Page loading... Please wait.
8|3|87 - उपसर्गप्रादुर्भ्यामस्तिर्यच्परः
॥ तस्मै पाणिनये नमः ॥
8|3|87
SK 2472
उपसर्गप्रादुर्भ्यामस्तिर्यच्परः   🔊
सूत्रच्छेदः
उपसर्गप्रादुर्भ्याम् (पञ्चमीद्विवचनम्) , अस्तिः (प्रथमैकवचनम्) , यच्परः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108 अपदान्तस्य मूर्धन्यः  8|3|55 इण्कोः  8|3|57
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उपसर्गस्थान् निमित्तात् प्रादुस्शब्दाच् च उत्तरस्य यकारपरस्य अच्परस्य च अस्तिसकारस्य मूर्धन्यो भवति। अभिषन्ति। निषन्ति। विषन्ति। प्रादुःषन्ति। अभिष्यात्। निष्यात्। विष्यात्। प्राडुःष्यात्। उपसर्गातिति किम्? दधि स्यात्। मधु स्यात्। अस्ति इति किम्? अनुसृतम्। विसृतम्। अथ असत्यपि अस्तिग्रहणे सकारम् एव प्रति उपसर्ग आश्रीयते, प्रादुःशब्दस्य च कृभ्वस्तिष्वेव प्रयोगः इति अन्यत्राप्रसङ्गः? तथापि एतत् प्रत्युदाहर्तव्यम्, अनुसूते अनुसूः, अनुस्वो ऽपत्यं आनुसेयः। शुभ्रादित्वाड् ढक् 4|1|123, ढे लोपो ऽकद्र्वाः 6|4|147 इति उवर्नलोपः। यच्परः इति किम्? निस्तः। विस्तः। प्रादुस्तः।
इदमपि पूर्ववदप्राप्ते वचनम्। यश्चाच्च तौ यचौ, चचौ परो यस्मात्? स यच्परः। प्रादुःशब्दस्यानुपसर्गत्वात्? पृथग्ग्रहणम्। `अभिषन्ति` इति। `अस भुवि` (धातुपाठः-1065) अदादित्वाच्छपो लुक्, `श्नसोरल्लोपः` (6। 4।111) इत्यकारस्य। `अभिष्यात्` इति। लिङ्। अनुसुनम्` इति। `सृ गतौ` (धातुपाठः-935)। ननु च सकारस्य प्रृतत्वात्? तमेव प्रत्युपसर्गत्वमाश्रीयते, न चानुसृतमित्यत्र यः सकारस्तं प्रत्यनुशब्दल्योपसर्गसंज्ञा; तन्मात्रस्यऽक्रियावचनत्वात्, क्रियावचनं च प्रति प्रादीनामुपसर्गसज्ञाविधानात्। `ये प्रति क्रियुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्ति` (म।भा।1.4.40) इति वचनात्। तस्मादसत्यप्यस्तिग्रहणे नैवात्र मूर्धन्यः प्रसज्येत। तत्किमस्तिग्रहणेन? तत्रैतत्? स्यात्--असति तस्मिन्? प्रादुःशब्दादुत्तरस्य धात्वन्तरसकारस्य भूर्धन्यः प्राप्नोति; अतस्तन्निवृत्त्यर्थमस्तिग्रहणम्, एतच्च नास्ति; प्रादुःशब्दस्य नियतविषयत्वात्। स हि सर्वदा कृभ्वस्तिथिषय एव प्रयुज्यते। तत्? कुतोऽयं प्रसङ्ग इति यो देशयितुकामस्तदीयं मतम्? `अथ` इत्यादिना दर्शयति। प्रत्युदाहरणान्तरं वक्तुकाम आह--`अन्यत्र` इति। अनुसुतमित्यत्र प्रत्युदाहरणे। `तथापि` इति। एवमपीत्यर्थः। एतेनैतद्दर्शयति--एवमपि कल्प्यमानेऽस्तिग्रहणन्यानुसेय इत्येतत्? प्रत्युदाहरणमस्त्येव। तस्मात्? कत्र्तव्यमेवास्तिग्रहणम्। `षूङ्? प्राणिगर्भविमोचने` (धातुपाठः-1031) इत्येतस्मादनुपूर्वात्? क्विप्, अनुसूत इत्यनुसूः, तस्यापत्यं शुभ्रादित्वात्? 4|1|123 ढक्, एयादेशः, `ढे लोपेनाऽकद्रवाः` 6|4|147 इत्यूकारलोपः। अत्र सकारं प्रत्यनुशब्दस्योपसर्गसंज्ञेत्यसत्यस्तिग्रहणे [संज्ञेत्यस्तिग्रहणे--कांउ।पाठः] स्यादेव मूर्धन्यः॥
य् च अच्च यचौ, तौ परौ यस्मात्स यच्परः । यचोरिति सप्तमीनिर्देशेनैव सिद्धे परग्रहणं चिन्त्यप्रयोजनम् । अभिषन्तीति । अदादित्वाच्छपो लुक्, ठ्श्नसोरल्लोपःऽ । अनुसृतमिति । कथं पुनरत्र प्रसङ्गः, यावता सकारस्य प्रकृतत्वातमेव प्रत्युपसर्गत्वमाश्रयिष्यते; न चात्र सकारं प्रत्युपसर्गत्वमस्ति, तावन्मात्रस्याक्रियावचनत्वात्, तत्किमस्तिग्रहणेन; न च प्रादुः शब्दार्थमस्तिग्रहणं कृतम्, तस्य कृभ्वस्तिविषयत्वेन नियतत्वात्, तदेतदाशङ्कते तावत् । तथापीति । अनुसुशब्दः शुभ्रादिः, चतुष्पाद्वचन इत्यन्ये, ततो ठक्ठञोरन्यतरः, ठ्ढेअ लोपोऽकद्र्वाऽ इत्युकारलोपे सकारमात्रस्य क्रियावाचित्वात् षत्वप्रसङ्गः ॥
