Page loading... Please wait.
8|4|40 - स्तोः श्चुना श्चुः
॥ तस्मै पाणिनये नमः ॥
8|4|40
SK 111
स्तोः श्चुना श्चुः   🔊
सूत्रच्छेदः
स्तोः (षष्ठ्येकवचनम्) , श्चुना (तृतीयैकवचनम्) , श्चुः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
स्तोः श्चुना श्चुः
सूत्रार्थः
सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः ।
अस्मिन् सूत्रे प्रयुक्ता तृतीया विभक्तिः "योगे" अस्मिन् अर्थे प्रयुज्यते । "योगे" इत्युक्ते पूर्वं परम् वा । इत्युक्ते, सकारात् पूर्वम् परम् वा शकारः / चवर्गीयवर्णः आगच्छति चेत् सकारस्य शकारः भवति । तथैव, तवर्गीयवर्णात् पूर्वम् परम् वा शकारः / चवर्गीयवर्णः आगच्छति चेत् तवर्गीववर्णस्य यथासङ्ख्यम् चवर्गीयवर्णादेशः भवति । अस्याः प्रक्रियायाः नाम एव "श्चुत्वम्" इति ।

उदाहरणानि एतादृशानि -

1) सकार-शकार-योगः -
1.1) स् + श् इत्यत्र सकारस्य शकारः भवति । रामस् + शेते = रामश्शेते ।
1.2) श् + स् इत्यत्र यद्यपि अनेन सूत्रेण सकारस्य शकारः विधीयते, तथापि अस्याम् अवस्थायाम् अस्य सूत्रस्य प्रसक्तिः नास्ति, यतः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8|2|36 अनेन सूत्रेण शकारस्य सकारे परे षकारादेशः भवति ।

2) सकार-चवर्ग-योगः -
2.1) स् + चवर्ग इत्यत्र अनेन सूत्रेण सकारस्य शकारः भवति । रामस् + चिनोति = रामश्चिनोति । रामस् जयति = रामश्जयति ।
2.2) चवर्ग + स् इत्यत्र यद्यपि अनेन सूत्रेण सकारस्य शकारः विधीयते, तथापि अस्याम् अवस्थायाम् अस्य सूत्रस्य प्रसक्तिः नास्ति, यतः चोः कुः 8|2|31 इत्यनेन चवर्गस्य सकारे परे कवर्गादेशः भवति ।

3) तवर्ग-शकार-योगः -
3.1) तवर्ग + श इत्यत्र अनेन सूत्रेण तवर्गीयवर्णस्य यथासङ्ख्यम् चवर्गीयवर्णः भवति । यथा -
मरुत् + शेते
→ मरुद् + शेते [झलां जशोऽन्ते 8|2|39 इति तकारस्य जश्त्वम् दकारः]
→ मरुज् + शेते [स्तोः श्चुना श्चुः 8|4|40 इति दकारस्य श्चुत्वे जकारः]
→ मरुच् + शेते [खरि च 8|4|55 इति खर्-वर्णे परे जकारस्य चर्त्वम् चकारः]
→ मरुच्छेते , मरुत्शेते [शश्छोऽटि 8|4|63 इति शकारस्य विकल्पेन छकारः ]
3.2) श + तवर्ग इत्यत्र शात् 8|4|44 इत्यनेन श्चुत्वस्य निषेधः विधीयते ।

