Page loading... Please wait.
8|3|29 - डः सि धुट्
॥ तस्मै पाणिनये नमः ॥
8|3|29
SK 131
डः सि धुट्   🔊
सूत्रच्छेदः
डः (पञ्चम्येकवचनम्) , सि (सप्तम्येकवचनम्) , धुट् (प्रथमैकवचनम्)
अनुवृत्तिः
वा  8|3|26 (अव्ययम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
पदस्य डः सि धुट् वा
सूत्रार्थः
पदान्तडकारात् परस्य सकारस्य विकल्पेन धुडागमः भवति ।
पदान्त-डकारात् परः यः सकारः, तस्य आदौ "ध्" इति आगमः विकल्पेन विधीयते । यथा, लिह्-शब्दस्य सप्तमीबहुवचनस्य प्रक्रिया -

लिह् + सुप् [सप्तमीबहुवचनस्य प्रत्ययः]
→ लिढ् + सु [हो ढः 8|2|31 इति ढकारादेशः]
→ लिड् + सु [झलां जशोऽन्ते 8|2|39 इति पदान्तढकारस्य डकारः]
→ लिड् + ध् + सु [डः सि धुट् 8|3|29 इति धुडागमः]
→ लिड् + त् + सु [खरि च 8|4|55 इति धकारस्य चर्त्वम् तकारः ।]
→ लिट् + त् + सु [खरि च 8|4|55 इति डकारस्य चर्त्वम् टकारः ।]
→ लिट्त्सु ।

अयम् धुडागमः विकल्पेन भवति, अतः धुडागमस्य अभावे "लिट्सु" इत्यपि रूपं सिद्ध्यति ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "डः" इति पञ्चम्यन्तं पदम् अस्ति, "सि" इति सप्तम्यन्तं पदम् अस्ति । अत्र षष्ठ्यन्तं पदम् नास्ति, अतः उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् अनया परिभाषया सप्तम्यन्तं पदम् स्थानिनं निदर्शयति ।
2. धुट्-इति टित्-आगमः, अतः आद्यन्तौ टकितौ 1|1|46 इत्यनेन स्थानिनः आदौ आगच्छति ।
One-line meaning in English
A सकार following a डकार gets a धुट् आगम.
काशिकावृत्तिः
डकारन्तात् पदातुत्तरस्य सकारादेः पदस्य वा धुडागमो भवति। श्वलिट्त्साये, श्वलिट् साये। मधुलिट्त्साये, मधुलिट् साये। परादिकरणं न पदान्ताट् टोरनाम् 8|4|42 इति ष्टुत्वप्रतिषेधार्थम्।
`उभयनिर्देशे पञ्चमीनिर्देशो बलीयाम्` (शाक।प।97) इति `ङः` इति पञ्चम्या `सि` इत्यस्याः सप्तम्याः षष्ठआं परिकल्पितायां शकारस्यैव धुडविधीयते, इत्याह--`डकारान्तात्` इत्यादि। यद्येवम्, सप्तमीनिर्देशः किमर्शः? लाघवार्थः। `ङः सो धुट्` इत्युच्यमाने माधाधिक्याट्? गौरवं स्यात्। अथ `यस्मिन्? विधिस्तदादावल्ग्रहणे` (व्या।प।127) इत्येवमर्थः सप्तमीनिर्देशः कस्मान्न विज्ञायते? केवलस्य सकारस्याभावादेव तत्सिद्धेः, पद इत्यधिकाराच्छ। आलिटत्याय इत्यत्र धुटि कृते धकारस्य चत्र्वम्--तकारः।