Page loading... Please wait.
8|4|1 - रषाभ्यां नो णः समानपदे
॥ तस्मै पाणिनये नमः ॥
8|4|1
SK 235
रषाभ्यां नो णः समानपदे   🔊
सूत्रच्छेदः
रषाभ्याम् (पञ्चमीद्विवचनम्) , नः (षष्ठ्येकवचनम्) , णः (प्रथमैकवचनम्) , समानपदे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
समानपदे रषाभ्याम् नः णः संहितायाम्
सूत्रार्थः
समानपदे रेफात् षकारात् वा परस्य नकारस्य संहितायाम् णत्वं भवति ।
रेफः / षकारः यस्मिन् पदे अस्ति, तस्मिन्नेव पदे रेफात् षकारात् वा परः नकारः वर्तते चेत् तस्य णकारादेशः भवति ।

यथा - पुष् + ना + ति = पुष्णाति । चतुर् + नाम् → चतुर्ण्णाम् ।

अस्मिन् सूत्रे समानपदे इति किमर्थम् उक्तम् अस्ति? यदि रेफः / षकारः यस्मिन् पदे अस्ति तस्मिन् पदे नकारः नास्ति, तर्हि नकारस्य णत्वं न भवति । यथा -
अग्नि सुँ + नयति
→ अग्निर् + नयति [ससजुषो रुँः 8|2|66 इति विसर्गस्य रुत्वम् । ]
→ अग्निर्नयति [समानपदं नास्ति, अतः नकारस्य णत्वं न भवति ।]

अत्र एकं वार्तिकमपि ज्ञातव्यम् - ऋवर्णात् नस्य णत्वं वाच्यम् । इत्युक्ते, ऋकारात् परस्य अपि नकारस्य णकारादेशः भवति । यथा - तिसृ + नाम् → तिसृणाम् । पितृ + नाम् → पितॄणाम् ।
One-line meaning in English
a नकार occurring immediately after ष् or र् in the same पद is converted to a णकार.
काशिकावृत्तिः
रेफषकाराभ्याम् उत्तरस्य् नकारस्य णकारादेशो भवति, समानपदस्थौ चेन् निमित्तनिमित्तिनौ भवतः । आस्तीर्णम् । विशीर्णम् । अवगूर्णम् । षकारात् कुष्णाति । पुष्णाति । मुष्णाति । षग्रहणम् उत्तरार्थम्, ष्टुत्वेन एव हि सिद्धम् एतत् । समानपदे इति किम् ? अग्निर्नयति । वायुर्नयति । ऋवर्णाच् च इति वक्तव्यम् । तिसृणाम् । चतसृणाम् । मातॄणाम् । पितॄणाम् । रश्रुतिसामान्यनिर्देशात् वा सिद्धम् । अवर्नभक्त्या च व्यवधानेऽपि णत्वं भवति इति क्षुभ्नादिषु नृनमनतृप्नोतिग्रहणं ज्ञापकम् । अथवा ऋवर्णादपि णत्वं भवति इति एतदेव अनेन ज्ञाप्यते ॥
`समानपदस्थौ चेत्` इत्यादि। समानशब्दोऽयमेकपर्यायः। समानम्ेकम्, अभिन्नमित्यर्थः। समानञ्च तत्? पदञ्चेति कर्मधारयः; तत्र तिष्ठत इति समानपदस्थौ, `सुपि स्थः` 3|2|4 इति कप्रत्ययः। अत्र निमित्तं रेफः षकारश्च। तन्निमित्तं यस्यास्तीति णत्वभावेन विपरिणतौ साध्यायां स निमित्ती नकारः। तेनैतदुक्तं भवति--यत्र पदे रेफषकारौ स्तस्तत्र यदि नकरोऽपीत्यर्थः। `आस्तीर्णम्, विशीर्णम्` इति। `स्तृञ्? आच्छादने` (धातुपाठः-1484), `शृ हिंसायाम्` (धातुपाठः-1488)। व्याङ्पूर्वाभ्यां निष्ठा; `श्रुयुकः किति` 7|2|11 इट्प्रतिषेधः। `ऋत इद्धातोः` 7|1|100 इतीत्त्वम्; रपरत्वञ्च। `अवगूर्णम्` इति। `गुरी उद्यमने` (धातुपाठः-1396), `आईदितो निष्ठायाम्` 7|2|14 इतीट्प्रतिषेधः। `हलि च` 8|2|77 इति दीर्घः, `रदाभ्यां निष्ठातो नः` 8|2|42 इति तकारस्य नकारः, तस्यानेनैव णत्वम्। `कुष्णाति, पुष्णाति` इति। `कुष निष्कर्षे` (दा।पा।1518), `पुष पुष्टौ` (धातुपाठः-1529)। श्नाप्रत्ययः। `षग्रहणमुत्तरार्थम्` इति। अथैतदर्थमपि कस्मान्न भवति? इत्याह--`ष्टुत्वेनैव सिद्धत्वात्` इति। यद्येवम्, कुष्णातीत्यादेरुपन्यासः किमर्थः? उत्तरार्थं षग्रहणं क्रियमाणमेतदर्थमपि भवतीति प्रदर्शनार्थः। असति षग्रहणे कुष्णातीत्येवमादौ ष्टुत्वेनैव सिद्धिर्भवति। सति च तस्मिन्नुत्तरार्थ आरभ्यमाणेऽनेनैव णत्वं कत्र्तदव्यम्। अस्मिन्? कत्र्तव्ये ष्टुत्वस्यासिद्धत्वादन्यत्र चरितार्थत्वान्न च परत्वमुपपद्यते; `पूर्वत्रासिद्धीये नास्ति विप्रति, विप्रतिषेधोऽभावादुत्तरस्य` (जै।प।षृ।67) इति। `ऋवर्णाच्चेति वक्तव्यम्` इत्यादि। रषाभ्यां णत्वमुच्यमानमृवर्णान्न प्राप्नोति, तस्य वर्णान्तरत्वात्। न च शक्यते वक्तुम्--ऋवर्णस्थाद्रेफाद्भविष्यति, वर्णो हि रेफः सूत्रे णत्वं प्रति निमित्तत्वेनाश्रितः। न हि ऋवर्णस्थो रेफो वर्णः, किं तर्हि? वर्णैकदेशः; तदेकदेशत्वात्, न हि वर्णेकदेशो वर्णग्रहणेन गृह्रते। तथा चोक्तम्--`वर्णेषु ये वर्णैकदेशा वर्णान्तरसमानाकृतयस्येषु तत्कार्यं न वति। तच्छायानुकारिणो हि ते, न पुनस्त एव। पृथक्प्रयत्ननिर्वर्त्त्य वर्णमिच्छन्त्याचार्याः` इति। तस्मात्? `ऋषर्णाच्च` इति वक्तव्यम्। `तिसृणाम्, चतसृणाम्` इति। `त्रिचतुरोः स्त्रियां तिसृचतसृ` 7|2|99 इत्येतावादेशौ भवतः। `न तिसृचतसु` 6|4|4 इति निषेधात्? `नामि` 6|4|3 इति दीर्घत्वं न भवति। `रश्रुतिसामान्यनिर्देशात्? सिद्धम्` इति। अनेनोपसंख्यानं प्रत्याचष्टे। `र` इतीह श्रुतिरुपलब्विर्यस्येति बहुव्रीहिः। अथ वा--श्रुयत इति श्रुतिः, रश्चासौ श्रुतिश्चेति रश्रुतिः। तस्याः केवलाया ऋवर्णस्थायाश्च वर्णत्वावर्णत्वकृतभेदमुत्सृज्य यत्? सामान्यं रश्रुतिमात्रं तदिह निर्दिश्यते, न तु वर्णात्मिकैव रेफब्यक्तिः। तेनेह सिद्धं तिसृणामित्यादावपि णत्वम्; ऋवर्णे हि तस्य रश्रुतिसामान्यस्य विद्यमानत्वात्। स्यादेतत्--ऋकारे त्रयोऽज्भागाः सन्ति, तन्मध्यवर्ती तुरीयो रेफः, तत्र रश्रुतिसामान्यनिर्द्देशादपि नैव णत्वं सिध्यति; योऽसौ रेफात्? परोऽज्भागस्तेन व्यवधानात्? इत्यत आह--`अवर्णभाक्` इत्यादि। यदयं क्षुम्नादिषु णत्वप्रतिषेधार्थं नुनमनतृप्नोतिग्रहणं करोति तेनैतज्ज्ञाप्यते--अवर्णभागव्यवधानेऽपि णत्वं भवतीति, अन्यथैतयोः पाठोऽनर्थकः स्यात्; प्राप्त्यभावात्, प्राप्तिपूर्वकत्वात प्रतिषेधानामिति। इदानीं यद्यपि वर्णास्मिकैव रेफव्यक्तिर्निर्द्दिश्यते, तथापि णत्वं भवतोति दर्शयितुमाह--`अथ वा` इत्यादि। पूर्वं सूत्रोपात्ताद्रश्रुतिसामान्यनिर्द्देशादवर्णभागव्यवधानेऽपि णत्वं भवतीति ज्ञापितम्। सम्प्रति तु सूत्रानुपात्तादृवर्णादव्यवहिताद्भवतीत्येव विशेषः। शथ किमर्थं णग्रहणम्? यावता प्रकृतोऽत्र मूर्धन्योऽनुवर्त्तिष्यते। स एव विधेयः; तत्रान्तरतम्यान्नकारस्य णकार एव भविष्यति? सत्यमेतत्; पूर्वसूत्रे मूर्धन्यग्रहणं निषेधेन सम्बद्धम्, अतसतदनुवृत्तौ तस्याप्यनुवृत्तिराशङ्क्येत। तस्मात्? प्रतिषेधशङ्कानिरासार्थं पुनग्र्रहणं निषेधेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिराशङ्क्येत। तस्मात्? प्रतिषेधशङ्कानिरासार्थं पुनग्र्रहणं कृतम्। ननु च प्राप्त्यभावादेव प्रतिषेधशङ्का न भविष्यति; प्राप्तिपूर्वका हि प्रतिषेधा भवन्ति, न च केनचिद्रषाभ्यामुत्तरस्य मूर्धन्यप्राप्तिरस्ति? सत्यमेतत्, अस्मादेव प्रतिषेधाद्विधिरनुमीयत इति। अथ वा अनन्तरसूत्रे `वा` इति। वचनाद्विकल्पेनायं विधिर्विज्ञायते। तस्माद्विकल्पनिवृत्त्यर्थम्, विस्पष्टार्थ वा॥
निमितयोरादेशे चकार उच्चारणार्थः । समानं च तत्पदं समानपदम् । निमितनिमितिनोश्चायमाधारनिर्द्देशः । तदाह---समानपदस्थो चेदिति । एकपर्यायः समानशब्दः । निमिते रषौ, निमिती नकारः । यद्यप्यसौ प्रागेव सिद्धस्वरूपः, तथापि तत्स्थाने भवतो णकारस्य यन्निमितम्, तस्यापि तेन सम्बन्धोऽस्त्येव । णकार एव वा निमिती, तस्य तु विधानोतरकालं समानपदस्थत्वम् । षग्रहणमुतरार्थमिति । अडादिव्यवाये णत्वं वक्ष्यति, तदस्मादपि यथा स्यात् । अथेहार्थमपि कस्मान्न भवति ? अत आह---ष्टुअत्वेनैव सिद्धमेतदिति । ऋवर्णाच्चेति वक्तव्यमिति । रषाभ्यां णत्वमुच्यमानमृकारान्न प्राप्नोति वचनम् । न च शक्यं वक्तुम्---ऋवर्णस्थाद्रेफाद् भविष्यतीति । वर्णो ह्यत्र रेफः सूत्र उपातः, षकारेण साहचर्यात् । न च वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते । तिसृणामिति । ठ्न तिसृचतसृऽ इति प्रतिषेधात् ठ्नामिऽ इति दीर्घत्वाभावः । ततर्हि वक्तव्यम् ? नेत्याह---रश्रुतिसामान्यनिर्देशात्सिद्धमिति । र इति