Page loading... Please wait.
8|4|41 - ष्टुना ष्टुः
॥ तस्मै पाणिनये नमः ॥
8|4|41
SK 113
ष्टुना ष्टुः   🔊
सूत्रच्छेदः
ष्टुना (तृतीयैकवचनम्) , ष्टुः (प्रथमैकवचनम्)
अनुवृत्तिः
स्तोः  8|4|40 (षष्ठ्येकवचनम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
स्तोः ष्टुना ष्टुः
सूत्रार्थः
सकारतवर्गयोः षकारटवर्गाभ्यां योगे षकारटवर्गौ स्तः ।
अस्मिन् सूत्रे प्रयुक्ता तृतीया विभक्तिः "योगे" अस्मिन् अर्थे प्रयुज्यते । "योगे" इत्युक्ते पूर्वं परम् वा । इत्युक्ते, सकारात् पूर्वम् परम् वा षकारः / टवर्गीयवर्णः आगच्छति चेत् सकारस्य षकारः भवति । तथैव, तवर्गीयवर्णात् पूर्वम् परम् वा षकारः /टवर्गीयवर्णः आगच्छति चेत् तवर्गीववर्णस्य यथासङ्ख्यम् टवर्गीयवर्णादेशः भवति । अस्याः प्रक्रियायाः नाम एव "ष्टुत्वम्" इति ।

उदाहरणानि एतादृशानि -

1) सकार-षकार-योगः -
1.1) स् + ष् इत्यत्र सकारस्य षकारः भवति । रामस् + षष्ठः = रामष्षष्ठः ।
1.2) ष् + स् इत्यत्र यद्यपि अनेन सूत्रेण सकारस्य ष्टुत्वं विधीयते, तथापि अस्य सूत्रस्य अस्याम् अवस्थायाम् प्रसक्तिः न भवति, यतः पदान्तषकारस्य झलां जशोऽन्ते 8|2|39 इति जश्त्वे डकारः भवति, तथा अपदान्तषकारस्य षढोः कः सि 8|2|41 इत्यनेन सकारे परे ककारः भवति ।

2) सकार-टवर्ग-योगः -
2.1) स् + टवर्ग इत्यत्र अनेन सूत्रेण सकारस्य षकारः भवति । यथा - रामस् + टीकते = रामष्टीकते ।
2.2) टवर्ग + स् इत्यत्र पदान्तटवर्गस्य न पदान्तात् टोः अनाम् 8|4|42 इत्यनेन ष्टुत्वनिषेधः विधीयते । अपदान्तटवर्गस्य उदहरणानि न सन्ति ।

3) तवर्ग-षकार-योगः -
3.1) तवर्ग + ष् इत्यत्र तोः षि 8|4|43 इत्यनेन ष्टुत्वं निषिध्यते ।
3.2) ष् + तवर्ग अनेन सूत्रेण तवर्गीयवर्णस्य यथासङ्ख्यम् टवर्गीयवर्णः भवति । यथा - सर्पिष् + तमम् = सर्पिष्टमम् । द्विष् + ति = द्वेष्टि ।

