Page loading... Please wait.
8|4|42 - न पदान्ताट्टोरनाम्
॥ तस्मै पाणिनये नमः ॥
8|4|42
SK 114
न पदान्ताट्टोरनाम्   🔊
सूत्रच्छेदः
(अव्ययम्) , पदान्तात् (पञ्चम्येकवचनम्) , टोः (पञ्चम्येकवचनम्) , अनाम् (लुप्तषष्ठ्यन्तनिर्देशः)
अनुवृत्तिः
स्तोः  8|4|40 (षष्ठ्येकवचनम्) , ष्टुः  8|4|41 (प्रथमैकवचनम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
पदान्तात् टोः अनाम् स्तोः ष्टुः न |
सूत्रार्थः
पदान्तटवर्गात् परस्य सकारतवर्गयोः ष्टुत्वं न भवति । "नाम्" शब्दे परे तु भवत्येव ।
ष्टुना ष्टुः 8|4|40 इत्यनेन निर्दिष्टम् ष्टुत्वम् पदान्तटवर्गीयवर्णात् परस्य सकारस्य विषये तवर्गीयवर्णस्य विषये च न भवति इत्यर्थः ।
यथा - षड् + सन्तः = षट्सन्तः । षड् + तरन्ति = षट्तरन्ति । अत्र केवलं खरि च 8|4|55 इति चर्त्वम् विधीयते, ष्टुत्वं न ।

परन्तु टवर्गात् परस्य "नाम" शब्दस्य ष्टुत्वम् भवत्येव । यथा, षष्-शब्दस्य षष्ठी-बहुवचनस्य रूपम् एवम् सिद्ध्यति -

षष् + आम् [षष्ठीबहुवचनस्य प्रत्ययः]
→ षष् + नुट् + आम् [षट्चतुर्भ्यश्च 7|1|55 इत्यनेन नुडागमः]
→ षड् + नाम् [झलां जशोऽन्ते 8|2|39 इति जश्त्वम् ]
→ षड् णाम् [ष्टुना ष्टुः 8|4|41 इति ष्टुत्वम् ।]
→ षण् + णाम् [यरोऽनुनासिकेऽनुनासिको वा 8|4|45 इति डकारस्य विकल्पेन अनुनासिके णकारे प्राप्ते अनाम्-नवती-नगरीणामिति वाच्यम् अनेन वार्त्तिकेन नित्यम् णकारादेशः]
→ षण्णाम्