श्रुतिःउश्रोत्रेणोपलब्धिर्ययोस्ते रश्रुतीउवर्णात्मिका चावर्णात्मिका च व्यक्तिः, तयोर्यत्सामान्यं तन्निदिश्यते; न तु वर्णात्मिकैव व्यक्तिरित्यर्थः । नन्वेवमपि ऋकारे त्रयो भागा अभितोऽज्भक्तिर्मध्ये रेफभक्तिर्मात्रा चतुर्भागात्मिका, ततश्च परयाज्भक्त्या व्यवधानान्न प्राप्नोति ? ठड्व्यवायेऽ इत्येवं भविष्यति । न पराज्भक्तिरट्सन्निविष्टा, सा ह्यर्द्धमात्रा चतुर्भागात्मिका ऋकारभक्तिः । न च तस्याः सवर्णग्रहणेन नाप्यड्ग्रहणेन ग्रहणम्; असवर्णत्वात्, न हि तस्याः स्थानं प्रयत्नो वा पृथगस्ति । तस्मात्सामान्यनिर्दशेऽपि नै णत्वं सिध्यति, अत आह---वर्णभक्त्याचेति । वर्णस्य समुदायस्यावयवभूता या पराज्भक्तिस्तयेत्यर्थः । ननु च नृनमनग्रहणं वृद्ध्यर्थं स्यात्---नृनमनस्यापत्यं नार्नमनिरिति ? नैतदस्ति; बहिरङ्गा वृद्धिः, अन्तरङ्गं णत्वम्, ठसिद्धं बहिरङ्गमन्तरङ्गेऽ । अथ वेति । व्यक्तिनिर्द्देशेऽपि दोष इत्यर्थः । अपरः प्रकारः---अभितोऽज्भक्ती चतुर्भागात्मिके, मध्ये शुद्धो रेफोऽर्धमात्रात्मकः, तेन व्यक्तिनिर्देशेऽप्यदोष इत्यर्थः । ननु च परयाज्भक्त्या व्यवधानम् ? एवं तर्हि उतरसूत्रे योगविभागः करिष्यते---ठ्व्यवायेऽपिऽ इति, व्यवायेऽपि णेत्वं भवति; ततः ठट्कुप्वाङ्नुम्भिःऽ इति । इदमिदानीं किमर्थम् ? नियमार्थम्---वर्णात्मकैर्व्यवाये यदि भवति अडादिभिरेवेति । ठपदान्तस्य मूर्धन्यःऽ इत्यधिकारादत्र णग्रहणं शक्यमकर्तुम् । उतरत्र च ठ्पदान्तस्यऽ इति प्रतिषेधः ॥
सिद्धान्तकौमुदी
एकापदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात् । यूष्णः । यूष्णा । पूर्वस्मादपि विधौ स्थानिवद्भाव इति पक्षे त्वड्व्यवाय इत्येवात्र णत्वम् ॥पूर्वत्रासिद्धये न स्थानिवदिति तु इह नास्ति (वार्तिकम्) ॥ ।तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति निषेधात् (वार्तिकम्) ॥
रषाभ्यां नो णः समानादे - रषाभ्याम् । रषाभ्यामिति दिग्योगे पञ्चमी । परस्येत्यद्याहार्यम् । समानशब्द एकपर्यायः । यथा-॒समानग्रामा वय॑-चेहाऽखण्डत्वं विवक्षितं, पदे इत्येतावतैव सिद्धे समानग्रहणसामथ्र्यात् । अन्यथा रामनामेत्यादौ "अट्कुप्वाङ्" इति णत्वापत्तिः । एतस्यैव समानपदशब्दस्य तत्राप्यनुवृत्तेः । "मातृभोगीणः" इत्यत्र णत्वं तु तद्धिताधिकारे वक्ष्यते । यूष्ण इति । शसि रूपम् । यूष्णेति । तृतीयैकवचनम् । नचाऽल्लोपस्य स्थानिवद्भावान्नकारस्य षात्परत्वं नेति शङ्क्यं,रषाभ्या॑मिति षात्परस्य हि नस्य णत्वे कर्तव्येऽल्लोपस्य स्थानिवद्भावो नापेक्षितः । किंतु णत्वाऽभावे तदपेक्षा । णत्वाऽभावश्चाऽशास्त्रीयत्वान्नाऽतिदेश्यः । स्थानिति सति यत्कार्यं भवति तदेव हि स्थानिवत्सूत्रेणातिदिश्यते ।