4) तवर्ग-टवर्ग-योगः -
4.1) तवर्ग + टवर्ग इत्यत्र अनेन सूत्रेण तवर्गीयवर्णस्य यथासङ्ख्यम् टवर्गीयवर्णः भवति । यथा -
मरुत् + टीकते
→ मरुद् + टीकते [झलां जशोऽन्ते 8|2|39 इति तकारस्य जश्त्वम् दकारः]
→ मरुड् + टीकते [ ष्टुना ष्टुः8|4|41 इति दकारस्य श्चुत्वे डकारः]
→ मरुट् + टीकते [खरि च 8|4|55 इति खर्-वर्णे परे डकारस्य चर्त्वम् टकारः]
→ मरूट्टीकते
एवमेव तट्ठकारः, तड्डीयते, चक्रिण्ढौकसे, राजञ्डयसे एते शब्दाः अपि सिद्ध्यन्ति ।
4.2) टवर्ग + तवर्ग इत्यत्र अनेन सूत्रेण यथासङ्ख्यम् टवर्गीयवर्णः भवति । यथा - "ईडँ (स्तुतौ)" धातोः आत्मनेपदस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य रुपसिद्धौ "ईड् + शप् + ते" इत्यत्र तकारस्य ष्टुत्वे टकारः भवति । अग्रे "ईड् + टे" इत्यत्र खरि च 8|4|55 इत्यनेन चर्त्वे कृते "ईट्टे" इति रूपं सिद्ध्यति ।
One-line meaning in English
A सकार and a तवर्ग letter are converted (respectively) to a षकार and टवर्ग letter when associated with a षकार or a टवर्ग letter.
काशिकावृत्तिः
स्तोः इति वर्तते। सकारतवर्गयोः षकारट्वर्गाभ्यां सन्निपाते षकारटवर्गावादेशौ भवतः। तत्र अपि तथैव सङ्ख्यातानुदेशभावः। षकारेण सकारस्य वृक्षष्षण्डे। प्लक्षष्षण्डे। तस्य एव टवर्गेण वृक्षष्टीकते। प्लक्षष्टीकते। वृक्षष्ठकारः। प्लक्षष्ठकारः। तवर्गस्य षकारेण पेष्टा। पेष्टुम्। पेष्टव्यम्। कृषीष्ट। कृषीष्ठाः। तस्य एव टवर्गेण अग्निचिट्तीकते। सोमसुट्टीकते। अग्निचिट्ठकारः। सोमसुट्ठकारः। अग्निचिड्डीनः। सोमसुड्डीनः। अग्निचिड्ढौकते। सोमसुड्ढौकते। अग्निचिण्णकारः। सोमसुण्णकारः। अत्ट अट्टति। अद्ड अड्डति।
अत्रापि संख्यातानुदेशाभावस्य `तोः षि` 8|4|42 इति प्रतिषेधो ज्ञापकः। यद्यत्रापि निमित्तं प्रति संख्यातानुदेकः स्यात्, षकारेण सन्निपाते तवर्गस्य ष्टुत्वमेव न प्राप्नोति। `तोः षि` 8|4|42 इति प्रतिषेधं न कुर्यात्, कृतश्चासौ, अतः स एव लिङ्गमिह संख्यातानुदेशाभावत्य। `वृक्षष्टीकते` इति। तिकृ टिकृ टीकृ रगि [`रधिः`--धा।पाठ] लधि गत्यर्थाः (धातुपाठः-105,103,104,107,108)।`पेष्टा` इति। `पिप्लृ सञ्चूर्णने` (धातुपाठः-1452)। `कृषीष्ट, कृषीष्ठाः` इति। करोतेराशिवि लिङ्, तस्य तथासौ, सीयुट्, `लोपो व्योर्वलि` 6|1|64 इति यकादलोपः, `सुट तिथोः` 3|4|107 इति सुट्, `आदेशप्रत्यययोः` 8|3|59 इति षत्वम्, अनेन ष्टुत्वम्। `अग्निचिड्डीनः` इति। `डीङ्[`ट्ट`--धातुपाठः-] विहायसा गतौ` (धातुपाठः-968), स्वादित्वात्? `ओदितश्च` 8|2|45 इति नत्यम्। `अग्निचिढ्ढौक्ते` इति। `ढौकृ गतौ` (धातुपाठः-98) `अट्टति, अड्ढति` इति। `अत्ट [अतिक्रमहिंसयोः--धातुपाठः-] अतिक्रमणहिंसयोः` (धातुपाठः-254), [अड्ड--धातुपाठः-] (धातुपाठः-254), `अदड अनियोगे` (धातुपाठः-348) तकारवकारोपधयोरेतयोर्गणे पाठः क्विबन्तयोल्तयोः संयोगान्तलोपे सकारदकारयोः श्रवणार्थः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ठौकसे ॥
