Page loading... Please wait.
8|4|15 - हिनुमीना
॥ तस्मै पाणिनये नमः ॥
8|4|15
SK 2530
हिनुमीना   🔊
सूत्रच्छेदः
हिनु (लुप्तषष्ठ्यन्तनिर्देशः) मीना (लुप्तषष्ठ्यन्तनिर्देशः)
अनुवृत्तिः
णः  8|4|1 (प्रथमैकवचनम्) , नः  8|4|1 (षष्ठ्येकवचनम्) , रषाभ्यां  8|4|1 (पञ्चमीद्विवचनम्) , उपसर्गात्  8|4|14 (पञ्चम्येकवचनम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
रषाभ्यां उपसर्गात् हिनु मीना नः णः
सूत्रार्थः
णत्वनिमित्तकात् उपसर्गात् परस्य हि-धातोः मी-धातोः च नकारस्य णत्वं भवति ।
"हि गतौ वृद्धौ च" अयं स्वादिगणस्य धातुः । तथा "मीञ् हिंसायाम्" अयं क्र्यादिगणस्य धातुः । एतयोः परयोः गणविकरणनिमित्तकः यः नकारः आगच्छति, तस्य रेफयुक्तस्य उपसर्गस्य उपस्थितौ णत्वं भवति ।

यथा -
1. "प्र + हि" इत्यस्य लट्-लकारस्य रूपाणि - प्रहिणोति, प्रहिणुतः, प्रहिण्वन्ति ... ।
2. "प्र + मी"इत्यस्य परस्मैपदस्य लट्-लकारस्य रूपाणि - प्रमीणाति , प्रमीणीतः, प्रमीणन्ति ... ।

ज्ञातव्यम् - सूत्रे प्रयुक्तौ "हिनु" तथा "मीना" एतौ शब्दौ धात्वोः गणविकरणाभ्यां सह कृतौ निर्देशौ स्तः ।
One-line meaning in English
The नकार associated with the forms of the verbs हि and मी is converted to णकार in presence of a रेफयुक्त उपसर्ग.
काशिकावृत्तिः
हिनु मीना इत्येतयोः उपसर्गस्थान् निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। प्रःइणोति। प्रहिणुतः। प्रमीणाति। प्रमीणीतः। हिनुमीनाग्रहणे विकृतस्य अपि भवति, अजादेशस्य स्थानिवत्त्वात्।
`प्रणिणोति` इति। `हि गतौ` [गतौ वृद्धौ च--धातुपाठः-] (धातुपाठः-1257), `स्वादिभ्यः श्नुः` 3|1|73 , गुणः। `प्रमीणाति` इति। `मी हिंसायाम्` [`मीञ्`--धातुपाठः-] (धातुपाठः-1476), क्र्यादित्वात्? शना। `प्रमीणीतः` इति। `ई हल्यघोः` 6|4|113 इतीत्वम्। अथ कथं प्रहिणोति, प्रमीणीत इत्यत्र णत्वम्, यावता `हिनुमीना` इति स्वरूपयोग्र्रहणम्, न चात्र गुणादौ विकारे कृते ते रूपे स्तः; तस्माच्चात्रैव भवितव्यम्--प्रहिणुतः, प्रमीणातीति? अजादेशस्य स्थानिवद्भावात्, एकदेशविकृतस्यानन्यत्वाद्वा भविष्यतीत्यदोषः। ननु प्रतिषिध्यते स्थानिवद्भावः--`पूर्वत्रासिद्धीये न स्थानिवत्` (जै।प।वृ।48) इति? दोव एवायमत्याः परिभाषायाः; तथा चोक्तम्--`अस्या दोषः संयोगादिलोपत्वणत्वेषु` [`तस्य`--इति वार्तिके पाठः] (1.1.59 वा।9।) इति। अथ `हिमीभ्याम्` इत्येवं कस्मान्नोक्तम्? अशक्यमेवं वक्तुम्, अविकरणनकारस्यापि स्यात्--प्रहेनर्दनमिति, प्रमीनर्दनमिति। प्रहिणोतीति प्रहेः, `अन्येभ्योऽपि दृश्यन्ते` अविकरणनकारस्यापि स्यात्--प्रहेनर्दनमिति, प्रमीनर्दनमिति। प्रहिणोतीति प्रहेः, `अन्येभ्योऽपि दृश्यन्ते` 3|2|75 इति विच्। गुणः। प्रमीणातीत#इ प्रमीः, क्विप्। प्रहेर्नर्दनम्, प्रम्यो नर्दनमिति षष्ठीसमासः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
उपसर्गस्थान्निमित्तात्परस्य एतयोर्नस्य णः स्यात् । प्रहिणोति ॥
हिनुमीना - हिनुमीना । हिनु मीना अनयोद्र्वन्द्वात्षष्ठीद्विवचनस्य आर्षो लुक् । "रषाभ्यां नो णः" इत्यनुवर्तते । "उपसर्गादसमासेऽपि" इत्यत उपसर्गादिति च । तदाह — उपसर्गस्थादिति ।
हिनुमीना - हिनु मीना । प्रमीणति ।
लघुसिद्धान्तकौमुदी
उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात्। प्रमीणाति, प्रमीणीते। मीनातीत्यात्वम्। ममौ। मिम्यतुः। ममिथ, ममाथ। मिम्ये। माता। मास्यति। मीयात्, मासीष्ट। अमासीत्। अमासिष्टाम्। अमास्त॥ षिञ् बन्धने॥ 5॥ सिनाति, सिनीते। सिषाय, सिष्ये। सेता॥ स्कुञ् आप्लवने॥ 6॥
महाभाष्यम्
हिनुमीना ।। हिनुमीनाग्रहणे विकृतस्योपसङ्ख्यानम्।। हिनुमीनाग्रहणे विकृतस्योपसङ्ख्यानं कर्त्तव्यम्। प्रहिणोति प्रमीणीते।। वचनाद्भविष्यति।। अस्ति वचने प्रयोजनम्।। किम्?।। प्रहिणुतः प्रमीणाति।। सिद्धमचः स्थानिवत्त्वात्।। सिद्धमेतत्।। कथम्?।। अचः स्थानिवत्त्वात्। स्थानिवद्भावादत्र णत्वं भविष्यति।। प्रतिषिध्यतेऽत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवदिति।। दोषा एवैते तस्याः परिभाषायाः-तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति।। (हिनुमीना)