स्थानिनि सति यन्न भवति तदादेशेऽपि न भवती॑त्येवं कार्याऽभावस्त्वशास्त्रीयत्वान्नातिदिश्यते इति स्थानिवत्सूत्रेऽवोचाम । यद्यप्यचः परस्मिन्नित्यत्राऽशास्त्रीयः कार्याभावोऽप्यतिदिश्यत इत्यभ्यधायि, तथापि नेह तस्यापि सूत्रस्य प्रवृत्तिरिति । स्थानीभूतादचः पूर्वत्वेन दृष्टस्यैव विधौ तत्प्रवृत्तेः । इह चाऽल्लोपस्थानीभूतादकारात्परस्यैव णत्वविधानादिति भावः । नन्वचः परस्मिन्निति सूत्रे स्थानीभूतादचः पूर्वस्मात्परस्य विधावजादेशः स्थानिवदिति पक्षोऽपि भाष्ये स्थितः । एवञ्चात्र लोपादेशस्थानीभूतादकारात्पूर्वो यः षकारस्तस्मात्परस्य नकारस्य णत्वविधौ लोपस्य स्थानिवद्भावे सत्यकारेण व्यवधानात्षात्परत्वाऽभावात्कथं णत्वमित्यत आह — पूर्वस्मादिति । पक्षे त्वित्यादिनाऽस्य पक्षस्याऽनित्यत्वं सूचितम् । अत एव प्रविगणय्येति भाष्ये प्रयुक्तं सङ्गच्छते । चुरादौ "गण सङ्ख्याने" इत्यदन्तो धातुः । णिच् । अतो लोपः । अल्लोपस्य स्थानिवद्भावात् "अत उपधायाः" इति वृद्धिर्न । ण्यन्तात्क्त्वो ल्यपिणिलोपं बाधित्वाल्यपि लघुपूर्वा॑दिति णेरयादेशः । पूर्वस्मात्परस्य विधौ स्थानिवद्भावस्य नित्यत्वे इहल्यपि लघुपूर्वा॑दिति णेरयादेशो न स्यात् । लोपस्थानीभूतादतः पूर्वस्मात्परस्य णेरयादेशविधावल्लोपस्य स्थानिवद्भावे सति अता व्यवहितत्वेन णेर्लघुपूर्वाण्णकारात्परत्वाऽभावात् । तस्मादचः परस्मिन्नित्यत्र पूर्वस्मात्परस्य विधौ स्थानिवद्भावस्याऽनित्यत्वं विज्ञायते । एवं च गोशब्दात्संबुद्धौ ओतो णित्त्वे वृद्धौ हेगौ॑रिति सिध्यति । अन्यथा औकारस्य स्थानीभूतादोकारात्पूर्वो यो गकारस्तस्मात्परस्याः सम्बुद्धेर्लोपलिधौ स्थानिवद्भावे ओकारादेङः परत्वात्संबुद्धिलोपः स्यादिति शब्देन्दुशेखरे स्पष्टम् । अड्व्यवाये इत्येवेति ।अट्कुप्वाङि॑ति सूत्रेणैवेत्यर्थः । षादव्याबहितपरस्य नस्य णत्वविधावुदाहरणं तु — पुष्णातीत्यादि बोध्यम् । वस्तुतस्तुतत्रापि ष्टुत्वेनैव सिद्धे षग्रहणमुत्तरार्थ॑मिति स्पष्टमाकरे । नन्वल्लोपस्य णत्वे कर्तव्ये कथं स्थानिवद्भावः, पूर्वत्रासिद्धे न स्थानिवदिति निषेधात् । णत्वस्य पूर्वत्रासिद्धीयत्वादित्यत आह — पूर्वत्रेति । संयोगादिलोपे लत्वे च कर्तव्ये, तस्य=॒पूर्वत्रासिद्धे न स्थानिव॑दित्यस्य, दोषः=बाधः । अप्रवृत्तिरिति यावत् ।