ष्टुना ष्टुः - ष्टुना ष्टुः ।स्तो॑रित्यनुवर्तते । तदाह-स्तोरिति । अत्रापि स्थान्यादेशानां यतासंख्यं, नतु॒ष्टुयोगे॑इत्यत्र । रामष्षष्ठ इति । रामस्-षष्ट इति स्थिते षकारयोगात्सस्य ष्टुत्वेन षः । अत्रापि "ष्टुना योग" इत्यत्र न यथासंख्यमित्यस्य प्रयोजनं दर्शयितुं सकारस्य टवर्गयोगेऽपि उदाहरति — रामष्टीकते इति ।टीकृ गतौ॑ । तट्टीकेति । तस्य-टीकेति विग्रहः ।तद्टीके॑ति स्थिते टुत्वेन दस्य डत्वे चत्र्वम् । चक्रिण्ढोकसे इति । ढौकृ गतौ । चक्रिन् ढोकसे इति स्थिते टवर्गयोगान्नस्य टुत्वेन णत्वम् । न पदान्तात् ।अना॑मितितो॑रित्यस्य विशेषणं । ननु भिन्नविभक्तिकमेतत्कथं तद्विशेषणमित्यत आह — अनामिति लुप्तषष्ठीकमिति । नामवयवभिन्नस्येत्यर्थः । "स्तोः"ष्टु॑रित्यनुवर्तते ।
ष्टुना ष्टुः - ष्टुना ष्टुः । इहापि कार्यिनिमित्तयोर्यथासङ्ख्यं न,तोःषी॑ति ज्ञापकात् । सर्पिष्टममिति ।ह्यस्वात्तादौ तद्धिते॑ इति षत्वम् । यरो । पदान्तस्येति किम् । वेद्मि । स्तभ्राति । स्पर्शे चरितार्थ इति । प्रसिद्धप्रयोगाभिप्रायेणेदमुक्तम् ।कमल्मुरारिः॑वृक्षव्नेते॑त्यादौ लकारवकारयोरनुनासिकप्रवृत्तौ बाधकाऽभावात् ।स्पर्शस्यैवेष्यते॑इति प्राचो ग्रन्थानुरोधेन स्पर्शभिन्नेष्वनुनासिकविधिर्न प्रवर्ततेऽनभिधानादिति वा योज्यम् । रेफे न प्रवर्तत इति । यद्यपिव्यक्तिः पदार्थ॑ इति पक्षे लक्ष्यभेदे लक्षणभेदादस्यां व्यक्तौ लक्षणस्याऽचरितार्थत्वाद्रेफेऽपि प्रवृत्तिर्दुर्वारैव, तथापि लक्ष्यानुरोधेन जातिपक्षमाश्रित्येदमुक्तम् । दकारनिपातनादिति । ननु यवादिगणेककु॑दित्येव पठते नतुककुद्मन्त॑ इति मतुब्विशिष्टम् । तथाच यरोऽनुनासिको दुर्वारः । न च यरोऽनुनासिकप्रवृत्तौ झयन्तत्वाऽभावेनझयः॑ इति मतुपो मकारस्य वत्वाप्रसत्तया यवादिगणेककु॑दिति पाठो निरर्थकः स्यादिति वाच्यम्; अनुनासिकविधेरलसिद्धत्वेन झयन्तत्वानपायाद्नणे तत्पाठस्य सार्थक्यादिति चेदत्राहुः, यद्यत्र ककुद्दकारस्य नकार इष्टः स्यात्तर्हि गणेककु॑ नित्येव पठेन्नककु॑दिति । मतुपः प्रकृतिभूतककुच्छब्दस्य नान्तत्वनिपातनेऽप्यन्यत्र दकारान्तप्रयोगस्य निर्बाधत्वात् । तस्माद्यरोऽनुनासिकोऽत्र न प्रवर्तत इति । अन्येत्वाहुः-॒यचि भं तसौ मत्वर्थे॑ इति संहितायां पाठेतसा॑विति तात्पूर्वं दकारं प्रश्लिष्य भत्वेनाप्येतत्समाधातुं शक्यम् ।तसा॑विति द्विवचननिर्देशस्तु दतयोः समाहारद्वन्द्वं कृत्वा इतरेतरयोगद्वन्द्वे कृते समुपपद्यत इति ।
लघुसिद्धान्तकौमुदी
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः॥
महाभाष्यम्
ष्टुना ष्टुः किमर्थं तृतीयानिर्देशः क्रियते न ष्टावित्येवोच्येत?।। आनन्तर्यमात्रे ष्टुत्वं यथास्यात्-पेष्टा लेढा(1)।। अथ सङ्ख्यातानुदेशः कस्मान्न भवति?।। आचार्यप्रवृत्तिर्ज्ञापयति नेह सङ्ख्यातानुदेशो भवतीति, यदयं तोःषीति प्रतिषेधं शास्ति।। (ष्टुना ष्टुः)।।