Page loading... Please wait.
8|4|20 - अन्तः
॥ तस्मै पाणिनये नमः ॥
8|4|20
SK 2984
अन्तः   🔊
सूत्रच्छेदः
अन्तः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अनितेः इति वर्तते। उपसर्गस्थान्निमित्तातुत्तरस्य अनितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो भवति। हे प्राण्। हे पराण्। पदान्तस्य इति प्रतिषेधस्य अपवादो ऽयम्। अन्तश्च पदापेक्षो गृहयते। केचित् तु पूर्वसूत्रे एव एतदन्तग्रहणं सामीप्यार्थम् अभिसम्बध्नन्ति। निमित्तसमीपस्थैकवर्णव्यवहितस्य अनितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो यथा स्यात्। इह मा भूत्, पर्यनिति इति। तैर् द्वितीयम् अपि पदान्तस्य णत्वार्थम् अन्तग्रहणम् आश्रयितव्यम् एव। येषां तु पर्यणिति इति भवितव्यम् इति दर्शनम्, तेषां पूर्वसूत्रे न अर्थो ऽन्तग्रहणेन।
Text Unavailable. Please use feedback link below to provide the text if you have.
अनितेरन्तस्येति । अनितेः सम्बन्धिनः पदान्तस्य नकारस्येत्यर्थः । हे प्राणिति । क्विबन्तात्सम्बुद्धिः, ठ्न ङसिम्बुद्ध्योःऽ इति नलोपप्रतिषेधः । अन्यत्र तु पदान्तस्य नकारस्य लोपेन भवितव्यमिति सम्बुद्ध्यन्तमुदाहृतम् । अन्तश्च पदापेक्षो गृह्यत इति । नानित्यपेक्षः; व्यभिचाराभावात् । केचित्वित्यादि । ठनितेरन्तःऽ इत्येकमेव योगं पठन्ति, समीपवचनं चान्तशब्दमाश्रयन्तीत्यर्थः । किमर्थम् ? इत्याह---निमितसमीपस्येति । ननु च नास्त्येव स विषयो यत्र निमितस्य समीपभूतोऽनितेर्नकारः, प्राणितीत्यादावेकादेशे कृते आकारेण व्यवायः, निरणितीत्यत्राकारेण, तत्कथं निमितसमीपस्थस्येत्युच्यते ? अत आह---एकवर्णव्यवहितस्येति । सामर्थ्यादेकवर्णन व्यवधानमाश्रतमित्यर्थः । न च प्राणितीत्यत्रैकादेशस्य पूर्वस्माद्विधौ स्थानिवद्भावाद् वर्णद्वयव्यवायः शङ्कनीयः; पूर्वत्रासिद्धे स्थानिवत्वनिषेधात् । ननु चोक्तम्---ठ्तस्य दोषः संयोगादिलोपलत्वणत्वेषुऽ इति ? एवं तर्ह्यनित्यः पूर्वस्माद्विधौ स्थानिवद्भावः; ठ्निष्ठायां सेटिऽ इति सेड्ग्रहणात्, एतच्च स्थानिवत्प्रकरण एव व्याख्यातम् । तैरित्यादि । एकं ह्यन्तग्रहणम्, तच्च सामीप्यार्थं पर्यनितीत्यत्र णत्वव्यावृत्या चरितार्थम्, ततश्च हे प्राणित्यत्र पदान्तस्येति प्रतिषेधः प्राप्नोति; तस्मातैद्वितीयमप्यन्तग्रहणमावृत्या तन्त्रेण वाऽऽश्रयितव्यम् । ननु च येऽपि योगविभागं कुर्वन्ति, अवयववचनं चान्तशब्दमाश्रयन्ति, तेरपि पूर्वसूत्रे सामीप्यवाच्यन्तशब्दः पठितव्य एव; अन्यथा पर्यनितीत्यत्रापि स्यात् ? अत आह---येषां त्विति । ते नैकवर्णव्यहितस्यापि णत्वमिच्छन्त्येव, तस्मान्नार्थस्तेषां पूर्वसूत्रेऽन्तग्रहणेनेत्यर्थः ॥
सिद्धान्तकौमुदी
पदान्तस्यानितेर्नस्य णत्वं स्यादुपसर्गस्थान्निमित्तात्परश्चेत् । हे प्राण् । शास इत्--- (कौमुदी-2486) इतीत्वम् । मित्राणि शास्ति मित्रशीः ॥ ।आशासः क्वावुपाधाया इत्वं वाच्यम् (वार्तिकम्) ॥ आशीः इत्वोत्वे । गीः । पूः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
अन्तः। अनितेरिति वर्तते, अन्तोऽत्र पदापेक्षो गृह्यते, नाऽनितेरपेक्षया, अव्यभिचारादत आह-- पदान्तस्येति।हे प्राणिति। अन प्राणने। क्विप्। `अनुनासिकस्ये`ति दीर्घः। `न ङिसंबुद्ध्यो`रिति नलोपनिषेधः। अन्यत्र तु नलोपेन भाव्यमिति संबुद्ध्यन्तमुदाह्मतम्। मित्रशीरिति। लुप्तेऽपि क्विप्प्रत्यये प्रत्ययलक्षणन्यायेन हलादिकित्प्रत्ययपरत्वमस्ति, `वर्णाश्रये नास्ति प्रत्ययलक्षण` मित्येतद्वर्णप्राधान्य एवेत्युक्तत्वादिति भावः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अन्तः अनितेः ।। अन्तग्रहणं किमर्थम्?।। अनितेरन्तग्रहणं संबुद्ध्यर्थम्।। अनितेरन्तग्रहणं क्रियते।। किं प्रयोजनम्?।। संबुद्ध्यर्थम् । प्राण् । अपर आह ‐ अनितेरन्तः पदान्तस्य ।। अनितेरन्तग्रहणं क्रियते, पदान्तस्य नेति प्रतिषेधः प्राप्नोति तद्वाधनार्थम् ।। यो वा तस्मादनन्तरः।। अथ वा ‐ अयमन्तशब्दोऽस्त्येवाऽवयववाची । तद्यथा ‐ वस्रान्तो वसनान्त इति । अस्ति सामीप्ये वर्त्तते। तद्यथा ‐ उदकान्तं गतः । उदकसमीपं गत इति गम्यते । तद्यः सामीप्ये वर्त्तते तस्य ग्रहणं विज्ञायते अनितेः समीपे यो रेफस्तस्मान्नस्य यथा स्यात् ‐ प्राणितीति । इह मा भूत् ‐ पर्यनितीति।