सयोगादिलोपे यथा-चक्रयत्र । इह "अचः परस्मिन्" इति यणादेशस्य स्थानिवद्भावात्स्कोः संयोगाद्यो॑रिति ककारलोपो न । लत्वे यथा-निगाल्यते । अत्र णिलोपस्य स्थानिवत्त्वात्अचि विभाषे॑ति लत्वम् । णत्वे यथा-माषवपनी । वपतेर्ल्युट्, अनादेशः , उगित्त्वान्ङीप्,यस्येति चे॑ति नकारा दकारस्य लोपः । इह अकारलोपस्य स्थानिवत्त्वेन नकारस्य प्रातिपदिकान्तत्वाऽभावात्प्रातिपदिकान्तनुम्विभक्तिषु चे॑ति णत्वं न । यूषन्-भ्यामिति स्थिते ।
रषाभ्यां नो णः समानादे - रषाभ्यां नो णः । अत्रअपदान्तस्य मूर्धन्यः॑ इत्यनुवर्त्त्य णप्रहणं,पदान्तस्ये॑ति सूत्रं च भाष्ये प्रत्याख्यातम् । समानपदे इति । निमित्तनिमित्तनोरपदस्थत्वाऽसंभवात्पदे इतीयतैव सामथ्र्यादेकपदत्वे लब्धे समानग्रहणं यत्समानमेव पदं, निमित्तवत्पदभिन्नपदस्थत्वाऽभावादिति यावत्, तत्र यथा स्यादित्येतदर्थम् । तेन समासेरामनाम॑गन्धर्वगान॑दित्यादौ न भवति । तत्र हि नकारस्यैकपदवृत्तित्वेऽपि निमित्तवत्पदभिन्नपदस्थत्वात् । भवति हियूष्ण॑ इत्यादौ णत्वम्, निमित्तवत्पदभिन्नपदत्वाऽभाववद्वृत्तित्वान्नाकारस्य ।मातृभोगीण॑ इत्यादावपि नस्य णत्वं भवत्येव, प्रत्ययवृत्तित्वेऽपि निमित्तवत्पदभिन्नपदस्थत्वाऽभावात् । एतेन समानग्रहणमखण्टपदलाभार्थमिति व्याख्यायरामनामे॑त्यादावपिप्रसङ्गे निवारितेऽपिमातृभोगीण॑ इत्यादावव्याप्तिः स्यादेवेति केषांचिदुक्तिः परास्ता । उक्तरीत्या त्वव्याप्तिशङ्काया निरस्तत्वात् । यूष्ण इति । यूषो मण्डः ।मुद्रामलकयूषस्तु भेदी दीपनपाचनः॑ इति दर्शनात् । पूर्वत्रासिद्धे न स्थानिवदिति । एतच्च न्यायसिद्धं, त्रिपाद्या असिद्धत्वेन तत्रत्ये कर्तव्येअचः परस्मि॑न्नित्यतिदेशस्याऽप्रवृत्तेः । तस्येति । तस्यपूर्वत्रासिंद्धे ने॑त्यस्य । तथाच स्थलत्रये स्थानिवद्भावो वक्तव्य इत्यर्थः । संयोगादिलोपे — चक्र्यत्र । इहअचः परस्मि॑न्निति यणादेशस्य स्थानिवत्त्वात्स्कोः॑ इति कलोपो न । लत्वे-निगाल्यते । अत्र णिलोपस्य स्थानिवत्त्वादचि विभाषे॑ति लत्वम् । णत्वे-माषवपनी । इहयस्येति चे॑त्यल्लोपस्य स्थानिवत्त्वेन नकारस्य प्रातिपदिकान्तत्वाऽभावाण्णत्वं न । ननुगर्गभगिनी॑त्यत्रेवमाषवपनी॑त्यत्रापि णत्वप्राप्तिर्नास्त्येव,उत्तरपदं यत्प्रातिपदिकं तदन्तस्ये॑ति वक्ष्यमाणत्वात् । अत्राहुः-॒साधनं कृते॑ति ल्युडन्तेन समासे पश्चान्ङीपियस्येति चे॑त्यल्लोपे कृते नकारस्योत्तरपदान्तत्वाण्णत्वप्राप्तिरस्त्येवेति । स्यादेतत्यूष्ण॑ इत्यादौरषाभ्या॑मित्यस्य नोपयोगः, ष्ठुत्वेनैव रूपसिद्धेः । अतएव चषग्रहणमुत्तरार्थं॑मित्याकरे स्थितिमिति चेदुच्यते, उत्तरार्थतयाऽपीह षग्रहणं स्थितं, ततश्चयूष्णः॑पुष्णाती॑त्यादौरषाभ्या॑मिति णत्वस्य प्रवृत्तिः केन वार्यताम् । ष्टुत्वेनेति चेन्न, तस्याऽसिद्धत्वात् । न च वचनप्राभाण्यात्सिद्धत्वं शङ्क्यम्,पृष्टः॑पुष्टिः॑षष्ठः॑ इत्यादौ चरितार्थत्वात् ।