Page loading... Please wait.
8|4|28 - उपसर्गाद् बहुलम्
॥ तस्मै पाणिनये नमः ॥
8|4|28
SK 859
उपसर्गाद् बहुलम्   🔊
सूत्रच्छेदः
उपसर्गात् (पञ्चम्येकवचनम्) , अनोत्परः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उपसर्गस्थान् निमित्तातुत्तरस्य नसो नकारस्य णकारादेशो भवति बहुलम्। प्रणः शूद्रः। प्रणसः। प्रणो राजा। न च भवति। प्र नो मुञ्चतम्। बहुलग्रहणाद् भाषायाम् अपि भवति, प्रणसं मुखम्। उपसर्गाच् च इति नासिकाया नसादेशः।
नसादेशस्याक्रियावाचित्वात्? तं प्रत्युपसर्गत्वं न सम्भवतीति प्राद्युपलक्षणार्थमेतदुपसर्गग्रहणं विज्ञायते। `प्रथः` इति। पूर्ववदस्मदो नस्। `प्रणसम्` इति। प्रगता नासिका यस्येति बहुव्रीहिः। `उपसर्गाच्च` 5|4|119 इत्यच्? समासान्तः; नासिकायाश्च नसादेशः॥
न सम्प्रति क्रियायोगाभावात् प्राद्यौपलक्षणमुपसर्गग्रहणम् । प्रण इत्यस्मदो नसादेशः, प्रणस इति बहुव्रीहिः, ठुपसर्गाच्चऽ इत्यच् समासान्तः, नासिकायाश्च नस्भावः । उपसर्गादनोत्पर इति पाठान्तरम्, उपसर्गात्परस्य नसो नकारस्य णत्वं भवति, ओतः परस्य ओकारे वा न भवतीत्यर्थः । उभयथाप्यतिव्याप्त्यव्याप्तिसम्भवाद्व्याख्यात एव पाठो वृत्तिकारेणाश्रितः ॥
सिद्धान्तकौमुदी
उपसर्गस्थान्निमित्तात्परस्य नसो नस्य णः स्याद्बहुलम् । प्रणसः ॥ ।वेर्ग्रो वक्तव्यः (वार्तिकम्) ॥ विगता नासिकाऽस्य विग्रः ॥ ।ख्यश्च (वार्तिकम्) ॥ विख्यः । कथं तर्हि विनसा हतबान्धवेति भट्टिः । विगतया नासिकयोपलक्षितेति व्याख्येयम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
उपसर्गादनोत्परः। अनोत्परः किम्?। प्रनो मुञ्चतमित्यत्र णत्वं मा भूत्। तद्भङ्क्त्वेति। `अनोत्पर`इत्यपनीय बहुलग्रहणं च कृत्वेत्यर्थः। अन्यथा प्रणो नयेत्यादावव्याप्तिः, प्र नः पूषेत्यादौ त्वतिव्याप्तिः प्रसज्येतेति भावः। प्रणसैथि। प्रगता नासिका अस्येति विग्रहः। कथं तर्हीति। ग्रख्ययोरन्यतरेण भाव्यमिति प्रश्नः। नासिकयेति। तथा च विनसेति न प्रथमान्तं, किं तु `पद्दन्न` इति नसादेशे तृतीयान्तमिति भावः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
उपसर्गादनोत्परः कथमिदं विज्ञायते-ओकारात्परः-ओत्परः, न ओत्परोऽनोत्पर इति, आहो स्विदोकारः परोरमात्सोऽयमोत्परः, न ओत्परोऽनोत्पर इति?।। किं चातः?।। यदि विज्ञायते(1) ओकारात्परः ओत्परः, न ओत्परोऽनोत्पर इति,- प्र नो मुञ्चतम्-अत्रापि प्राप्नोति। अथ विज्ञायते-ओकारः परोऽस्मात्सोऽयमोत्परः, न ओत्परोऽनोत्पर इति,-प्राणो वनिर्देवकृता,-अत्र(2) न प्राप्नोति।। उभयथा च प्रक्रमे दोषो भवति। प्र नः मुञ्चतम्-प्र नो मुञ्चतम्। प्र उ नः ‐ प्रोनः।। भाविन्यप्योति नेष्यते।। भाविन्यप्योकारे णत्वं नेष्यते।। एवं तर्ह्युपसर्गाद्बहुलमिति वक्तव्यम्।। (उपसर्गादनोत्परः)।।