Page loading... Please wait.
8|4|43 - तोः षि
॥ तस्मै पाणिनये नमः ॥
8|4|43
SK 115
तोः षि   🔊
सूत्रच्छेदः
तोः (षष्ठ्येकवचनम्) , षि (सप्तम्येकवचनम्)
अनुवृत्तिः
 ष्टुः  8|4|41 (प्रथमैकवचनम्) , न      8|4|42 (अव्ययम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
तोः षि ष्टुः न |
सूत्रार्थः
तवर्गस्य षकारे परे ष्टुत्वं न भवति ।
तवर्गीयवर्णात् परः षकारः आगच्छति चेत् ष्टुना ष्टुः 8|4|41 इत्यनेन निर्दिष्टस्य ष्टुत्वस्य अनेन सूत्रेण निषेधः उच्यते ।
यथा - मरुत् + षष्ठः = मरुत्षष्ठः । सन् + षष्ठः = सन्षष्ठः ।
One-line meaning in English
A तवर्ग letter which is followed by a षकार does not undergo ष्टुत्वम्.
काशिकावृत्तिः
न इति वर्तते। तवर्गस्य षकारे यदुक्तं तन् न भवति। अग्निचित्षण्डे। भवान्षण्डे। महान्षण्डे।
`अग्निचित्? षण्डे` इति। `अग्नौ चेः` 3|2|91 इति क्विप्। `सोमसुत्षण्डे` [नास्तीदमुदाहरणं--काशिका] इति। `सोमे सुञः` 3|2|90 इति क्विप्। अत्र `पि` इति सप्तमीनिर्देशात्? पूर्णभूतेन सन्निपातेन भवत्येव ष्टुत्वामिति--पेष्टा, पेष्टुमिति।
ठ्षिऽ इति सप्तमीर्निर्देशात् पूर्वभूतेनापि सन्निपाते भवत्येवलोष्टा, पेष्टेति ॥
सिद्धान्तकौमुदी
तवर्गस्य षकारे परे न ष्टुत्वम् । सन्षष्ठः । झलां जशोऽन्ते (कौमुदी-84) । वागीशः । चिद्रूपम् ॥
तोः षि - तेः षि । ष्टुरिति नेति चानुवर्तते । तदाह — तवर्गस्येति । सन्षष्ठ इति । अत्र नकारस्य षकारयोगात् टुत्वं प्राप्तं निषिध्यते । अस्मादेव ज्ञापकात् ष्टुना ष्टुरित्यत्र ष्टुना योगे इत्यत्र यथासंख्यं नेति विज्ञायते । "झलाञ्जशोऽन्ते" इत्यच्सन्धिनिरूपणे प्रसङ्गादुपन्यस्तम् । हल्सन्धिप्रस्तावे पुनस्तदुपन्यासः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
न ष्टुत्वम्। सन्षष्ठः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.