नस्य षयोगे ण॑ इत्यंशोऽचरितार्थ इति चेन्न, तस्य पृथगनुक्तेः । इह षात्परस्येत्युक्तिप्यचरितार्थेत्यस्यापि तुस्यत्वाच्च । एवमप्युत्तरार्थं षग्रहणमित्याकरो विरुध्यत इति चेन्न, आकरे हीह षग्रहणं विना पुष्णातीत्यादिलक्ष्यस्याऽसिद्धिर्नास्तीत्येतावदभिप्रेतं, न तुपुष्णाती॑त्यादौरषाभ्या॑ मित्यस्याऽप्रवृत्तिरिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
रषाभ्यां नो णः समानपदे ।। रषाभ्यां णत्वे ऋकारग्रहणम्।। रषाभ्यां णत्वे ऋकारग्रहणं कर्तव्यम्। रषाभ्यां नो णः समानपदे ऋकाराच्चेति वक्तव्यम्। इहापि यथा स्यात्-मातॄणां पितॄणामिति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। योऽसावृकारे रेफस्तदाश्रयं णत्वं भविष्यति।। न सिध्यति।। किं कारणम्?।। न हि वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते।। एकदेशे(1) नुडादिषु चोक्तम्।। किमुक्तम्?।। अग्रहणं(2) चेन्नु॰्विधिलादेशविनामेष्वृकारग्रहणमिति। तस्माद्गृह्यन्ते(1)।। एवमपि न सिध्यति।। किं कारणम्?।। अननन्तरत्वात्। यत्तद्रेफात्परं भक्तेस्तेन व्यवहितत्वान्न प्राप्नोति।। अड्व्यवायेः इत्येवं भविष्यति।। न सिध्यति।। किं कारणम्?।। वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते ये व्यपवृक्ता अपि वर्णा भवन्ति। यच्चात्र रेफात्परं भक्तेर्नतत्क्वचिदपि व्यपवृक्तं दृश्यते।। एवं तर्हि योगविभागः करिष्यते-रषाभ्यां नो णः समानपदे। ततो व्यवाये। व्यवाये च रषाभ्यां नो णो भवतीति। तत अट्कुप्वाङ्नुम्भिरिति।। इदमिदानीं किमर्थम्?।। नियमार्थम्-एतैरेवाक्षरसमाम्नायिकैर्व्यवाये नान्यैरिति। अथ वाऽऽचार्यप्रवृत्तिर्ज्ञापयति भवति ऋकाराण्णत्वमिति यदयं क्षुभ्नादिषु नृनमनशब्दं पठति।। नैतदस्ति ज्ञापकम्। वृद्ध्यर्थमेतत्स्यात्-नार्नमनिरिति। यत्तर्हि तत्रैव तृप्नोतिशब्दं पठति।। यच्चाऽपि नृनमनशब्दं पठति।। ननु चोक्तंवृद्ध्यर्थमेतत्स्यादिति। बहिरङ्गा वृद्धिरन्तरङ्गं णत्वम्। असिद्धं बहिरङ्गमन्तरङ्गे। अथ वोपरिष्टाद्योगविभागः करिष्यते। (इदमस्ति(1)छन्दस्यृदवग्रहादिति। ऋतः।) ऋतो (उत्तरस्य(2))नो णो भवति। ततः छन्दस्यृवग्रहात्। ऋत इत्येव।।