच्चार्थात्? षष्ठन्ततामनुभवतीति दर्शयति। `वाङ्न्यति` इत्यादावुदाहरणे `झलां जशोऽन्ते` 8|2|39 इति गकारादौ जश्त्वे कृते तस्यानुनासिकः कत्र्तव्यः। `वाङ्मयम्` इति। `नित्यं वृद्धशरादिभ्यः` 4|3|142 इति मयट्। `त्वङ्मयम्` इति। अत्रापि `मयङ्वैतयोः` 4|3|141 इत्यादिना॥
ठ्पदान्तात्ऽ इत्यनुवृतं षष्ठ।ल्न्तं विपरिणम्यते । वाङ्मयमिति । ठ्नित्यं वृद्धशरादिभ्यःऽ इति मयट् ॥
सिद्धान्तकौमुदी
यरः पदान्तस्याऽनुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः । एतद्मुरारिः । स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः ॥ प्रत्यये भाषायां नित्यम् ॥ तन्मात्रम् । चिन्मयम् । कथं तर्हि मदोदग्राः ककुद्मन्त इति । यवादिगणे दकारनिपातनात् ॥
यरोऽनुनासिकेऽनुनासिको वा - यरोऽनुनासिके ।न पदान्ताट्टो॑रित्यतः पदान्तादित्यनुवर्तते, तच्च षष्ठन्ततया विपरिणम्यते, तदाह — यरः पदान्तस्येति ।एतन्मुरारि॑रिति कर्मधारयः । एतद्-मुरारिरिति स्थिते दस्य अनुनासिको नकारः, दन्तस्थानसाम्यात्, स्पृष्टप्रयत्नसाम्याच्च । ननु चतुर्मुख इत्यत्रापि रेफस्य अनुनासिको णकारः स्यात्, रेफसकारयोः स्पृष्टेत्स्पृष्टप्रयत्नभेदेऽपि मूर्घस्थानान्तर्यादित्यत आह — स्थानेति ।एतन्मुरारि॑रित्यादौ स्थानतः प्रयत्नतश्चान्तरतमे स्पर्शे चरितार्थः=लब्धप्रयोजनोऽयमनुनासिकविधिः स्थानमात्रेण आन्तर्यमादाय रेफे न प्रवृत्तिमर्हतीत्यर्थः ।यूनि लब्धे तु युवतिर्जरठे रमते कथ॑मिति न्यायादिति भावः । प्रत्ययेभाषायाम् । वार्तिकमेतत् । भाष्य=लोकिकप्रयोगः । तत्र प्रयत्ने विद्यमाने अनुनासिके परतः प्रागुक्तोऽनुनासिको नित्यं भवतीत्यर्थः । तन्मात्रमिति । तत्-प्रमाणं यस्य तत्तन्मात्रं ।प्रमाणे द्वयसज्दध्नञ्मात्रचः॑ इति मात्रच्प्रत्ययः । चिन्मयमिति ।नित्यं वृद्धशारादिभ्यः॑ इत्यत्रनित्य॑मिति योगविभागात्ताद्रूप्ये मयट् । कथं तहीति । यदि प्रत्यये परे नित्यमनुनासिकः स्यात्तदामदोदग्राः ककुद्मन्त॑ इति कालिदासप्रयोगः कथमित्याक्षेपः । मतुपः प्रत्ययत्वेन तस्मिन् परे दकारस्य अनुनासिकनकारावश्यम्भावादिति भावः । परिहरति — यवादीति । यवादिगणे कुद्मच्छब्दे दकारस्य निर्देशान्न तस्यानुनासिकः । यदि तत्र दकारस्य नकार एव इष्टः स्यात्तर्हि नकारमेव लाघवान्निर्दिशेदिति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
यरोऽनुनासिकेऽनुनासिको वा॥ यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात्। एतन्मुरारिः, एतद् मुरारिः। (प्रत्यये भाषायां नित्यम्)। तन्मात्रम्ँहिन्मयम्॥
महाभाष्यम्
यरोऽनुनासिकेऽनुनासिको वा ।। यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनम्।। यरोऽनुनासिके प्रत्यये भाषायां नित्यमिति च वक्तव्यम्। वाङ्मयम्। त्वङ्मयमिति।।