Page loading... Please wait.
8|3|4 - अनुनासिकात्‌ परोऽनुस्वारः
॥ तस्मै पाणिनये नमः ॥
8|3|4
SK 137
अनुनासिकात्‌ परोऽनुस्वारः   🔊
सूत्रच्छेदः
अनुनासिकात् (पञ्चम्येकवचनम्) , परः (प्रथमैकवचनम्) , अनुस्वारः (प्रथमैकवचनम्)
अनुवृत्तिः
रु  8|3|1 (षष्ठ्येकवचनम्, षष्ठ्या विपरिणम्यते)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108 अत्रानुनासिकः पूर्वस्य तु वा  8|3|2
सम्पूर्णसूत्रम्
अनुनासिकात्  [अन्यस्य] रोः पूर्वस्य परः अनुस्वारः
सूत्रार्थः
अस्मिन् रुँत्वप्रकरणे रुँ-इत्यस्मात् पूर्वः वर्णः अनुनासिकः नास्ति चेत् तस्मात् परः अनुस्वारः भवति ।
अस्य सूत्रस्य अर्थम् सम्यग् रूपेण ज्ञातुम् अस्मिन् सूत्रे "अन्यः" इति पदम् स्वीकरणीयम् । "अनुनासिकात्" इत्युक्ते "अनुनासिकात् अन्यः" । अस्मिन् अधिकारे पदान्ते जायमानात् रुँ-वर्णात् पूर्ववर्णस्य विकल्पेन अनुनासिकम् भवति । अनुनासिकस्य अभावपक्षे रूँ-इत्यस्मात् यः पूर्वः वर्णः, तस्मात् अनन्तरम् वर्तमानसूत्रेण अनुस्वारः विधीयते ।

अतः अस्मिन् रूत्वप्रकरणे सर्वत्र -
(अ) रुँत्वात् पूर्ववर्णस्य विकल्पेन अनुनासिकः भवति, विकल्पाभावे च -
(आ) रुँत्वात् पूर्ववर्णस्य अग्रे अनुस्वारः आगच्छति ।

अस्य उदाहरणम् समः सुटि 8|3|5 इत्यत्र दर्शितम् अस्ति ।

प्रश्नः- अनुस्वारः तथा अनुनासिकम् एतयोर्मध्ये कः भेदः?
उत्तरम् - "अनुनासिकम्" इति स्वयंरूपेण भिन्नः वर्णः नास्ति, एतत् वर्णस्य एकः भेदः अस्ति । यथा - यकारस्य अनुनासिकः य्ँ-वर्णः । अकारस्य अनुनासिकः अँ वर्णः । आदयः । सर्वेषाम् स्वराणाम् अनुनासिकभेदाः सन्ति । यकार-वकार-लकाराणाम् अपि अनुनासिकभेदाः सन्ति । वर्गपञ्चमाः तु नित्यम् अनुनासिकाः एव सन्ति । अनुस्वारः तु स्वयं भिन्नः वर्णः अस्ति, यस्य गणना "अयोगवाह"वर्णेषु क्रियते । (अयोगवाहाः अष्ट सन्ति - अनुस्वारः, विसर्गः, जिह्वामूलीयः, उपध्मानीयः, तथा चत्वारः यमाः ।)
अनुनासिक-अनुस्वारयोर्मध्ये उच्चारणस्यापि भेदः अस्ति । अनुनासिकस्य उच्चारणम् मुखेन सह नासिकया भवतिम तथा अनुस्वास्य उच्चारणम् केवलं नासिकया एव भवति ।
One-line meaning in English
If the रुँ letter generated in this रूत्वप्रकर does not cause the previous letter to get an अनुनासिक, then it will generate an अनुस्वार just after that previous letter.
