Page loading... Please wait.
8|3|46 - अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य
॥ तस्मै पाणिनये नमः ॥
8|3|46
SK 160
अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य   🔊
सूत्रच्छेदः
अतः (पञ्चम्येकवचनम्) , कृ-कमि-कंस-कुम्भ-पात्र-कुशा-कर्णीषु (सप्तमीबहुवचनम्) , अनव्ययस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
विसर्जनीयस्य  8|3|34 (षष्ठ्येकवचनम्) , सः  8|3|38 (प्रथमैकवचनम्) , अनुत्तरपदस्थस्य  8|3|45 (षष्ठ्येकवचनम्) , समासे  8|3|45 (सप्तम्येकवचनम्) , नित्यम्  8|3|45 (प्रथमैकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
अतः अनव्ययस्य विसर्जनीयस्य समासे कृ-कमि-कंस-कुम्भ-पात्र-कुशा-कर्णीषु सः, अनुत्तरपदस्थस्य
सूत्रार्थः
समासस्य विषये - अकारात् परस्य अव्ययभिन्नस्य विसर्गस्य कृ/कमि/कंस/कुम्भ/पात्र/कुशा/कर्णी - एतेषु परेषु नित्यम् सकारादेशः भवति । परन्तु पूर्वपदम् स्वयम् कश्चन समासः अस्ति चेत् अयम् सकारादेशः निषिध्यते ।
यदि कस्मिंश्चित् अव्यवभिन्ने शब्दे अकारात् परः पदान्ते विसर्गः अस्ति, तर्हि - कृ/कमि/कंस/कुम्भ/पात्र/कुशा/कर्णी एतेषु परेषु समासे कृते अस्य विसर्गस्य सकारादेशः भवति । परन्तु यदि सः विसर्गान्तः शब्दः स्वयम् समस्तपदम् अस्ति, तर्हि अयम् सकारादेशः न भवति ।

उदाहरणानि अधः दत्तानि सन्ति । एतेषु उदाहरणेषु "अयस्" इति अव्ययभिन्नम् पूर्वपदम् स्वीकृत्य उपरिनिर्दिष्टैः शब्दैः समासः कृतः अस्ति । अयस् इत्युक्ते "लोह" ।

1. "कृ" इत्यनेन कृ-धातोः किमपि कृदन्तरूपम् स्वीक्रियते । यथा - अयः + कारः = अयस्कारः (लोहनिर्माता इत्यर्थः)
2. "कमिँ" इत्यनेन कम्-धातोः किमपि कृदन्तरूपम् स्वीक्रियते । यथा - अयः + कामः = अयस्कामः (लोहचुम्बकम्) ।
3. "कंस" शब्दः = अयः + कंसः = अयस्कंसः (लोहपात्रम्) ।
4. "कुम्भ" शब्दः = अयः + कुम्भः = अयस्कुम्भः (लोहपात्रम्) ।
5. "कुशा" शब्दः = अयः + कुशा = अयस्कुशा (लोहदण्डिका ) ।
6. "कर्णी" शब्दः = अयः + कर्णी = अयस्कर्णी (लोहदण्डिका) ।

अनेनैव प्रकारेण पयस्कारः, तमस्कान्तः यशस्करम् आदीनि रूपाणि अपि सिद्ध्यन्ति ।

परन्तु यदि पूर्वपदम् स्वयम् समस्तपदम् अस्ति तर्हि अनेन सूत्रेण सत्वम् निषिध्यते । यथा - परमयशः + कारः = परमयशःकारः, परमयशXकारः ।

ज्ञातव्यम् -
1. "कृ" तथा "कमिँ" एतयोः निर्देशेन तेषाम् कृदन्तरूपस्यैव ग्रहणं भवति, यतः सह सुपा 2|1|4 इत्यनेन केवलं सुबन्तानामेव समासे प्रयोगः भवति, तिङन्तानाम् न ।

2. अस्मिन् सूत्रे "अतः" इति तपरकरणम् कृतम् अस्ति । अतः आकारान्तात् परस्य विसर्गस्य अनेन सूत्रेण षत्वम् न भवति । यथा - भाः + करणम् = भाःकरणम्, भाXकरणम् । अत्र कुप्वोःXकXपौ च 8|3|37 इत्यनेन वैकल्पिकः जिह्वामूलीयः भवति ।

