Page loading... Please wait.
8|3|42 - तिरसोऽन्यतरस्याम्
॥ तस्मै पाणिनये नमः ॥
8|3|42
SK 156
तिरसोऽन्यतरस्याम्   🔊
सूत्रच्छेदः
तिरसः (षष्ठ्येकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्)
अनुवृत्तिः
विसर्जनीयस्य  8|3|34 (षष्ठ्येकवचनम्) , कुप्वोः  8|3|37 (सप्तमीद्विवचनम्) , सः  8|3|38 (प्रथमैकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
तिरसः विसर्जनीयस्य कुप्वोः अन्यतरस्याम् सः
सूत्रार्थः
तिरस्-शब्दात् परस्य विसर्गस्य कवर्गे पवर्गे वा परे विकल्पेन सकारादेशः भवति ।
"तिरस्" इति शब्दः स्वरादिगणे निर्दिष्टः अस्ति । अतः स्वरादिनिपातमव्ययम् 1|1|37 इत्यनेन अव्ययत्वे, ततश्च पदत्वे प्राप्ते अस्य सकारस्य खरि परे रुँत्वविसर्गः भवति । अस्य विसर्गस्य कुप्वोः Xक Xपौ च 8|3|37 इत्यनेन कवर्गे पवर्गे परे विकल्पेन जिह्वामूलीय-उपध्मानीयौ प्राप्ते तिरस्-शब्दस्य विषये विकल्पेन सकारादेशः अपि विधीयते । यथा -
1. तिरस् + करोति → तिरः करोति → तिरXकरोति, तिरःकरोति, तिरस्करोति ।
2. तिरस् + पतति → तिरः पतति → तिरXपतति, तिरःपतति, तिरस्पतति ।
One-line meaning in English
The विसर्ग of the word तिरस् is optionally converted to सकार in presence of कवर्ग / पवर्ग letter.
काशिकावृत्तिः
तिरसः विसर्जनीयस्य अन्यतरस्यां सकारादेशो भवति कुप्वोः परतः। तिरस्कर्ता। तिरस्कर्तृम्। तिरस्कर्तव्यम्। तिरःकर्ता। तिरः कर्तुम्। तिरः कर्तव्यम् गतेरित्येव, तिरः कृत्वा काण्डं गतः।
Text Unavailable. Please use feedback link below to provide the text if you have.
ठ्तिरोऽन्तर्धौऽ इति तिरः शब्दस्य गतिसंज्ञा । तिरः कृत्वेति । अत्रान्तर्धेरविवक्षितत्वादगतित्वम् ॥
सिद्धान्तकौमुदी
तिरसः सो वा स्यात् कुप्वोः । तिरस्कर्ता । तिरः कर्ता ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.