काशिकावृत्तिः
अन्यशब्दो ऽत्राध्याहर्तव्यः। तदपेक्षया चेयम् अनुनासिकातिति पञ्चमी। अनुनासिकादन्यो यो वर्णः रोः पूर्वः, यस्य अनुनासिकः न कृतः, ततः परो ऽनुस्वार आगमः भवति। वक्ष्यति - "समः सुटि" 8-3-5 संस्कर्ता। संस्कर्तुम्। संस्कर्तव्यम्। "पुमः खय्यम्परे" 8-3-6 पुंस्कामा। "नश्छव्यप्रशान्" 8-3-7 भवांश्चरति। केचित् तु परशब्दम् एव अन्यार्थं वर्णयन्ति। अनुनासिकात् परः अनुनासिकातन्यः अनुस्वारो भवति। यस्मिन् पक्षे ऽनुनासिको न अस्ति तत्र अनुस्वारागमो भवति। स तु कस्य आगमो भवति? रोः पूर्वस्य एव इति वर्तते, व्याख्यानादादेशो न भवति।
`अन्यशब्दोऽत्राध्याहार्यः` इति। असति ह्रन्यशब्दस्याध्याहरे परशब्दस्य धुतत्वात्? तदपेक्षयैवानुनासिकादित्येषा पञ्चमी स्यात्; अन्यस्येह पञ्चमीहेतोरसम्भवात्। ननु `तस्मादित्युत्तरस्य` 1|1|67 उपस्थाने उत्तरशब्दापेक्षयैव पञ्चमौ स्यात्? नैतदस्ति; यदि ह्रल्याः परिभाषाया इहोपस्थानं स्यात्? परग्रहणमनर्थकं स्यात्। तस्मात्? परशब्दापेक्षयैव पञ्चम्या भवितव्यम्। सा भवन्ती च `अन्यारादितरत्र्ते` 2|3|29 इत्यादिवा सूत्रेण परशब्दयोगे दिग्बृत्तिगा वा स्यात्, अन्यार्थवृत्तिना वा? तत्र पूर्वस्मिन्? पक्षे रोः पूर्वस्मादनुनासिकादेव परोऽनुस्वारो विज्ञायेत, न च तस्मात्? पर इष्यते। इतरस्मस्त्वयमर्थं आपद्येत--अनुनासिकात्? परो भवतदि, अनुनासिकादन्योऽनुस्चारो भवतीत्यर्थः। एवञ्च परग्रहणनर्थकं स्यात्; न ह्रनुनासिकापेक्षयानुस्वरोऽन्यत्वं व्यभिरति। किञ्च--श्रुतत्वात्? तस्यैवानुनासिकस्यानुस्वारो विज्ञायेत, प्रकृतत्त्वाद्रोर्वाः; अनिष्टञ्चैतत्? अन्यशब्दाध्याहारे तु वस्यानुनासिको न कृतस्यस्मादेव पर इति विज्ञायते। तस्मादन्यशब्दोऽत्राध्याहार्यः। सत्यप्यन्यशब्दाध्याहारे तु यस्यानुनासिको न कृतस्यस्मादेव पर इत#इ विज्ञायते। तस्मादन्यशब्दोऽत्राध्याहार्यः। सत्यप्यन्यशाब्दाध्याहारे यदि परशब्दापेक्षयैव `अनुनासिकात्` इत्येषा पञ्चमी स्यात्, स दोषस्तदवस्थ एव स्यादिति मत्वाऽ‌ऽह--`तदपेक्षया चेयम्` इत्यादि। चशब्दोऽवधारणे। अन्यशब्दापेक्षयैव, न परशभ्दापेक्षयेत्यर्थः। `अनुनासिकदन्यो यः` इत्यनेन तदेवान्यशब्दापेक्षत्वं पञ्चम्या दर्शयति। `रोः पूर्वः` इत्यनेनापि पूर्वग्रहणानुवृत्तिम्। पूर्वत्वञ्च रुत्वापेक्षम्। `यस्यानुनासिको न कृतः` इत्यनेनाप्यन्यशब्दाभिधेयमर्थं दर्शयति। `ततः` इत्यनेनापि पूर्वग्रहणस्यार्थादिह पञ्चम्यन्ततया विपरिणाअमम्। अन्यशब्दस्य चाव्याह्मतस्य पञ्चम्यन्ततां पर इत्यनेनापि। तस्या अन्यशब्दस्य सम्बन्धिन्याः पञ्चम्याः परशब्दापेक्षताम्। `आगमः` इत्यनेनाप्यादेशाभावम्। परग्रहणं शक्यमकर्तुम्। अन्यशब्दस्य पञ्चम्यन्तस्याध्याहरे सति पूर्वग्रहणस्य चार्थात्? प्रथमान्ततया विपरिणामे सत्येवं विज्ञास्यते--अनुनासिकाद्योऽन्यस्तस्मादुत्तरो यो रुस्ततः पूर्वोऽनुस्वारागमो भवति। एवञ्च विज्ञायमानेऽसत्यपि परग्रहयणे संस्कत्र्तेत्यादि सिध्यत्येव, किं परग्रहणेन? एतत्? क्रियते विस्पष्टार्थम्॥