3. यदि पूर्वपदम् अव्ययम् अस्ति चेत् अनेन सूत्रेण सकारादेशः न भवति । यथा - श्वः + कारः = श्वःकारः, श्वXकारः ।

4. यदि समासः नास्ति चेत् अनेन सूत्रेण सकारादेशः न भवति । यथा - पयः करोति = पयःकरोति, पयXकरोति ।

5. "कस्कादिगण" नाम कश्चन गणः गणपाठे दत्तः अस्ति । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थम् अष्टाध्याय्याम् किमपि सूत्रम् नास्ति । "अयस्कान्तः" अयम् शब्दः अस्मिन् गणे निर्दिष्टः अस्ति । वस्तुतः वर्तमानसूत्रेण अयः + कान्त" इत्यत्र समासे कृते सत्वम् विधीयते एव । परन्तु अयं शब्दः कस्कादिगणे अस्ति, अतः अस्य शब्दस्य विषये "सर्वदा" सत्वम् भवति इति ज्ञातव्यम् । इत्युक्ते - समासः भवेत् वा न भवेत् ; पूर्वपदम् स्वयं समस्तपदम् स्यात् वा न स्यात् - सर्वासु स्थितिषु अस्य शब्दस्य विषये षत्वम् भवति इत्यर्थः ।
One-line meaning in English
While doing a समास, if all the following conditions are met - 1. the पूर्वपद ends in a विसर्ग that follows an अकार, 2. the उत्तरपद is either a form of the verb "कृ", or a form of the verb "कमि" or is one of these words - कंस/कुम्भ/पात्र/कुशा/कर्णी 3. पू्र्वपद is not an अव्यय 4. पू्र्वपद is not a समास - then the विसर्ग of the पूर्वपद is converted to सकार.
काशिकावृत्तिः
अकारादुत्तरस्य अनव्ययविसर्जनीयस्य समासे अनुत्तरपदस्थस्य नित्यं सकारादेशो भवति कृ कमि कंस कुम्भ पात्र कुशा कर्णी इत्येतेषु परतः। कृ अयस्कारः। पयस्कारः। कमि अयस्कामः। पयस्कामः। कंस अयस्कंसः। पयस्कंसः। कुम्भ अयस्कुम्भः। पयस्कुम्भः। अयस्कुम्भी, पयस्कुम्भी इत्यत्र अपि भवति, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति। पात्र अयस्पात्रम्। पयस्पात्रम्। अयपात्री पयस्पात्री। कुशा अयस्कुशा। पयकुशा। कर्णी अयस्कर्णी। अपय्स्कर्णी। शुनस्कर्णः इत्ययं तु कस्कादिषु द्रष्टव्यः। अतः इति किम्? गोःकारः। धूःकारः। तपरकरणं किम्? भाःकरणम्। भास्करः इत्ययं तु कस्कादिषु द्रष्तव्यः। अनव्ययस्य इति किम्? श्वःकारः। पुनःकारः। समासे इत्येव, यशः करोति। पयः करोति। यशः कामयते। अनुत्तरपदस्थस्य इत्येव, परमपयःकारः। परमपयःकामः।
`कुप्वोः क पौ च` 8|3|37 इति प्राप्ते वचनमिदम्। `अयस्कारः` इति। `कर्मण्यण` 3|2|1 । एवं `अयस्कामः` इत्यत्रापि। `शीलिकामिभिक्ष्याचरिभ्यो णो वकतव्यः` (वा।229) इति त्वत्र न प्रवत्र्तते। तत्रोपसंख्याने ण्यन्तस्य कमेरुपादानात्, इह त्वण्न्तस्य। यदा `आयादय आर्धधातुके वा` 3|1|31 इति कमेर्णिङ्? नास्ति, तदा कमेरण्यन्तता। `अयस्कंसः` इति। षष्ठीसमासः। ननु कमेरेव `वृतृवदिहनिकमिकषिभ्यः सः` (द।उ।9।29) इति से कृते कंस इति भवति, तत्र कमिग्रहणेनैव सिद्धत्वात्। कंसग्रहणमनर्थकम्? न; ज्ञापनार्थत्वात्। एतदनेन ज्ञाप्यते--अस्तीदमपि दर्शनम्--`उणादयोऽव्युत्पन्नानि। प्रापतिपदिकानि` (है।