Page loading... Please wait.
8|3|76 - स्फुरतिस्फुलत्योर्निर्निविभ्यः
॥ तस्मै पाणिनये नमः ॥
8|3|76
SK 2537
स्फुरतिस्फुलत्योर्निर्निविभ्यः   🔊
सूत्रच्छेदः
स्फुरतिस्फुलत्योः (षष्ठीद्विवचनम्) , निर्निविभ्यः (पञ्चमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108 अपदान्तस्य मूर्धन्यः  8|3|55 इण्कोः  8|3|57
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स्फुरतिस्फुलत्योः सकारस्य निस् नि वि इत्येतेभ्यः उत्तरस्य वा मूर्धन्यादेशो भवति। स्फुरति निष्ष्फुरति, निस्स्फुरति। निष्फुरति, निस्फुरति। विष्फुरति, विस्फुरति। स्फुलति निष्ष्फुलति, निस्स्फुलति। निष्फुलति, निस्फुलति। विष्फुलति, विस्फुलति।
`स्फुर, स्फुल सञ्चलने` (धातुपाठः-1389,1390) इति तौदादिकौ। एतयोरपि पूर्ववदप्राप्त एव मूर्धन्यो विधीयरो। श्तिपा निर्देशो धातुनिर्देशार्थं एव; न यङ्लुग्निवृत्त्यर्थः। न हि यङ्लुक्यभ्यासस्य खयः शेषे कृते निरादिब्य उत्तरः सकारः सम्भवति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
षत्वं वा स्यात् । निःष्फुस्फुरति । निःस्फुरति । स्फर इत्यकारोपधं केचित्पठन्ति । पस्फार । 1392 स्फुड 1393 चुड 1394 व्रुड संवरणे 1395 क्रुड 1396 भृड निमज्जन इत्येके 1397 गुरी उद्यमने । अनुदात्तेत् । गुरते । जुगुरे । गुरिता । 1398 णू स्तवने । दीर्घान्तः । परिणूतगुणोदयः ॥ इतश्चत्वारः परस्मैपदिनः ॥ नुवति । अनुवीत् । 1399 धू विधूनने । धुवति । 1400 गु पुरीषोत्सर्गे । जुगुविथ । जुगुथ । गुता । गुष्यति । अगुषीत् । ह्रस्वादङात् (कौमुदी-2369) । अगूताम् । अगुषुः । 1401 ध्रु गतिस्थैर्ययोः । ध्रुव इति पाठान्तरम् । आद्यस्य ध्रुवतीत्यादि गुवतिवत् । द्वितीयस्तु सेट् । दुध्रुविथ । ध्रुविता । ध्रुविष्यति । ध्रूव्यात् । अध्रुवीत् । अध्रुविष्टाम् । 1402 कुङ् शब्दे । दीर्घान्त इति कैयटादयः । कुविता । अकुविष्ट । ह्रस्वान्त इति न्यासकारः । कुता । अकुत । वृत् । कुटादयो वृत्ताः । 1403 पृङ् व्यायामे । प्रायेण व्याङ्पूर्वः । रिङ् । इयङ् । व्याप्रियते । व्यापप्रे । व्यापप्राते । व्यापरिष्यते । व्यापृत । व्यापृषाताम् । 1404 मृङ् प्राणत्यागे
स्फुरतिस्फुलत्योर्निर्निविभ्यः - स्फरतिस्फुल्योः ।मूर्धन्य॑इत्यधिकृतम् ।सिवादीनां वे॑त्यतो वेत्यनुवर्तते । तदाह - षत्वं वा स्यादिति । णू स्तवने इति । णोपदेशः । परिणूतेति ।श्रयुकः किती॑ति नेट् । कुङ् शब्दे । दीर्घान्त इति । ततश्चायं सेट् । पृङ् व्यायामे इति । ह्यस्वान्तोऽयमनिट् ।॒ऋद्धनोः स्ये॑ इति इटं मत्वाऽ‌ऽह - व्यापरिष्यते इति । मृङ्धातुरनिट् ।
स्फुरतिस्फुलत्योर्निर्निविभ्यः - स्फुरतिस्फुलत्योः ।सिवादीना॑मित्यतो वेत्यनुवर्तनादाह — षत्वं वा स्यादिति । परिणूतेति ।श्र्युकः किती॑तीण्निषेधः ।
लघुसिद्धान्तकौमुदी
षत्वं वा स्यात्। निःष्फुरति, निःस्फुरति। णू स्तवने॥ 31॥ परिणूतगुणोदयः। नुवति। नुनाव। नुविता॥ टुमस्जो शुद्धौ॥ 32॥ मज्जति। ममज्ज। ममज्जिथ। मस्जिनशोरिति नुम्। (मस्जेरन्त्यात्पूर्वो नुम्वाच्यः)। संयेगादिलोपः। ममङ्क्थ। मङ्क्ता। मङ्क्ष्यति। अमाङ्क्षीत्। अमाङ्क्ताम्। अमाङ्क्षुः॥ रुजो भङ्गे॥ 33॥ रुजति। रोक्ता। रोक्ष्यति। अरौक्षीत्॥ भुजो कौटिल्ये॥ 34॥ रुजिवत्॥ विश प्रवेशने॥ 35॥ विशति॥ मृश आमर्शने॥ 36॥ आमर्शनं स्पर्शः॥ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्॥ अम्राक्षीत्, अमार्क्षीत्, अमृक्षत्॥ षदॢ विशरणगत्यवसादनेषु॥ 37॥ सीदतीत्यादि॥ शदॢ शातने॥ 38॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.