Page loading... Please wait.
8|3|38 - सोऽपदादौ
॥ तस्मै पाणिनये नमः ॥
8|3|38
SK 152
सोऽपदादौ   🔊
सूत्रच्छेदः
सः (प्रथमैकवचनम्) , अपदादौ (सप्तम्येकवचनम्)
अनुवृत्तिः
विसर्जनीयस्य    8|3|34 (षष्ठ्येकवचनम्) , कुप्वोः    8|3|37 (सप्तमीद्विवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
अपदादौ कुप्वोः पदस्य विसर्जनीयस्य सः
सूत्रार्थः
पदान्ते विद्यमानस्य विसर्गस्य "पाश-कल्प-क-काम्य" एतेषु प्रत्ययेषु परेषु सकारादेशः भवति ।
विसर्गात् परः ककारः / खकारः / पकारः / फकारः अस्ति चेत् कुप्वोः XकXपौ च 8|3|37 इत्यनेन विसर्गस्य विकल्पेन जिह्वामूलीय-उपध्मानीयौ भवतः, विकल्पाभावे च विसर्गः तादृशः एव तिष्ठति । वर्तमानसूत्रेण अस्य अपवादः उच्यते - यदि विसर्गात् परः पाश-कल्प-क-काम्य एते शब्दाः आगच्छति, तर्हि विसर्गस्य सकारादेशः एव भवति ।

अस्मिन् सूत्रे "अपदादौ" इति उक्तम् अस्ति । अपदादौ = अपदस्य आदौ । अतः "अपदादौ कुप्वोः" अस्य अर्थः - सः कवर्गीयः/पवर्गीयः वर्णः यः अपदस्य आदौ अस्ति । इत्युक्ते, पदस्य आदौ नास्ति, कस्यचित् अन्यशब्दस्य आदौ अस्ति । कः अयम् अन्यशब्दः? अस्य उत्तरम् वार्त्तिकेन दीयते - पाश-कल्प-क-काम्येष्विति वाच्यम् । इत्युक्ते, यदि सः "अन्यः शब्दः" पाश-कल्प-क-काम्य एतेषु कश्चन प्रत्ययः अस्ति, तर्हि अयम् सकारादेशः भवति । (एते चत्वारः प्रत्ययाः सन्ति - पदानि न - इति स्मर्तव्यम्) ।

क्रमेण पश्यामः -

1) "पाश" अयम् प्रत्ययः याप्ये पाशप् 5|3|47 इत्यनेन दीयते । "याप्य" इत्युक्ते कुत्सितम् । यथा - पयः + पाशम् → पयस्पाशम् । (दुर्गतम् / अपेयम् दुग्धम् इत्यर्थः) ।
2) "कल्प" अयम् प्रत्ययः ईषदसमाप्तौ कल्पब्देश्यदेशीयरः 5|3|67 इत्यनेन दीयते । यथा - यशः + कल्पम् → यशस्कल्पम् । (सम्पूर्णरूपेण यशः न प्राप्तम्, ईषद्रूपेण प्राप्तम्, इत्यर्थः) ।
3) "क" अयम् प्रत्ययः प्रागिवात्कः 5|3|70 अस्मिन् अधिकारे उक्तः अस्ति । यथा, अज्ञाते 5|3|73 अनेन सूत्रेण अयम् प्रत्ययः "अज्ञातम्" अस्मिन् अर्थे विधीयते । यशः + क = यशस्क । (अज्ञातम् यशः इत्यर्थः)। उरःप्रभृतिभ्यः कप् 5|4|151 इत्यनेन निर्दिष्टः कप्-प्रत्ययः अपि अत्र स्वीक्रियते । व्यूढम् उरः यस्य सः = व्यूढोरः + क → व्यूढोरस्कः ।
4) "काम्य" अयम् प्रत्ययः काम्यच्च 3|1|9 इत्यनेन दीयते । "यशः आत्मानम् इच्छति" अस्मिन् अर्थे "यशः" शब्दस्य काम्यच्-प्रत्ययं कृत्वा "यशस्काम्य" इति धातुः सिद्ध्यति । यथा - सः यशं आत्मानम् इच्छति = सः यशस्काम्यति ।

अत्र वार्त्तिकद्वयम् ज्ञातव्यम् -