4) तवर्ग-चवर्ग-योगः -
4.1) तवर्ग + चवर्ग इत्यत्र अनेन सूत्रेण तवर्गीयवर्णस्य यथासङ्ख्यम् चवर्गीयवर्णः भवति । यथा -
सत् + चित्
→ सद् + चित् [झलां जशोऽन्ते 8|2|39 इति तकारस्य जश्त्वम् दकारः]
→ सज् + चित् [स्तोः श्चुना श्चुः [8।4।40]] इति दकारस्य श्चुत्वे जकारः]
→ सच् + चित् [खरि च 8|4|55 इति खर्-वर्णे परे जकारस्य चर्त्वम् चकारः]
→ सच्चित्
एवमेव मच्छाया, सज्जनः, मज्झिलिका, शार्ङ्गिञ्जयः एते शब्दाः अपि सिद्ध्यन्ति ।
4.2) चवर्ग + तवर्ग इत्यत्र तवर्गीयवर्णः यदि नकारः नास्ति, तर्हि चोः कुः 8|2|30 इत्यनेन चवर्गस्य कवर्गादेशः भवति, अतः अस्य सूत्रस्य प्रसक्तिः नास्ति । नकारे परे तु अस्य सूत्रस्य प्रयोगः दृश्यते । यथा - राजन् शब्दस्य द्वितीयाबहुवचनस्य रूपम् -
राजन् + शस्
→ राज् न् + अस् [अल्लोपोऽनः 6|4|134 इति अकारलोपः]
→ राज्ञः [जकारस्य उपस्थितौ नकारस्य श्चुत्वे ञकारः । विसर्गनिर्माणम् ।]
One-line meaning in English
A सकार and a तवर्ग letter are converted (respectively) to a शकार and चवर्ग letter when associated with a शकार or a चवर्ग letter.
काशिकावृत्तिः
सकारतवर्गयोः शकारचवर्गाभ्यां सन्निपाते शकारचवर्गावादेशौ भवतः। स्तोः श्चुना इति यथासङ्ख्यम् अत्र नेष्यते। सकारस्य शकारेण, चवर्गेण, द्वाभ्याम् अपि सन्निपाते शकारो भवति। तवर्गस्य अपि च शकारेण, चवर्गेन च सन्निपाते चवर्गो भवति। आदेशे तु यथासङ्ख्यम् इस्यते, सकारस्य शकारः, तवर्गस्य च चवर्गः इति। सकारस्य शकारेण सन्निपाते वृक्षश्शेते। प्लक्षश्शेते। तस्य एव चवर्गेण वृक्षश्चिनोति। प्लक्षश्चिनोति। वृक्षश्छादयति। प्लक्षश्छादयति। तवर्गस्य शकारेण अग्निचिच्छेते। सोमसुच्छेते। तस्य एव चवर्गेण अग्निचिच्चिनोति। सोमसुच्चिनोति। अग्निचिच्छादयति। सोमसुच्छादयति। अग्निचिज्जयति। सोमसुज्जयति। अग्निचिज्झकारः। असोमसुज्झकारः। अग्निचिञ्ञकारः। सोमसुञ्ञकारः। मस्जेः मज्जति। भ्रस्जेः भृज्जति। व्रश्चेः वृश्चति। यजेः यज्ञः। याचेः याच्ञा। शात् 8|4|44 इति प्रतिषेधो ज्ञापकः सङ्ख्यातानुदेशाभावस्य। स्तोः श्चौ इति सप्तमीनिर्देशो न कृतः, पूर्वेण परेण च श्चुना सन्निपाते श्चुत्वं यथा स्यातिति।
`शकारचवर्याभ्यां सन्निपाते` इत्यादि। सन्निपाते=आनन्तर्य इत्यर्थः। `वृक्षश्शेते` इति। `वा शरि` 8|3|36 इति विसर्गस्य सकारः। तस्यानेन शकारः। `यज्जति` इति। `टु मस्ञो शुद्धौ` (धातुपाठः-1415), `झलां जश्? झशि` 8|4|52 इति सकारस्यदकारः, तस्यानेन जकारः। श्चुत्वे कत्र्तव्ये जश्त्वत्यासिद्धत्वं नाशङ्कनीयम्; `मस्जिनशोर्झलि` 7|1|60 इत्यत्र मज्जेः कृतचुत्वनिर्देशात्। असिद्धत्वे ह्रयं निर्देशो नोपपद्यते। `भृज्जति, वृश्चति` इति। ग्रह्रादि 6|1|16 सूत्रेण सम्प्रसारणम्। `यज्ञः, पाञ्ञा` इति। यजियाचिभ्यां `यजयाच` 3|3|90 इत्यादिना नङ्। इह सकारतवर्गौ द्वौ कार्यिणौ, निमित्ते अपि द्वे एव--शकारचवर्गौः, ततश्च साम्यात्? संख्यातानुदेशः प्राप्नोति, सकारस्य शकारेण सन्निपाते तवर्गस्य चवर्गेण कस्मान्न भवति? इत्याह--`शात्` इत्यादि। प्राप्तिपूर्वका हि प्रतिषेधा भवन्ति। यदि निमित्तं प्रति यथासंख्यं स्यात्, एवं सति शात्परस्य तवर्गस्य चुत्वप्राप्तिरेव नास्तीति `शात्` 8|4|43 इति प्रतिषेधं न कुर्यात्, कृतश्चासौ, अतः स ज्ञापयति--संख्यातामुदेशो न भवव्रीति। `स्तोश्चौ` इति लाघवार्थं सप्तम्या निर्देशे कत्र्तव्ये `श्चुना` इति तृतीयानिर्देशः पूर्वभूतेनापि सन्निपातेन यथा स्यात्--यज्ञः, याच्ञेति। सप्तनीनिर्देशे हि `तस्मिन्निति निर्देष्टे पूर्वस्य` 1|1|65 इति परभूतेनैव स्यात्, न पूर्वभूतेन॥
अत्र सन्निपात इत्यध्याहार्यम् । वृक्षश्शेते इति । ठ्वा शरिऽ इति पक्षे विसर्जनीयस्य सकारः । मज्जतीति । ठ्झलां जश् झशिऽ इति सकारस्य दकारे कृते तस्य चुत्वम्---जकारः । असिद्धत्वं तु जश्त्वस्य न भवति; ठ्न मु नेऽ इत्यत्र नेति योगविभागात् । तथा च भृज्जतीनां ङ्तीइति निर्देश उपपद्यते । इह सकारतवर्गौ कार्यिणौ द्वौ, निमिते अपि द्वे एव---शकारचवर्गौ, ततश्च साम्यात्संख्यातानुदेशः प्राप्नोति ? इत्याशङ्क्याह---शादिति प्रतिषेध इति । श्चुनेति तृतीयानिर्देशः पूर्वभूतेनापि योगे यथा स्यात्---यज्ञः, याच्ञेति । सप्तमीनिर्देशे तु ठ्तस्मिन्निति निर्दिष्टे पूर्वस्यऽ इति परभूतेनैव योगे स्यात् ॥
सिद्धान्तकौमुदी
॥ अथ हल्सन्धिप्रकरणम्‌ ॥

सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः । हरिश्शेते । रामश्चिनोति । सच्चित् । शार्ङ्गिञ्जय ॥
स्तोः श्चुना श्चुः - स्तोः श्चुना श्चुः । स् च तुश्चेति समाहारद्वन्द्वः । पुंस्त्वमार्षम् । इतरेतरयोगद्वन्द्वो वा, तथा सत्येकवचनमार्षम् । एवं "श्चुना श्चु" रित्यत्रापि ।श्चुने॑ति सहार्थे तृतीया, "योगे" इत्यध्याहार्यं । ततश्च सहशब्दयोगाऽभावेऽपि तदर्थस्य गम्यत्वात्तृतीया युज्यते, अस्मादेव निर्देशात् । तदाह-सकारतवर्गयोरिति । अत्र स्थान्यादेशानां यथासङ्ख्यं भवति । ततस्च सकारस्य शकारस्तवर्गस्य चवर्गः । तत्रापि त-थ-द-ध-ने त्यादिक्रमस्याप्यनादिलोकसिद्धत्वात् ।श्चुनायोगे॑इत्यत्र न यथासंख्यमित्युत्तरसूत्रेवक्ष्यते, ततश्च सकारस्य तवर्गस्य शकारेण चवर्गेण च यथासंभवं योगे श्चुत्वं भवति । रामश्शेते इति । रामस्-शेते इति स्थिते शकारेण योगात्सकारस्य शकारः ।श्चुना योग इत्यत्र न यथासङ्ख्य॑मित्यस्य प्रयोजनं दर्शयितुं सकारस्य चकारयोगेऽप्युदाहरति — रामश्चिनोतीति । रामस्-चिनोतीति स्थिते चवर्गयोगात्सकारस्य शकारः । "श्चुना योग" इत्यत्रापि यथासङ्ख्याश्रयणे तु इह सकारस्य शकारयोगा.ञभावाच्छकारो नस्यादिति भावः । सच्चिदिति । सत्-चिदिति स्थिते श्चुत्वस्यासिद्धत्वाज्जश्त्वेन तकारस्य दत्वे, तस्य श्चुत्वेन जकारे,खरि चे॑ति चर्त्वेन तस्य चकारे च रूपम् । शाङ्गञ्जयेति । शाङ्गन्-जयेति स्थिते, चवर्गयोगान्नकारस्य श्चुत्वेन ञकारादेशः ।
स्तोः श्चुना श्चुः - स्तोः श्चुना श्चुः ।स्तो॑रिति समाहारद्वन्द्वः, सौत्रं पुंस्त्वम् । एवंश्चुः॑ष्टु॑रित्यपि बोध्यम् । श्चुनेति ।सह युक्ते-॑ इति सूत्रेविनापि तद्योगं तृतीये॑ति वक्ष्यमाणत्वात्तृतीया । योगे इति । एतदध्याहारलभ्यम् । अत्र स्थान्यादेशयोर्यथासङ्ख्यम् । निमित्तकार्यिणोस्तु न,शा॑दिति ज्ञापकात् । यथासङ्ख्यसूत्रमिह नोपन्यस्तम्,स्थानेऽन्तरतमः॑ इत्यनेनापि इष्टसिद्धेर्नात्यन्तावश्यकत्वात् । हरिश्शेत इति ।वा शरी॑ति पाक्षिकत्वाद्विसर्जनीयस्य शेन योगे शः, चवर्गयोगेरामश्चिनोति॑ । तवर्गस्य तु चवर्गयोगेसच्चि॑दित्यादि । शेन योगे तु तच्शिव इत्याद्युदाहरिष्यति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
स्तोः श्चुना श्चुः किमर्थं तृतीयानिर्देशः क्रियते न श्चावित्येवोच्येत?।। आनन्तर्यमात्रे श्चुत्वं यथा स्यात्-यज्ञः राज्ञः याच्ञ्ञा।। अथ सङ्ख्यातानुदेशः कस्मान्न भवति?।। आचार्यप्रवृत्तिर्ज्ञापयति-सङ्ख्यातानुदेशो नेति यदयं(4) शात्प्रतिषेधं शास्ति।।