Page loading... Please wait.
8|4|13 - कुमति च
॥ तस्मै पाणिनये नमः ॥
8|4|13
SK 1056
कुमति च   🔊
सूत्रच्छेदः
कुमति (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
नः  8|4|1 (षष्ठ्येकवचनम्) , रषाभ्यां  8|4|1 (पञ्चमीद्विवचनम्) , पूर्वपदात्  8|4|3 (पञ्चम्येकवचनम्) , प्रातिपदिकान्त-नुम्-विभक्तिषु  8|4|11 (सप्तमीबहुवचनम्) , णः  8|4|12 (प्रथमैकवचनम्)
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
पूर्वपदात् रषाभ्यां प्रातिपदिकान्त-नुम्-विभक्तिषु कुमति नः णः, अट्कुप्वाङ्नुम्व्यवाये अपि
सूत्रार्थः
समस्तपदस्य अनेकाच्-उत्तरपदे कवर्गीयवर्णः अस्ति चेत् पूर्वपदस्थेन णत्वनिमित्तकवर्णेन उत्तरपदस्य प्रातिपदिकान्तस्य/नुमागमस्य/विभक्तेः नकारस्य णत्वं भवति, स च अट्-कु-पु-आङ्-नुम्-एतेषां व्यवधानेऽपि भवति ।
अनेन सूत्रेण समस्तपदस्य पूर्वपदे स्थितेन रेफषकारेण उत्तरपदस्य नकारस्य णत्वं कदा भवति तस्मिन् विषये सिद्धान्तः प्रोक्तः अस्ति । यदि उत्तरपदम् एकाच् विद्यते, तर्हि पूर्वसूत्रेण एकाजुत्तरपदे णः 8|4|12 इत्यनेनैव णत्वं भवितुम् अर्हति । परन्तु यदि उत्तरपदम् अनेकाच् विद्यते, तर्हि वर्तमानसूत्रस्य प्रयोगः भवितुम् अर्हति । अस्मिन् अनेकाच्-उत्तरपदे यदि क-वर्गीयः वर्णः (क् / ख् / ग् / घ्/ ङ् एतेषु कश्चन) अस्ति, तर्हि -
(1) समस्तपदस्य उत्तरपदे स्थितस्य प्रातिपदिकस्य अन्तिमनकारस्य णत्वं भवितुम् अर्हति ।
(2) समस्तपदस्य उत्तरपदस्य यः नुमागमः भवति, तस्य अपि णत्वं भवितुम् अर्हति ।
(3) समस्तपदस्य विभक्तिरूपे नकारः आगच्छति चेत् तस्य अपि णत्वं भवितुम् अर्हति ।
इति वर्तमानसूत्रस्य आशयः ।

क्रमेण उदाहरणानि एतानि -

1. हरिकामिन् (one who wishes the god) इति नकारान्तप्रातिपदिकम् । अयम् सामासिकशब्दः अस्ति - हरेः कामी सः हरिकामी । अत्र पूर्वपदम् "हरि" इति, उत्तरपदम् "कामी" इति । पूर्वपदे णत्वनिमित्तकः रेफः अस्ति, उत्तरपदे द्वौ अच्-वर्णौ तथा ककारः विद्यते । अतः वर्तमानसूत्रेण अस्य प्रातिपदिकस्य अन्तिमनकारस्य मकारस्य स्वरस्य च व्यवधाने अपि णत्वं भवितुम् अर्हति । यथा - हरिकामिन् + औ → हरिकामिणौ ।
एवमेव - वस्त्रयुगिणौ, स्वर्गगामिणौ - एतौ शब्दौ अपि सिद्ध्यतः ।