1. अनव्ययस्येति वाच्यम् - यदि विसर्गः अव्ययस्य अन्ते अस्ति चेत् अस्य सूत्रस्य प्रयोगः न भवति इत्यर्थः ।
यथा - प्रातः + कल्पम् → प्रातःकल्पम्, प्रातXकल्पम् । अत्र "प्रातः" इति अव्ययम् अस्ति, अतः वर्तमानसूत्रेण सकारादेशः न भवति, अपितु कुप्वोः Xक Xपौ च 8|3|37 इत्यनेन जिह्वामूलीय-विसर्गौ भवतः ।

2. काम्ये रोरेवेति वाच्यम् - यदि विसर्गः रुँ-इत्यस्मात् निर्मितः नास्ति, तर्हि काम्य-शब्दे परे अस्य सूत्रस्य प्रयोगः न भवति ।
यथा - "गिर्" इति रेफान्तशब्दः ("वाणी" इति अर्थः) । अस्य प्रथमैकवचनम् "गीः" इति भवति । अस्मिन् शब्दे विसर्गः रेफात् निर्मितः अस्ति, रुँ-इत्यस्मात् न । अतः "काम्यच्" प्रत्यये परे अस्य विसर्गस्य सकारादेशः न भवति । गीः + काम्यति = गीःकाम्यति, गीXकाम्यति ।
One-line meaning in English
A पदान्त विसर्ग is converted to a सकार when it is followed by the प्रत्ययाः पाश्य, कल्प, क, काम्य.
काशिकावृत्तिः
सकार आदेशः भवति विसर्जनीयस्य कुप्वोः अपदाद्योः परतः पाशकल्पककाम्येषु। याप्ये पाशप् 5|3|57 पयस्पाशम्। ईषदसमाप्तौ कल्पप् पयस्कल्पम्। यशस्कल्पम्। प्रागिवात् कः 5|3|70 पयस्कम्। यशस्कम्। काम्यच् पयस्काम्यति। यशस्काम्यति। अपदादौ इति किम्? पयẖ कामयते। पयḫ पिबति। सो ऽपदादावित्यनव्ययस्य इति वक्तव्यम्। इह मा भूत्, प्रातः कल्पम्, पुनः कल्पम् इति। रोः काम्ये नियमार्थम्। रोरेव काम्ये न अन्यस्य इति नियमार्थं वक्तव्यम्। पयस्काम्यति। यशस्काम्यति। इह म भूत्, गीः काम्यति। धूः काम्यति। उपध्मानीयस्य कवर्गे परतः सकारादेशो भवति इति वक्तव्यम्। किं प्रयोजनम्? उब्जिरुपध्मानीयोपधः पठ्यते इति दर्शने अभ्युद्गः, समुदगः इति यथा स्यात्।
पूर्वस्यायमपवादः। `अपदादौ` इति। सुब्ब्यत्ययेन द्विर्वचनस्य स्थान एकवचनम्; अन्यथा ह्रपदादित्वं कुप्वोर्विशेषणमिति नोपपद्यते। द्वित्वे सत्यपदाद्योरिति कुर्यात्। `पाशकल्पककाम्येषु` इति सम्भवदर्शनम्, न परिगणनम्; व्यवच्छेद्याभावात्। `पयस्पाशम्` इति। `याप्ये पाशप्` 5|3|47 । `पयस्कल्पम्` इति। `ईषदसमाप्तौ कल्पप्` 5|3|37 इत्यादिना कलपप। `पयस्कम्` इति। अज्ञातं पयः--`अज्ञाते` 5|3|73 इति कः। `पयस्काम्यति` इति। `सुप आत्मनः क्यच्` 3|1|8 , `काम्यच्च` 3|1|9 इति काम्यच्। `पय कामयते` इति। `कमेर्णिङ्` 3|1|30 । `पय विबति` इति। `पा पाने` (धातुपाठः-925) पाघ्रादि 7|3|78 सूत्रेण पिबादेशः। `सोऽपदादावनव्ययस्येति वक्तव्यमम्` इति। `सोऽपदादौ` इत्यस्मिन्? सूत्रेऽनव्ययविसर्जनीयस्य सकारादेशो भवतीत्येतदर्थरूप् व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम्--`वा शरि` 8|3|36 इत्यतो वाग्रहमनृवत्र्तते, सा च