Page loading... Please wait.
8|3|55 - अपदान्तस्य मूर्धन्यः
॥ तस्मै पाणिनये नम: ॥
8|3|55
SK 210
अपदान्तस्य मूर्धन्यः  
सूत्रच्छेद:
अपदान्तस्य - षष्ठ्येकवचनम् , मूर्धन्यः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
पूर्वत्रासिद्धम्  [8|2|1] , संहितायाम्  [8|2|108] , अपदान्तस्य मूर्धन्य:  [8|3|55]
सम्पूर्णसूत्रम्
अपदान्तस्य संहितायाम् मूर्धन्य:
सूत्रार्थ:
अधिकारोऽयम् । इतः परम् अस्य पादस्य परिसमाप्तिपर्यन्तम् पदान्ते अविद्यमानस्य निर्दिष्टस्य वर्णस्य मूर्धन्यादेशः भवति ।
एतत् अधिकारसूत्रम् अस्ति । अस्य अधिकारः अष्टमाध्यायस्य तृतीयपादस्य समाप्तिपर्यन्तम् गच्छति । अस्मिन् अधिकारे यदि कश्चन वर्णस्य आदेशः उक्तः अस्ति, सः वर्णः च पदान्ते नास्ति, तर्हि तस्य वर्णस्य "मूर्धन्य"आदेशः भवति ।

किम् नाम मूर्धन्य-आदेशः? येषाम् वर्णानाम् उच्चारणस्थानम् मूर्धा अस्ति, तेषु अन्तरतमः वर्णः आदेशरूपेण विधीयते, इत्यर्थः ।

अस्मिन् अधिकारे प्रायः सर्वेषु सूत्रेषु सकारस्य स्थाने मूर्धन्यः षकारः विधीयते । केषुचन स्थलेषु धकारस्य स्थाने ढकारः अपि विधीयते । अतः अत्र "मूर्धन्यः" आदेशः इति उक्तम् अस्ति ।
One-line meaning in English
This is an अधिकार, which goes till the end of the पाद. For the स्थानी that does not occur at end of a पद, the closest "मूर्धन्य" letter comes as the आदेश.
काशिकावृत्तिः
पदाधिकारो निवृत्तः। अपदान्तस्य इति, मूर्धन्यः इति चैतदधिकृतम् वेदितव्यम् आपादपरिसमाप्तेः। वक्ष्यति आदेशप्रत्यययोः 8|3|59। सिषेव। षुष्Vआप। अग्निषु। वायुषु। अपदान्तस्य इति किम्? अग्निस्तत्र। वायुस्तत्र। षः इत्येवं सिद्धे मूर्धन्यग्रहणं ढकारार्थम्। अकृढ्वम्। चकृढ्वे।
मूर्धनि भवो मूर्धन्यः--`शरीरावयवाद्यत्` 4|3|55 , `ये चाभावकर्मणोः` 6|4|168 इति प्रकृतिवद्भावः। `सिषेच`, इति। `षिचिर्? क्षरणे` (धातुपाठः-1434), `ञिष्वप्? शये` (धातुपाठः-1068), `धात्वादेः षः सः` 96.1.66) इति सत्वम्, लिट्, तिप्, णल्। स्वपेः `लिटभ्यासस्योभयेषाम्` 6|1|17 इति सम्प्रसारणम्। अथ श्रूर्थन्यग्रहणं किमर्थम्, न ष इत्येवोचयेत, षकारेऽपि कृते सिषेचेत्यादि सिध्यति, लघधु च सूत्रं भवति? इत्वाह--`ष इत्येवं सिद्धे` इति। यदि ष इत्येवोच्येत अकृढवम्, चकृढ्वे इत्यत्रापि `इणः षीध्वं लुङ्? लिटां धोऽङ्गात्` 8|3|78 इति षत्वं प्रसज्येत? ढत्वं चेष्यते, तच्च मूर्धन्यग्रहणे सति सिध्यत्येव। अत्र हि सत्यान्तरतम्यान्नादानुप्रदानस्य घोषवतो महाप्राणस्य घकारस्य तादृशो ढकारो भवति। यदि पुनः `इणः