अत्र वार्त्तिकमेकं ज्ञातव्यम् - अनाम्-नवति-नगरीणाम् इति वाच्यम् । इत्युक्ते, नाम्-शब्दस्य विषये यथा ष्टुत्वं भवत्येव, तथैव नगरी-शब्दस्य विषये, नवति-शब्दस्य विषये अपि भवति । यथा -
1) षड् + नगर्यः
→ षड् + णगर्यः [ष्टुना ष्टुः 8|4|40] इति ष्टुत्वम् । न पदान्ताट्टोरनाम् 8|4|42 इत्यनेन निषेधे प्राप्ते अनाम्-नवती-नगरीणामिति वाच्यम् इति वार्तिकेन ष्टुत्वं भवति ]
→ षण्णगर्यः, षड्णगर्यः [यरोऽनुनासिकेऽनुनासिको वा 8|4|45 इति डकारस्य वैकल्पिकः णकारः]
2) षष् + नवति
→ षड् + नवति [झलां जशोऽन्ते 8|2|39 इति जश्त्वम्]
→ षड् + णवति [ष्टुना ष्टुः 8|4|41 इति ष्टुत्वम् । न पदान्ताट्टोरनाम् 8|4|42 इत्यनेन निषेधे प्राप्ते अनाम्-नवती-नगरीणामिति वाच्यम् इति वार्तिकेन ष्टुत्वं भवति ।]
→ षण्णवति, षड्णवति [यरोऽनुनासिकेऽनुनासिको वा 8|4|45 इति डकारस्य अनुनासिकः णकारः ।]
One-line meaning in English
Except when followed by the word नाम्, a पदान्तटवर्ग letter does not cause the ष्टुत्वम् of सकार or a तवर्ग letter that follows it.
काशिकावृत्तिः
पदान्ताट् टवर्गादुत्तरस्य स्तोः ष्टुत्वं न भवति नाम् इत्येतद् वर्जयित्वा। श्वलिट् साये। मधुलिट् तरति। पदान्तातिति किम्? ईड स्तुतौ ईट्टे। टोः इति किम्? सर्पिष्टमम्। अनाम् इति किम्? षण्णाम्। अत्यल्पम् इदम् उच्यते। अनाम्नवतिनगरीणाम् इति वक्तव्यम्। षण्णाम्। षण्णवतिः। षण्णवरी।
`अनाम्` इति षष्ठीबहुवचनस्यागतनुट्कस्य प्रतिषेधः। `आलिट्साये` इति। यदा `डः सि धुट्` 8|3|29 इति धुट नास्ति, तदैतदुदाहरणम्। `ईट्टे` इति। `इड स्तुतौ` (धातुपाठः-1029)। अनुदात्तेत्त्वादात्मनेपदम्, अदादित्वाच्छपो लुक्, `खरि च` 8|4|54 इति डकारस्य टः। `सर्पिष्टमम्` इति। `अतिशायने तमप्` 5|3|55 , `ह्यस्वात्तादौ तद्धिते` 8|3|103 इति सकारस्य मूर्धस्यः। `षज्णाम्` इति। `षट्चतुम्र्यश्च` 7|1|55 इति गुट्, `झलां णशोऽन्ते` 8|2|39 इति षकारस्य डकारः, `यरोऽनुनासिकेऽनुनासिको वा` 8|4|44 इति डकारस्य णकारः। `षण्णवतिः` इति। पडधिका नवतिरिति शाकपार्थिवा दित्वादुत्तरपदलोपिसमासः। षष्णां नगराणां समाहारः `षण्णगरी` `द्विगोः` 4|1|21 इति ङीप्॥
ठनाम्ऽ इति षष्ठीबहुवचनस्यागतनुट्कस्य प्रतिषेधः । श्वलिट्साय इति । धुडभावपक्षे सकारस्य ष्टुअत्वं प्राप्नोति । धुट्पक्षे तु चर्त्वस्यासिद्धत्वातस्यैव धकारस्येति । ईट्टे इति । ठीड् स्तुतौऽ, अदादिरनुदातेत् । षडधिका नवतिः षण्णवतिः । षण्णां नगराणां समाहारः षण्णगरी ॥
सिद्धान्तकौमुदी
अनामिति लुप्तषष्ठीकं पदम् । पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षट् सन्तः । षट् ते । पदान्तात्किम् । ईट्टे । टोः किम् । सर्पिष्टमम् ॥अनाम्नवतिनगरीणामिति वाच्यम् (वार्तिकम्) ॥ षण्णाम् । षण्णवतिः । षण्णगर्यः ॥
न पदान्ताट्टोरनाम् - तदाह — पदान्तादित्यादिना । ईट्टे इति । "ईडस्तुतौ" आत्मनेपदी । ईड्-ते इति स्थिते, खरि चेति डस्य चत्र्वम्, ततः परस्य तकारस्य टुत्वम् । तस्य टवर्गात्परत्वेऽपिपदान्तात्परत्वाऽभावान्न टुत्वनिंषेधः । सर्पिष्टममिति । सर्पिष्-तममितित स्थितेस्वादिष्वसर्वनामस्थाने॑ इति, अन्तर्वर्तिनीं विभक्तिमाश्रित्य वा पदत्वात्षकारस्य पदान्तत्वात्ततः परस्य तकारस्य ष्टुत्वनिषेधो न भवति, पदान्ताट्टवर्गात्परत्वाऽभावात् । नच षकारस्य "झलाञ्जशोऽन्ते" इति जश्त्वेन डकारे सति तकारस्य टोः परत्वात्ष्टुत्वनिषेधः स्यादेवेति वाच्यं,ह्यस्वात्तादौ तद्धिते॑ इति षत्वस्याऽसिद्धत्वेन जश्त्वाऽभावात् । इह "आदेशप्रत्यययोरिति" षत्वं तु न भवति,अपदान्तस्य मूर्धन्यः॑ इत्यधिकारात् । अनाम्नवति । ष्टुत्वप्रतिषेधे नाम एव पर्युदासो न भवति, किन्तु नवतिनगरीशब्दावयवनकारस्यापि पर्युदासो वक्तव्यः इत्यर्थः । षण्णामिति । षष्-नामिति स्थितेस्वादिष्वसर्वनामस्थाने ॑ इति पदान्तत्वात् षस्य जश्त्वेन डकारेप्रत्यये भाषायां नित्य॑मिति तस्य णकारः । अत्र टवर्गयोगान्नकारस्य ष्टुत्वम् ।न पदान्ता॑दिति निषेधस्तु न,अना॑मिति पर्युदासात् । षण्-णगर्य इति — पृथक्पदे । न तु कर्मधारयः,दिक्संख्येसंज्ञाया॑मिति नियमात् । अत्रापिन पदान्ता॑दिति नगरीशब्दे नकारस्य टुत्वनिषेधो न भवति, नगरीशब्दस्यापि पर्युदासात् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। पदान्तात्किम्? ईट्टे। टोः किम्? सर्पिष्टमम्। (अनाम्नवतिनगरीणामिति वाच्यम्)। षण्णवतिः। षण्णगर्य्यः॥
महाभाष्यम्
न पदान्ताट्टोरनाम् अनामिति किमर्थम्(2)?।। षण्णां भवति काश्यपः।। अत्यल्पमिदमुच्यते ‐ अनामिति।। अनाम्नवतिनगरीणां चेति वक्तव्यम्।। षण्णाम्। षण्णवतिः। षण्णगर्यः(3)।। (न पदान्ताट्टोरनाम्।)