प्रक्रियालाघवार्थं तु तुटि वक्तव्ये धुङ्वचनमुत्तरार्थम्--`नश्च` 8|3|30 इत्यत्र धुडयथा स्यात्, तुण्मा भूदिति। यदि हि स्यात्, तर्हि किम्? भवान्त्साय इत्यत्र `नश्छव्यप्रशान` 8|3|7 इति रुः प्रसज्येत? नैतदस्ति; अम्पर इत्यत्रानवत्र्तते, न चेहाम्परस्तकारोऽस्ति। अथथेहापि भूतपूर्वेणोकारेणाम्परः स्यात्? एवमप्यसिद्धत्वात्? तुटो रुत्वं न भविष्यति। तस्मात्तुडेव वक्तव्यः। एवं तर्हि वैचित्र्यार्थ धुडवचनम्। अथ किमर्थं धुट्? पराधिः क्रियते, न द्युगेव पूर्वान्तः क्रियेत, एवं हि `शि तुक्` 8|4|30 इत्यत्र तुग्ग्रहणं न कत्र्तव्यं भवति, धुगेव हि तत्रानुवर्त्तिष्यते? इत्यत आह--`परादिकरणम्` इत्यादि। यदि पूर्वान्तः क्रियेत, आलिट्त्साय इत्यत्र धुकः ष्टुत्वं स्यात्। परादिकरणे तु टकारस्य पदान्तत्वं न विहितमिति `न पदान्ताट्टोरनम्` 8|4|41 इति प्रतिषेधः सिध्यति। तदर्थं परादिकरणम्॥
ठुभयनिर्देशे पञ्चमीनिर्देशो बलीयान्ऽ इति ठ्डःऽ इति पञ्चम्या सीति सप्तम्याः षष्ठी प्रकल्प्यत इति मत्वाऽऽह---डकारान्तादिति । सप्तमीनिर्देशस्तु लाघवार्थः । उदाहरणेषु धुटि कृते चर्त्वम्--तकारः, तस्य पूर्ववत्पक्षे थकारः । अथ किमर्थं धुट् परादिः क्रियते---न धुगेव पूर्वान्तः क्रियेत, एवं हि ठ्शितुक्ऽ इत्यत्र तुग्ग्रहणं न कर्तव्यं भवति, एष धुक् तत्रानुवर्तिष्यते ? अत आह---परादिकरणमिति । प्रक्रियालाघवार्थं तुडिति वक्तव्ये धुड्ग्रहणमुतरार्थम्---ठ्नश्चऽ इति धुड।ल्थास्यात्, तुण्मा भौउत् । किञ्च स्यात्, भवान्त्साय इत्यत्र ठ्नश्च्छव्यप्रशान्ऽ इति रुत्वं प्रसज्येत ? नैतदस्ति; अम्पर इति तत्रानुवर्तते । किञ्च---तुटोऽसिद्धत्वादपि रोरप्रसङ्गः । तस्मातुडेव वक्तव्यः ॥
सिद्धान्तकौमुदी
डात्परस्य सस्य धुड्वा स्यात् । षट्त्सन्तः । षट्सन्तः ॥
डः सि धुट् - ङः सि धुट् । "ड" इति पञ्चमी । ततश्च तस्मादित्युत्तरस्येति परिभाषयासी॑ति सप्तमी षष्ठी सम्पद्यते-डात्परस्य सस्येति ।हे मपरे वे॑त्यतो वेत्यनुवर्तते । तदाह — डात्परस्येत्यादिना ।तस्मिन्निति निर्दिष्टे॑ इति नेह भवति,उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वा॑दिति न्यायात् । धुट् चतुर्थधकारनिर्देशः । टकार इत् । उकार उच्चारणार्थः । थुडिति द्वितीयविधौ तत्सामथ्र्याच्चत्वं न स्यात् । अन्यथा तकारमेव विदध्यात् । चतुर्थविधेस्तु न तत्सामथ्र्यम्, प्रथमविधौ तस्य चयो द्वितीया इत्यापत्तौ तन्निवृत्त्या चरितार्थत्वात् । षट् सन्त इति । षषिति षकारस्य जश्त्वेन डः, षड्-सन्त इति स्थिते चत्र्वस्यासिद्धत्वाड्डात्परत्वात्सस्य धुट् आद्यवयवः । तस्य चर्त्वेन तकारः । "चयो द्वितीया" इति तु नेह, चत्र्वस्यासिद्धत्वात् । ततो लक्ष्यभेदाड्डस्य चर्त्वेन टः ।