2. "खरयुग" इति अकारान्तनपुँसकलिङ्गशब्दः । तस्य प्रथमाबहुवचनस्य प्रक्रिया इयम् -
खरयुग + जस् [प्रथमाबहुवचनस्य प्रत्ययः]
→ खरयुग + शि [जश्शसोः शिः 7|1|20 इति शि-आदेशः]
→ खरयुग + नुम् + इ [नपुँसकस्य झलचः 7|1|72 इति नुमागमः]
→ खरयुगा + न् + इ [सर्वनामस्थाने चासम्बुद्धौ 6|4|8 इति नकारान्तस्य अङ्गस्य उपधादीर्घः]
→ खरयुगाणि [कुमति च 8|4|13 इति णत्वम्]

एवमेव - सर्वयुगाणि, सर्वकामाणि, सर्वकाकाणाम्, परखगाणाम् - एतादृशाः शब्दाः सिद्ध्यति ।

3. "खरयुग" शब्दस्य तृतीयैकवचने "टा" प्रत्ययस्य "इन" आदेशे कृते अस्य विभक्तिसंज्ञकस्य नकारस्यापि अनेनैव सूत्रेण णत्वं भवति । खरयुग + टा → खरयुगेण । एवमवे - सर्वकामेण, परखगेण, सर्वयुगेण - आदयः ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "कुमति" इति शब्दः प्रयुज्यते । "कु" इत्यमात् तदस्यास्त्यस्मिन्निति मतुप् 5|2|94 इत्यनेन मतुप्-प्रत्यये कृते कुमत् इति शब्दः सिद्ध्यति, तस्य इदं सप्तम्येकवचनम् । "कु" (इत्युक्ते, कवर्गीयवर्णः) विद्यते यस्मिन्, सः कुमान् - इति अस्य अर्थः । अतः "कुमति" इत्यस्य अर्थः "तादृशे शब्दे परे यस्मिन् कवर्गीयवर्णः विद्यते" - इति अस्ति । अतः अत्र उत्तरपदे कवर्गीयव्यञ्जनम् स्यात् इति आवश्यकम् ।

2. उत्तरपदे कवर्गं विहाय अन्ये वर्णाः सन्ति चेत् ते अट्-पु-आङ्-नुम्-एतेषु केचन एव भवेयुः । अन्यः कश्चन वर्णः भवति चेत् णत्वं नैव सम्भवति । यथा - "चन्द्रकलानाम्" अत्र पूर्वपदे यद्यपि रेफः विद्यते, तथा च उत्तरपदे यद्यपि ककारः विद्यते तथापि लकारः अपि अस्ति, यस्य व्यवधानम् णत्वं बाधते । अतः अत्र णत्वं न भवति ।

3. प्रश्नः - अस्मिन् सूत्रे "कुमति च" इत्यस्य स्थाने "कौ च" इत्युच्यते चेत् कः दोषः ?
उत्तरम् - यदि "कौ च" इति स्यात्, तर्हि यस्मिन् विधिस्तदादौ अल्ग्रहणे अनया परिभाषया केवलम् "यस्य उत्तरपदस्य कवर्गीयवर्णेन प्रारम्भः भवति, तस्य विषये एव णत्वं स्यात्" इति अर्थः सिद्ध्येत् । अस्यां स्थितौ "खरयुगिणौ, सर्वयोग्येण" - एतादृशेषु शब्देषु णत्वं न जायेत । अतः अत्र "कुमति" इति मतुप्-प्रत्ययान्तप्रयोगः क्रियते । अनेन प्रयोगेण यस्मिन् उत्तरपदे कवर्गीय-वर्णः (कुत्रापि) विद्यते, तस्य विषये अस्य सूत्रस्य प्रयोगावसरः निश्चयेन विद्यते ।