व्यवस्थितविभाषा; तेनानव्ययस्यैव भविष्यतीति, नाव्ययस्य। `रोः काम्ये नियमार्थम्` इति। एतद्? ग्रहणकवाक्याम्। `रोरेव` इति। अस्यैव विवरणम्। वक्तव्यशब्धस्यात्रापि स एवार्थः। व्याख्यानं पूर्वपदेव कत्र्तव्यम्। `रोः` इति विसर्जनीयाक्षया स्थानषष्ठी। रोर्यो विसर्जनीयस्तस्येत्यर्थः। `उजब्जिरुपध्मानीयोपधः पठते` इति। इह केषाञ्चिद्दर्शनमिदम्--`उबज आर्जवे` (धातुपाठः-1303) इति, उपध्मानीयस्य त्वश्रवणम्; कृतजश्त्वनिर्देशात्। अन्येषां तु दर्शनम्? `उद्ज आर्जवे` ति। तत्राद्यपक्ष डब्जेः `हलश्च` 3|3|121 ति घञि `चजोः कु घिण्णयतोः` 7|3|52 इति कुत्वे उपध्मानीयस्य `झलां जश्? झशि` 8|4|52 इति बकारे अभ्युब्गः, समुबग इत्यनिष्टं रूपं न्यात्। तस्मादुपध्यामीयस्य कवर्गे परतः सकारो वक्तव्यः; सकारे ह्रुपध्मानोयस्य कृते तस्य जश्त्वेन दकारः, एवमभ्पुद्गः समुद्गः--इतीष्टं सिध्यति। द्विर्वचनप्रतिनेधोऽप्युपध्मानीयस्य वक्तव्य एव; अन्यथा एव; अन्यथा ह्रुब्जिजिषतीत्यत्र `अजादेर्द्वितीयस्य` 6|1|2 इत्युपध्मानीयस्य द्विर्वचनं प्रसज्येत। इतरस्मिस्तु दर्शने--असिद्धकाण्डे भ उब्जेर्वक्तदव्यः, अन्यथोब्जिजिषति, उब्जितेत्यादि न सिध्येत्। तथा चोक्तम्--`असिद्धे भ उब्जेः` इति। असिद्धवचनमसिद्धत्वाद्भकारस्य। उब्जिजिषतीत्यत्र `न न्द्राः संयोगादयः` 6|1|3 इति द्वितीयस्यैकाचो द्विर्वचनप्रतिषेधो यथा स्यात्। तह्र्रयं भकारो वक्तव्यः? न वक्तव्यः; निपातनेन सिद्धत्वात्। किं पुनर्निपातनम्? `भुजन्युज्जौ प#आच्युपतापयोः` 7|3|61 इति। अत्र हि तर्हि प्राप्नोति--अभ्युद्गः, समुदग इति? अकुत्वविषये निपातनमित्यदोषः।
ठपदादौऽ इति कुप्वोरेतद्विशेषणम्, व्यत्ययेन त्वेकवचनम् । पूर्वस्यायमपवादः । पाशकल्पककाम्येष्विति । सम्भवप्रदर्शनमेतत्, न परिगणनम्; अन्यस्यासम्भवात् । प्रातः कल्पमिति । अधिकरणशक्तिप्रधानस्यापि प्रातः---शब्दस्य वृत्तिविषये शक्तिमद्वाचित्वादीषदसमाप्त्या योगः, यथा---दोषाभूतमहः, दिवाभूता रात्रिरित्यत्राभूततद्भावयोगः । रोः काम्ये नियमार्थमिति । एतदेव विवृणोति---रोरेवेति । गीः काम्यतीति । उतरसूत्रेण षत्वं न भवति । यदि पुनस्तत्रैवेदमुच्यते ? नैवं शक्यम् ; षत्वमात्रप्रतिषेधेऽप्यनेन सत्वं प्राप्नोति । उपघ्मानीयस्य चेति । अस्यैव विवरणम्---कवर्गेपरत इति । उब्जिरयमित्यादि । यथा पुनरयं दकारोपध एषितव्यः, तथा ठ्हयरट्ऽ इत्यत्रोक्तम् ॥
सिद्धान्तकौमुदी