षीध्वम्` इति सूत्रे ढग्रहणं क्रियते, तदा शक्यत इह सूत्रे मूर्धन्यग्रहणमकर्तुम्। तथा च ढग्रहणं न कृतं वैचित्र्यार्थम्। ननु च क्रियामाणेन ढग्रहणेन षकारस्य व्यवच्छिन्नत्वादत उत्तरेषु षग्रहणं कत्र्तव्यं जायेत। जायतां नाम, तथापि मूर्धम्यग्रहणात्? स्वरूपग्रहणमेव लाघवं भवति। स्वरूपग्रहणे हि षण्मात्रा भवन्ति--इह `ष` इत्युक्ते द्वे मात्रे उत्तरसूत्रे `ढ` इल्युक्ते द्वे, उत्तरत्र `ष इत्युक्ते द्वे। ताः सर्वाः सङ्कलिताः षण्मात्रा भवन्ति। मूर्धन्यग्रहणे सति सप्त। तस्मात्? स्वरूपग्रहणे सति लाघवं भवति। यदि तु सन्तावपि षकारढकारी प्रकृतौ, तथापि षकारस्य स्वरितत्वात्? स्यैषानुवृत्तिरिति कल्प्यते, तदा सुतरां स्वरूपग्रहणे ललाघवं भवति। `अकृढवम्` इति। `ह्यस्वादङ्गात्` 8|2|27 इति सिचो लोप-। अथान्तग्रहणहणं किमर्थम्? `अपदस्य मूर्घन्यः` इत्युच्यमानेऽपदस्य यः सकारस्तस्य मूर्धन्यो विज्ञायेत। तथा च करिष्यतीत्यादौ न स्यात्; पदसकारत्वात्। क्व तर्हि स्यात्? करिष्यतेत्यादौ यत्र पदसंज्ञा नास्ति। अत्र हि भसंज्ञा पदसंज्ञां बाधेत। तस्मादन्तग्रहणं क्रियते॥
मूर्धन्यग्रहणमनर्थकम्, ठ्षऽ इत्येव सिद्धम् ? अत आह---ष इत्येव सिद्धे इति । ठ्षऽ इत्युच्यमाने ठिणः षीध्वम्ऽ इत्यत्रापि षत्वं प्रसज्येत, ढत्वं चेष्यते । अथात्रैव मूर्धन्यग्रहणं क्रियते, उतरेषु योगेषु पुनः षग्रहणं कर्तव्यम् । मूर्धन्यग्रहणे तु क्रेयमाणे न दोषो भवति ॥
सिद्धान्तकौमुदी
आ पादपरिसमाप्तेरधिकारोऽयम् ॥
अपदान्तस्य मूर्धन्यः - रामे — सु॑ इति स्थिते । आदेशप्रत्यययोरिति षत्वं विधास्यन्नाह-अपदान्तस्य । मूर्धन्यः=मूर्धस्थानकः । अष्टमाध्यायस्य तृतीयापादे मध्यत इदं सूत्रं पठितम् । इत आरभ्यैतत्पादसमाप्तिपर्यन्तमिदमधिक्रियत इत्यर्थः ।
अपदान्तस्य मूर्धन्यः - अपदान्तस्य ।ष॑ इत्येव सिद्धे मूर्धन्यग्रहणम्इणः षीध्व॑मिति ढत्वार्थम् । चकृढ्वे । अकृढ्वम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अपदान्तस्य मूर्द्धन्यः अथ मूर्द्धन्यग्रहणं किमर्थं, नाऽपदान्तस्य षो भवतीत्येवोच्येत, तत्रायमप्यर्थः(1) षकारग्रहणं न कर्तव्यं भवति। प्रकृतमनुवर्तते।। क्व प्रकृतम्?।। इणः ष इति।। नैवं शक्यम्। अवश्यं मूर्द्धन्यग्रहणं कर्तव्यम् इहार्थमुत्तरार्थं(2) च।। इहार्थं-तावत्-इणः षीध्वंलुङ्लिटां धोऽङ्गादित्यत्र मूर्द्धन्यग्रहणं न कर्तव्यं भवति। उत्तरार्थम्-रषाभ्यां नो णः समानपद इत्यत्र णकारग्रहणं न कर्तव्यं भवति। तत्रायमप्यर्थः(3) पदान्तस्य नेति प्रतिषेधो न वक्तव्यो भवति। अपदान्ताभिसम्बद्धं मूर्धन्यग्रहणमनुवर्तते(4)।।