अन्यशब्दोऽत्राध्याहर्तव्य इति । असत्यध्याहारे परशब्दस्य श्रुतत्वातदपेक्षयेवं ठनुनासिकात्ऽ इत्येषा पञ्चमी स्यात्---परशब्दस्य दिग्वृत्तिः, अन्यार्थवृत्तिर्वा, पूर्ववृत्तिर्वा । पूर्वस्मिन्कल्पेरोः पूर्वस्मादनुनासिकादेवपरोऽनुस्वारो विज्ञायेत, न च तस्मात्पर इष्यते । इतरस्मिंस्त्वमनुनासिकादन्योऽनुस्वारो भवतीत्यर्थो भवति, तत्र चानर्थकं परग्रहणम्, न ह्यनुस्वारोऽनुनासिकापेक्षयाऽन्यत्वं व्यभिचरति । तस्मादन्यशब्दोऽध्याहार्यः । स च परशब्दापेक्षया पञ्चम्यन्तोऽध्याहार्यः । पूर्वस्येत्येतदप्यत्रानुवृतं पर इत्यनेन योगात्पञ्चम्यन्तं विपरिणम्यते । एवं स्थिते योऽर्थः सम्पद्यते तं दर्शयति--अनुनासिकादन्य इति । कः पुनरसौ ? इत्याह---यस्यानुनासिको न कृत इति । अनुस्वार आगमो भवतीति । टित्वाद्यागमलिङ्गाभावेऽपि परशभ्देनानुस्वारस्य देशविशेषसम्पादनादागमत्वम्, यथा---ठ्न य्वाभ्यां पूर्वावैच्ऽ इति ॥
सिद्धान्तकौमुदी
अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः स्यात् । खरवसानयोर्विसर्जनीयः (कौमुदी-76)
अनुनासिकात् परोऽनुस्वारः - अनुनासिकात् ।अनुनासिका॑दिति ल्यब्लोपे पञ्चमी ।विहाये॑ति गम्यम् । पूर्वस्येत्यनुवृत्तं पञ्चम्यन्ततया विपरिणम्यते । पूर्वत्वं च रुत्वकृतरेफापेक्षया । परत्वं च रोर्यः पूर्ववर्णस्तदपेक्षया, तदाह — अनुनासिकं विहायेति । अनुनासिकाऽभावपक्षे इत्यर्थः । आगमत्वं परशब्दलभ्यम् । ततश्च सकारादकारस्य अनुनासिकाऽभावपक्षे अकारात्परोऽनुस्वारागमः । संर्स्कर्ता । अथ रेफस्य विसर्गविधिं स्मारयति-खरवसानयोरिति ।
अनुनासिकात् परोऽनुस्वारः - अनुनासिकात् । ल्यब्लोपे पञ्चमीत्याह — अनुनासिकं विहायेति । अनुनासिकाऽभावपक्षे इत्यर्थः ।पूर्वस्ये॑ति प्रकृतस्य तु विभक्तिविपरिणामेन पञ्चम्यन्ततेत्यभिप्रेत्याह-रोः पूर्वस्मादिति ।-संसर्गवद्विप्रयोगस्यापि विशेषावगतिहेतुत्वात्अवत्सा धेनुरानीयता॑मित्यत्रेवसंभावितानुनासिकत्वगुणक एवोपस्थितत्वादाकाङ्क्षितत्वाच्चावधित्वेन सम्बध्यत इत्यभिप्रेत्याह-रोः पूर्वस्मादिति-॑ इति तु मनोरमायामवतारितं, तत्तुपूर्वस्ये॑त्यनुवर्तनं विभक्तिविपरिणामं चानपेक्ष्य लौकिकन्यायेनैवेष्टं सिध्यतीत्याशयेनोक्तमित्याहुः । अनुस्वारागम इति । आगमत्वं च परशब्देनैव लभ्यते । यथापूर्वौ तु ताभ्यामै॑जित्यत्र पूर्वशब्देन ऐचोरागमत्वमिति भावः ।
लघुसिद्धान्तकौमुदी
अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.