विसर्जनीयस्य सः स्यादपदाद्योः कुप्वोः परयोः ॥पाशकल्पककाम्येष्विति वाच्यम् (वार्तिकम्) ॥ पयस्पाशम् । यशस्कल्पम् । यशस्कम् । यशस्काम्यति ॥ ।अनव्ययस्येति वाच्यम् (वार्तिकम्) ॥ प्रातः कल्पम् (वार्तिकम्) ॥ ।काम्ये रोरेवेति वाच्यम् (वार्तिकम्) ॥ नेह । गीः काम्यति ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सोऽपदादौ - सोऽपदादौ । अपदाद्योरिति । सूत्रे व्यत्ययेन एकवचनम् । यदि तुविसर्जनीयस्य सः॑शर्परे विसर्जनीयः॑ इत्यत्र मण्डूकप्लुत्यानुवर्तितो यः खर् स इहाप्यनुवत्र्य विशेष्येतअपदादौ री॑ति, तदा यथाश्रुतं साधु । परन्तु पनर्मण्डूकप्लुत्याऽनुवर्तने क्लेश इति भावः । अन्ये त्वाहुः-पुनर्मण्डूकप्लुति विनाप्यनुवर्त्तितुं शक्यः,वा शरी॑त्यत्र शरा खरं विशेष्यशर्रूपे खरी॑ति व्याख्याने,कुप्वो॑रिति सूत्रेकुप्वोः खरी॑ति व्याख्याने च क्षत्यभावादिति । पयस्पाशमिति ।याप्ये पाशप् ।ईषदसमाप्तौ कल्पप् ।अज्ञाते॑कुत्सिते॑ इति कः ।काम्यच्चे॑ति काम्यच् । पाशकल्पककाम्येष्विति वृत्तिः । सम्भवदर्शनमेतन्नतु परिगणनम्, अन्यस्याऽसम्भवात् । प्रातःकल्पमिति । अधिकरणशक्तिप्रधानस्यापिप्रातः॑ शब्दस्येह वृत्तिविषये शक्तिमत्परत्वं,दोषाभूतमहः॑ दिवाभूत रात्रि॑रितिवत् ।गीः काम्यतीति । नच सत्वनिषेधेऽपीहइणः षः॑ इति षत्वं स्यादिति वाच्यं, तत्रापिकाम्ये रोरेव॑त्यस्याऽनुवृत्तेः । यदि तुइणः षः॑ इत्यत्रैवेदं पठते तर्हि षत्वमात्रप्रतिषेधेऽपि पूर्वेण सत्वं स्यात् ।
लघुसिद्धान्तकौमुदी
पाशकल्पककाम्येषु विसर्गस्य सः॥
महाभाष्यम्
सोऽपदादौ ।। सोऽपदादावनव्ययस्य।। सोपदादावनव्ययस्येति वक्तव्यम्। इह मा भूत्-प्रातःकल्पम् पुनः कल्पम्।। रोः काम्ये नियमार्थम्।।रोः काम्य इति वक्तव्यम्।। किं प्रयोजनम्?।। नियमार्थम्। रोरेव काम्ये नान्यस्य। पयस्काम्यति।। क्व मा भूत्?।। गीःकाम्यति धूः(1) काम्यति पूः काम्यति।। उपध्मानीयस्य(1) च।। उपध्मानीयस्य च सत्वं वक्तव्यम्।। किं प्रयोजनम्?।। अयमु)(ब्जिरुपध्मानीयोपधः पठ्यते तस्य सत्वे कृते जश्भावे च अभ्युद्गः समुद्ग इत्येतद्रूपं यथा स्यात्।। यद्युपध्मानीयोपधः पठ्यते-उब्जिजिपतीत्युपध्मानीयस्य द्विर्वचनं प्राप्नोति। दकारोपधे पुनः सति न न्द्राः संयोगादयःथ्द्य;ति प्रतिषेधः सिद्धो भवति।। यदि दकारोपधः पठ्यते का रूपसिद्धिः-उब्जिता उब्जितुमिति?।। असिद्धे भ उद्जेः(1)।। इदमस्ति-स्तोःश्चुना श्चुः। ततो वक्ष्यामि-भ उद्जेः(1)। उद्जेश्च(1) श्चुना सन्निपाते भो भवतीति।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। निपातनादेतत्सिद्धम्(2)।। किं निपातनम्?।। भुजन्युब्जौ पाण्युपतापयोरिति।। इहापि प्राप्नोति-अभ्युद्गः समुद्गः।। अकुत्वविषये निपातनम्। अथ वा नैतदुब्जे रूपम्।। किन्तर्हि?।। गमेर्द्ध्युपसर्गाड्डो विधीयते-अभ्युद्गतः-अभ्युद्गः। समुद्गतः समुद्गः। सोऽपदादौ।।