प।पा।103) इति,। `अयस्कुम्भः` इति। अयसो विकारः कुम्भ इति `समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च` (वा।83) इति पध्यपदलोपी समासः। षष्ठीसमासो वा। `अय स्कुम्भी` इति। गौरादित्वाङङीष्। अयस्कुम्भवत्समासः। `अयस्पात्री` इति। पात्रशब्दः ष्टुन्प्रत्ययान्तः, `षिद्गौरादिभ्यश्च 4|1|41 इति ङीष्। `अयस्कुशा` इति। अयोदिकारोऽत्र न विवक्षितः। तेन जानपदाविसूत्रेण 4|1|42 इति ङीष्। `अयस्कुशा` इति। अयोदिकारोऽत्र न विवक्षितः। तेन जानपदादिसूत्रेण 4|1|42 ङीष्? न भवति। अय इव कर्णावस्या इत्ययस्कर्णी, `नासिकोदर` 4|1|55 इत्यादिना ङीव्। ईकारान्तस्य कर्णशब्दस्य ग्रहणम्। अतः शुनःकर्ण इत्यत्र सत्वेन त भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, निराकर्तुमाह--`शुनस्कर्ण इत्ययं तु` इत्यादि। `भाःकरणम्` इति। ल्युडन्तेन समासः। यदि तर्हि तपरकरणं न क्रियेत भास करोतीति विवादिसूत्रेण 3|2|21 टे कृते भास्कर इत्यत्रापि भवति? अत आह--`भास्कर इत्ययं तु` इत्यादि। सुबोधम्॥
कृ, कमीति धातुग्रहणम् । इतरेषां स्वरूपग्रहणम् । अयस्कार इति । ठ्कर्मण्यण्ऽ । अयस्काम इति । ठ्शीलिकामिऽ इत्यादिना णप्रत्ययः, अयस्कंसादयः षष्ठीसमासाः । कंसग्रहणमनर्थकम्, कमिग्रहणेनैव सिद्धत्वात्, कंसशब्दो हि ठ्वृतृवदिहनिकमिभ्यः सःऽ इति कमेरेव व्युत्पाद्यते ? ज्ञापनार्थं तु, एतत् ज्ञापयति---उणादिषु नावश्यं व्युत्पत्तिकार्यं भवतीति । अयस्कुम्भीति । कुम्भशब्दाज्जातिलक्षणो ङीष् । अयस्पात्रीति । पात्रशब्दः ष्ट्रन्प्रत्ययान्तः, षित्वान्ङीष् । अयस्कुशेति । नात्रायोविकारो विवक्षितः, तेन ठ्जानपदऽ इति सूत्रेण ङीष् न भवति । अयस्कर्णीति । अय इव कर्णी यस्याः सा अयस्कर्णी, ठ्नासिकोदरऽ इत्यादिना ङीष् । शुनस्कर्ण इत्ययं त्विति । सूत्रे त्वीकारान्तस्य कर्णीशब्दस्य निर्देशादत्राप्रसङ्गः । भाः करणमिति । षष्ठीसमासः । भास्कर इत्ययं त्विति । ठ्दिवाविभाऽ इत्यादिना टप्रत्ययः । जयादित्यस्तु तस्मिन्सूत्रेऽवोचद्---ठ्भास्करान्तेति प्रत्ययसन्नियोगेन सत्वं निपात्यतेऽ इति । श्वः कारः, पुनः काम इति । धञन्तेन मयूरव्यंसकादित्वात् समासः ॥
सिद्धान्तकौमुदी
अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सकारादेशः स्यात्करोत्यादिषु परेषु न तूत्तरपदस्थस्य । अयस्कारः । अयस्कामः । अयस्कंसः । अयस्कुम्भः । अयस्पात्रम् । अयःसहिता कुशा अयस्कुशा । अयस्कर्णी । अतः किम् । गीःकारः । अनव्ययस्य किम् । स्वःकामः । समासे किम् । यशःकरोति । अनुत्तरपदस्थस्य किम् । परमयशःकारः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
आदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु। यशस्करी विद्या। श्राद्धकरः। वचनकरः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.