विशेषः - कालिदासकृते मेघदूते प्रथमश्लोके "वर्षभोग्येण" इति शब्दः विद्यते । अत्र विभक्तिस्थस्य नकारस्य णत्वम् अनेनैव सूत्रेण भवति । अत्र पूर्वपदे णत्वनिमित्तकः षकारः (रेफश्च) विद्यते, उत्तरपदे च गकारः, तथा च "भ् , ओ, य् , ए" एतेषां व्यवधानं वर्तते । अतः अत्र वर्तमानसूत्रेण णत्वं भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कवर्गवति च उत्तरपदे प्रातिपदिकान्तनुंविभक्तिषु पूर्वपदस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। वस्त्रयुगिणौ। वस्त्रयुगिणः। स्वर्गकामिणौ। वृषगामिणौ। नुमि वस्त्रयुगाणि। खरयुगाणि। विभक्तौ वस्त्रयुगेण। खरयुगेण।
अनेकाजुत्तरपदार्थ आरम्भः। चकारः `प्रातिपदिकान्तनुम्विभक्षि च` 8|4|11 इत्यनुकर्षणार्थः। तेनोत्तरत्रानुवृत्तिर्न भवति चानुकृष्टपरिभाषया (व्या।प।76)। `वस्त्रयुगिणौ` इति। `अत इनिठनौ` 5|2|114 इतीनिः। `को` इति कत्र्तव्ये कुमतीति वजनमकवर्गादावपि यता स्यात्; इतरथा हि `यस्मिन्विधिस्तदावल्ग्रहणे` (व्या।प।127) इति कवर्गादेरेव स्यात्। दपन वापः, कुम्भस्य वापः कुम्भवापः, माषाणां कुम्भवापो माषकुम्भवापः--`अत इतिठनौ` 5|2|114 इतीनिः। माषकुम्भवापिणावित्यत्र स्यात्, वस्त्रयुगिणाअवित्यत्र न स्यादिति॥
अनेकाजुतरपदार्थोऽयमारम्भः । वस्त्रयुगिणाविति । युगशब्दादिनि कृते पश्चादिन्नन्तेन समासः कर्तव्यः । एवं तर्हि उतरपदस्य प्रातिपदिकस्यान्तो नकारो भवति; अन्यथा मातृभोगीणवल्लक्षणान्तरेणैव णत्वं सिद्धं स्यात्, ठ्कौऽ इत्युच्यमानेऽपि कवर्गमात्रस्योतरपदस्यासम्भवान्मतुबर्थो लभ्यते, नार्थो मतुपा ? सत्यम्; ठ्कौऽ इत्युच्यमाने तदादिविधिविज्ञायेत---कवर्गादावुतरपद इति ॥
सिद्धान्तकौमुदी
कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि । हरिकामेण ॥
कुमति च - कुमति च । प्राग्वदिति । प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं मत्वं स्यादित्यर्थः । अनेकाजुत्तरपदार्थमिदम् । हरिकामिणाविति । "बहुलमाभीक्ष्ण्ये" इति णिनिः । प्रातिपदिकान्तत्वाण्णत्वम् । हरिकामाणीति । अजन्तलक्षणनुमो नित्यं णत्वम् । हरिकामेणेति । विभक्तिस्थस्योदाहरणम् ।
कुमति च - कुमति च । अनेकाजुत्तरपदार्थ आरम्भः ।कौ॑ इत्येव तु न सूत्रितम् ।यस्मिन्विधि॑रिति तदादिविधौ कवर्गाद्युत्तरपद एव हरिकामाणीत्यादावयं विधिः स्यान्न तु वस्त्रयुगेणेत्यादौ, तथा च लमतुबन्तनिर्देश आवश्यक इत्याह — कवर्गवतीति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कुमति च अथेह कथं भवितव्यं-माषकुम्भवापेण व्रीहिकुम्भवापेणेति, नित्यं णत्वेन भवितव्यमाहोस्विद्विभाषया(3)?।। यदा तावदेतद्वाक्यं भवति ‐ कुम्भस्य वापः कुम्भवापः, माषाणां कुम्भवापो माषकुम्भवाप इति, तदा नित्यं णत्वेन भवितव्यम्। यदा त्वेतद्वाक्यं भवति,-माषाणां कुम्भो माषकुम्भः, माषकुम्भस्य वापो माषकुम्भवाप इति,-तदा विभाषया भवितव्यम्।।