Page loading... Please wait.
8|3|57 - इण्कोः
॥ तस्मै पाणिनये नमः ॥
8|3|57
SK 211
इण्कोः   🔊
सूत्रच्छेदः
इण्कोः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108 अपदान्तस्य मूर्धन्यः  8|3|55 इण्कोः  8|3|57
सम्पूर्णसूत्रम्
इण्कोः अपदान्तस्य मूर्धन्यः संहितायाम्
सूत्रार्थः
अधिकारोऽयम् । इतः परम् अस्य पादस्य समाप्तिपर्यन्तम् यत् किमपि कार्यम् उच्यते तत् इण्-वर्णात् परस्य कवर्गीयवर्णात् परस्य च भवति ।
एतत् अधिकारसूत्रम् अस्ति । अपदान्तस्य मूर्धन्यः 8|3|55 अस्मिन् अधिकारे यः मूर्धन्यः आदेशः विधीयते, सः इतः परम् इण्-वर्णात् परस्य, कवर्गीवर्णात् परस्य वर्णस्य स्थानिनः एव भवति, अन्येषाम् न, इति आशयः ।

"इण्" इत्यत्र परस्य णकारस्य (इत्यक्ते, लण्-प्रत्याहारस्य णकारस्य) ग्रहणं भवति । अतः इण् प्रत्याहारे अ/आ-एतौ विहाय सर्वे स्वराः, अन्तस्थाः तथा हकारः समाविश्यन्ते ।
One-line meaning in English
This is an अधिकार, which goes till the end of the पाद. The कार्य designated in this अधिकार happens for a स्थानी that follows an इण् letter or a letter from कवर्ग.
काशिकावृत्तिः
इण्कोः इत्येतदधिकृतं वेदितव्यम्। इत उत्तरं यद् वक्ष्यामः, इणः कवर्गाच् च इत्येवं तद् वेदितव्यम्। वक्ष्यति आदेशप्रत्यययोः 8|3|59। सिषेव। सुष्वाप। अग्निषु। वायुषु। कर्तृषु। हर्तृषु। गीर्षु। धूर्षु। वाक्षु। त्वक्षु। इण्कोः इति किम्? दास्यति। असौ।
`इण्कोः` इति द्वन्द्वैकवद्भावं कृत्वैकवचनेन निर्देशः। नुमागमस्तु सत्यपि नपुंसकत्वे `अनित्यमागमशासनम्` (व्या।प।99) इति न क्रियते। इणिति परेण णकारेण प्रत्याहारग्रहणम्। `कु` इति कवर्गस्य। कुतः पुतरेत दवसितम्--अनयोग्र्रहणम्, न पुनरिकारककारोकाराणामिति? व्याख्यानात्। सर्वसन्देहेष्विदमुपतिष्ठते--भवति हि व्याच्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति (व्या।प।75)। `वाक्षु, त्वक्षु` इति। `चोः कुः` 8|2|30 इति कुत्वम्। `दास्यति` इति। कथं पुनरिवं प्रत्युदाहरणमुपपद्यते, यावता `अणुदित्सवर्णस्य चाप्रत्ययः` 1|1|68 इत्यत्र हकारेण गृह्रमाणेन आकारो गृह्रत इति; अस्ति ह्रकारस्य हकारेण सह सवर्णत्वम्; तुल्यस्थानप्रयत्नत्वात्; स्थानमस्ति ह्रनयोस्तुल्यमिति `अकुहविसर्जनीयाः कण्ठ्याः` इति। प्रयत्नोऽपि तुल्यः--विवृतं करणमूष्मणाअं स्वराणाञ्चेति; तस्मात्? सत्यपीण्कोरिति प्राप्नोत्येव मूर्धन्यः; `नाज्झलौ` 1|1|68 इत्यत्र हकारेण गृह्रमाणेन आकारो गृह्रत इति; अस्ति ह्रकारस्य हकारेण सह सवर्णत्वम्; तुल्यस्थानप्रयत्नत्वात्; स्थानमस्ति ह्रनयोस्तुल्यमिति `अकुहविसर्जनीयाः कण्ठ्याः` इति। प्रयत्नोऽपि तुल्यः--विवृतं करणमूष्मणां स्वराणाञ्चेत्; तस्मात्? सत्यपीण्कोरिति प्राप्नोत्येव मूर्धन्यः; `नाज्झलौ` 1|1|10 इति सवर्णसंज्ञाप्रतिषेणादिति चेत्; न;[अयं भागा कांउ।पाठे नास्ति] अगुहीतसवर्णानां प्रतिवेधात्यं भागः कांउ।पाठे नास्ति]? नैष दोषः; यदयं `वयस्यासु मूध्र्नो मतुप्` 4|4|126 इतयत्राकारादुत्तरस्य सकारस्य मूर्घन्यमकृत्वा निर्देशं करोति, ततोऽवसीयते--मूध्र्नो मतुप्` 4|4|126 इत्यत्राकारादुत्तरस्य सकारस्य मूर्धन्यमकृत्वा निर्देशं करोति, ततोऽवसीयते--हकारो गृह्रमाणो नाकारं ग्राहयति; अन्यथा `वयस्यासु` इति निर्देशं न कुर्यात्। `असौ` इति। `तदोः सः सावनन्त्ययोः` 7|2|106 इति दकारस्य सकारः, `अदस औ सुलोपश्च` 7|2|107 इत्यौत्वं सुलोपश्च॥