डः सि धुट् - ङः सि धुट् ।उभयनिर्देशे पञ्चमीनिर्देशो वलीयान्परत्वा॑दित्यभिप्रेत्याह — सस्येति । सीति सप्तमी निर्देशस्तु लाघवार्थः । षट्सन्त इति । धुटश्चर्त्वेन तकारः ।चयो द्वितीयाः — ॑ इति तस्य थो न, चत्र्वस्याऽसिद्धत्वात् । अतएव धुडभावेषट्सन्त॑ इत्यत्र टस्य ठो न भवति । नन्वेवमपिङः सि धु॑गिति धुग्विधीयतां डकारस्य सकारे परे धु॑गिति व्याख्यानसंभवात्किमनेन धुटः परादित्वाभ्युपगमेन । मैवम् । पूर्वान्तत्वे तु न पदान्ताट्टोरनामिति निषेधाप्रवृत्त्या धकारस्य ष्टुत्वप्रसङ्गात् । अतएव वक्ष्यमाणस्तुगिहैव न कृतः । डस्य तुकि ष्टुत्वे तस्याऽसिद्धत्वेन चयो द्वितीया इत्यस्यापि प्रसङ्गाच्च । इग धुड्विकल्पेन रूपद्वये सति टकारनकारविसर्गाणां द्वित्वविकल्पात्षोडश रूपाणि । खयः शर इति द्वित्वे द्वातिंरशत् (३२) । शरोऽचीति निषेधोऽत्र न प्रवर्तते । तस्य सौत्रद्वित्वमात्रविषयत्वस्योक्तत्वात् । न च चत्र्वस्यासिद्धत्वात्खयः परत्वमेव नास्तीति शङ्क्यम् ।पूर्वत्रासिद्धीयमद्वित्वे॑ इत्युक्तेः॥
लघुसिद्धान्तकौमुदी
डात्परस्य सस्य धुड्वा। षट्त्सन्तः, षट् सन्तः॥
महाभाष्यम्
डः सि धुट् नश्च ।। शितुक ।। ङ्णोः कुक्टुक शरि ।। ङमो ह्रस्वादचि ङ्मुण्नित्यम् इह धुडादिषु के चित्पूर्वान्ताः क्रियन्ते केचित्परादयः। यदि पुनः सर्व एव पूर्वान्ताः स्युः सर्व एव वा(2) परादयः कश्चात्र विशेषः?।। धुगादिषु(3) ष्टुत्वणत्वप्रतिषेधः।। धुगादिषु(3) सत्सु ष्टुत्वणत्वयोः प्रतिषेधो वक्तव्यः। ष्टुत्वस्य तावत्-श्वलिट्त्साये मधुलिट्त्साये। ष्टुना ष्टुरिति ष्टुत्वं प्राप्नोति। परादौ पुनः सतिन पदान्ताट्टोरनामिति प्रतिषेधः सिद्धो भवति। णत्वस्यकुर्वन्नास्ते कृषन्नास्ते। रषाभ्यां नो णः समानपदःथ्द्य;ति णत्वं प्राप्नोति। परादौ पुनः सति न पदान्ताट्टोरनामिति प्रतिषेधः सिद्धो भवति। णत्वस्यकुर्वन्नास्ते कृषन्नास्ते। रषाभ्यां नो णः समानपदःथ्द्य;ति णत्वं प्राप्नोति। परादौ पुनः सति पदान्तस्य नेति प्रतिषेधः सिद्धो भवति।। सन्तु तर्हि परादयः।। परादौ छत्वषत्वविधिप्रतिषेधः(4)।। यदि परादयश्छत्वं विधेयं, षत्वं च(1) प्रतिषेध्यम्। छत्वं विधेयं-कुर्वञ्ञ्च्छेते कृषञ्ञ्च्छेते। यद्धि तच्छश्छोटीति झयः पदान्तादित्येवं तत्।। किं पुनःकारणं-झयः पदान्तादित्येवं तत्?।। इह मा भूत् पूरा क्रूरस्य विसृपो विरप्शिन्निति। षत्वं च प्रतिषेध्यं-प्रत्यङ्क्सिञ्च उदङि्क्सञ्च। आदेशप्रत्यययोरिति षत्वं प्राप्नोति। पूर्वान्ते पुनः सति सात्पदाद्योरिति प्रतिषेधः सिद्धो भवति। तस्मात्सन्तु यथान्यासमेव केचित्पूर्वान्ताः के चित्परादयः। अयं तु खलु शितुक्छत्वार्थं नियोगतः पूर्वान्तः कर्तव्यः। तत्र कुर्वञ्ञ्च्छेते कृषञ्ञ्छेत इतिरषाभ्यां नो णः समानपद इति णत्वं प्राप्नोति।। नैषः दोषः-श्चुत्वे योगविभागः करिष्यते। इदमस्ति क्षुभ्नादिषु च। क्षुभ्नादिषु(2) न णकारो भवति। ततः-स्तोः श्चुना(1)। स्तोः श्चुना संनिपाते न णकारो भवति।। ततः श्चुः। श्चुश्च भवति स्तोः श्चुना सन्निपाते।। डः सि धुट्।