सिद्धान्तकौमुदी
उसर्गेऽणः प्रादुसश्च परस्यास्तेः सस्य षः स्यारद्यकासेऽचि च परे । निष्यात् । प्रादुःष्यात् । निषन्ति । प्रादुः षन्ति । यच्परः किम् । अभिस्तः । 1066 मृजू शुद्धौ
उपसर्गप्रादुर्भ्यामस्तिर्यच्परः - उपसर्गप्रादुभ्र्याम् । उपसर्गः प्रादुस् अनयोद्र्वन्द्वः । इण्कोरित्यधिकृतम् । तत्र इण इत्युपसर्गेण संबध्यते, न प्रादुसि, ततः परस्य अस्तेः सस्य इणः परत्वाऽसंभवात् । कोरित्यपि असंभवान्न संबध्यते । अस्तिरिति षष्ठर्थे प्रथमा । "सहेः साडः सः" इत्यतः स इति षष्ठन्तमनुवर्तते, मूर्धन्य इत्यधिकृतम् । य् अच् — अनयोद्र्वन्द्वः । यचौ परौ यस्मादिति विग्रहः । यकारे अचि च परे इति लभ्यते । तदाह — उपसर्गेण इति । उपसर्गेण इति । उपसर्गस्थादिण इत्यर्थः । परस्येति । अस्तेः सस्य विशेषणमिदम्,न त्वस्तेः, तेन प्रादुरासीदित्यत्र न षत्वम् । यकारपरकत्वे उदाहरति — निष्यात् प्रादुष्ष्यादिति । प्रादुसिति सान्तमव्ययम् । सस्य षत्वे पूर्वस्य सस्य ष्टुत्वेन षः । षान्तत्वे तुप्रादुभ्र्या॑मिति रुत्वनिर्देशो नोपपद्यते । अच्परकत्वने उदाहरति — निषन्ति प्रादुष्षन्तीति । मृजूष् शुद्धाविति । ऊदित्त्वमिड्विकल्पार्थम् ।षिद्भिदादिभ्यो॑ऽङित्यङर्थं षित्त्वम् । वस्तुतस्तु भिदादिगणे मृजाशब्दपाठादेव सिद्धेरिह षित्करममनार्षमित्याहुः ।
उपसर्गप्रादुर्भ्यामस्तिर्यच्परः - उपसर्गप्रादुभ्र्याम् । प्रादुसिति सान्तमव्ययम् ।प्रादुषश्चे॑ति पाठे प्रादुभ्र्यामिति निर्देशो न युज्यते इति प्राचां षान्तपाठः प्रामादिकः । परस्येति । अयमस्तेः सस्य विशेषणं, न त्वस्तेः । तेन प्रादुरस्तीत्यत्र न षत्वम् । उपसर्गेत्यादि किम् । दधि स्यात् । अस्तेः किम् । परिसृजति । मृजू शुद्धौ । अयं न षित्, भिदादिपाठसामथ्र्यात् ।
लघुसिद्धान्तकौमुदी
उपसर्गेणः प्रादुसश्चास्तेः सस्य षो यकारेऽचि च परे। निष्यात्। प्रनिषन्ति, प्रादुः षन्ति। यच्परः किम्?। अभिस्तः॥
महाभाष्यम्
उपसर्गप्रादुर्भ्यामस्तिर्यच्परः अस्तिग्रहणं किमर्थम्?।। इह मा भूत्-अनुसृतं विसृतमिति।। नैतदस्ति प्रयोजनं-यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो न चैतं सकारं प्रति क्रियायोगः।। इहापि तर्हि न प्राप्नोति,-अभिषन्ति विषन्तीति। न ह्यस्तिः क्रियावचनः।। कः पुनराह नाऽस्तिः क्रियावचन इति। क्रियावचनोऽस्तिः। आतश्च क्रियावचनः,-व्यत्यनुषते-कर्तरि कर्मव्यतिहारे इत्यनेनात्मनेपदं भवति।। कर्मव्यतिहारश्च कः?।। क्रियाव्यतिहारः।। प्रादुःशब्दात्तर्हि मा भूत्।। प्रादुःशब्दश्च नियतविषयः कृभ्वस्तियोग एव वर्तते।। उपसर्गात्तर्हि स्यतेर्मा भूदिति।। इष्यते उपसर्गात्स्यतेः षत्वम्। आतश्चेष्यते-एवं (तर्हि(1)) ह्याह-उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्ञ्जामिति।। प्रादुःशब्दात्तर्हि स्यतेर्मा(1) भूत्।। प्रादुःशब्दश्च नियतिविषयः कृभ्वस्तियोग एव वर्तते।। इदं तर्हि प्रयोजनमिह मा भूत्-अनुसूतेरप्रत्ययः-(अनुसूः(1)), अनुस्वोऽपत्यमानुसेयः।।