ठिण्ऽ इति परेण णकारेण प्रत्याहरः, ठ्कुऽ इति कवर्गस्य ग्रहणम्, तयोः समाहारद्वन्द्वे एकवचनम् । नुमागमस्तु सत्यपि नपुंसकत्वे न कृतः, ठनित्यमागमशास्त्रम्ऽ इति कृत्वा । वाक्ष्विति । ठ्चोः कुःऽ इति कुत्वे कृते कवर्गात्परः सकारः । वर्गग्रहणम् ठ्शासिवसिघसीनां चऽ इत्यत्र घकारस्यापि ग्रहणार्थम्---जक्षतुरिति; अन्यथा चर्त्वस्यासिद्धत्वान्न स्यात् । अथ वचनसामर्थ्यात् चर्त्वस्य सिद्धत्वमाश्रीयेत; चिन्त्यं वर्गग्रहणस्य प्रयोजनम् । दास्यतीति । ननु च ठ्नाज्झलौऽ इत्यत्रागृहीतसवर्णानामचां ग्रहणम्---इत्यसकृदुक्तम्, ततश्च यथा कुमारी शेते---इत्यत्रेकारशकारयोः सावर्ण्यमप्रतिषिद्धम्, ततश्च यथा कुमारी शेते---इत्यत्रेकारशकारयोः सावर्ण्यमप्रतिषिद्धम्, तथा आकारहकारयोरपि, ततः किम् ? हकारेणेणाकारस्य ग्रहणात् षत्वप्रसङ्गः ? नैष दोषः; हकारो विवृतः, आकारो विवृततरः । एवं हि पठन्ति---विवृतकरणाः स्वराः, तेभ्य एओ विवृततरौ, ताभ्यामैऔ, ताभ्यामप्याकारः संवृतोकार इति । एवं च कृत्वा---ठिष्टकासुऽ, ठ्वयस्यासुऽ---इत्यादयो निर्देशा उपपद्यन्ते । असाविति । ठदस औ सुलोपश्चऽ, ठ्तदोः सः सौऽ इत्यादेशसकारोऽयम्, न त्विण्कोः परः ॥
सिद्धान्तकौमुदी
इत्यधिकृत्य ॥
इण्कोः - इण्कोः । इत्यधिकृत्येति । उत्तरत्रव विधिष्वनुवर्तत इति भावः । इण् च कुश्चेति समाहारद्वन्द्वः । पुंस्त्वमार्षम् । इतरेतरयोगद्वन्द्वेत्वेकवचनमार्षम् । "इ" णिति परणकारेण प्रत्याहारः । कुः=कवर्गः ।
इण्कोः - इण्कोः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । कोः किम् । गवाक्षु । गवाङ्षु ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
इण्कोः नुम्विसर्जनीयर्शव्यवायेऽपि ।। ।। नुम्विसर्जनीयर्शव्यवोये निंसेः प्रतिषेधः।। नुम्विसर्जनीयर्सव्यवाये निंसेः प्रतिषेधो वक्तव्यः। निंस्से निंस्स्वेति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। नुमैव व्यवाये, विसर्जनीयेनैव व्यवाये शरैव व्यवाये इति।। किं वक्तव्यमेतत्?।। न हि कथमनुच्यमानं गंस्यते?।। प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति। तद्यथा गुणवृद्धिसंज्ञे प्रत्येकं भवतः।। ननु चायमप्यस्ति दृष्टान्तः-समुदाये वाक्यपरिसमाप्तिः। तद्यथा-गर्गाः शतं दण्ड्यन्तामर्थि नश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति।। एवं तर्हि।।योगविभागात्सिद्धम्।।(योगविभागात्सिद्धमेतत्(1))। योगविभागः करिष्यते। नुम्व्यवाये। ततो,-विसर्जनीयव्यवाये। ततः र्शव्यवाये।। स तर्हि योगविभागः कर्तव्यः?।। न कर्तव्यः। प्रत्येकं व्यवायशब्दः परिसमाप्यते।।