Page loading... Please wait.
8|3|25 - मो राजि समः क्वौ
॥ तस्मै पाणिनये नमः ॥
8|3|25
SK 126
मो राजि समः क्वौ   🔊
सूत्रच्छेदः
मः (प्रथमैकवचनम्) , राजि (सप्तम्येकवचनम्) , समः (षष्ठ्येकवचनम्) , क्वौ (सप्तम्येकवचनम्)
अनुवृत्तिः
मः  8|3|23 (षष्ठ्येकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
समः मः क्वौ राजि मः
सूत्रार्थः
सम्-उपसर्गस्य मकारस्य क्विप्-प्रत्ययान्त-राज्-धातौ परे मकारादेशः भवति ।
"सम् + राज्" इत्यत्र राज् धातोः क्विप्-प्रत्यये कृते "राज्" इति प्रातिपदिकं सिदध्यति । अग्रे "सम् + राज्" इति स्थिते मोऽनुस्वारः 8|3|23 इत्यनेन मकारस्य अनुस्वारे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन मकारस्य मकारादेशः एव विधीयते ।
अतः "सम्राज्" इति प्रातिपदिकं सिद्ध्यति ।

सूत्रमिदम् त्रिपाद्याम् अस्ति, अतः सुबन्तप्रक्रियायाम् अस्य प्रसक्तिः अन्ते भवति । यथा, "सम् + राज्" इत्यस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे इयम् प्रक्रिया वर्तते -

सम् + राज् + सुँ
→ सम् + राज् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इति सुँ-प्रत्ययस्य लोपः]
→ सम् + राष् [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8|2|36 इति जकारस्य षकारः]
→ सम् + राड् [झलां जशोऽन्ते 8|2|39 इति षकारस्य जश्त्वे डकारः]
→ सम्राड् [मो राजि समः क्वौ 8|3|25 इत्यनेन मकारस्य मकारादेशः]
→ सम्राट्, सम्राड् [वाऽवसाने 8|4|56 इति विकल्पेन चर्त्वम् ]
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
समो मकारस्य मकारः आदेशो भवति राजतौ क्विप्प्रत्ययान्ते परतः। सम्राट्। साम्राज्यम्। मकारस्य मकारवचनम् अनुस्वारनिवृत्त्यर्थम्। राजि इति किम्? संयत्। समः इति किम्? किंराट्। क्वौ इति किम्? संराजिता। संराजितुम्। संराजितव्यम्।
`सम्राट्` इति। सम्पूर्वाद्राजतेः `सत्सूद्विव` 3|2|61 इत्यादिना क्विप्, व्रश्चादिना 8|2|36 षत्वम्, षकारस्य जशत्वम्--डकारः, तस्य चत्र्वम्--टकारः। `साभ्राज्यम्` इति। ब्राआह्रणादित्वत्? व्यञ्। किमर्थं पुनर्मकार उच्चार्यते? इत्याह--`मकारस्य मकारवचनम्` इत्यादि। `मोऽनुस्वारः` 8|2|23 इत्यनुस्वारः प्राप्नोति, स मा भूदित्येवमर्थं मकारस्य मकारो विधीयते। यद्येवम्, नेति प्रतिषेधः कत्र्तव्यः, एवं हि लघु सूत्रं भवति; विभक्त्यनुच्चारणात्? एवं तर्हि निर्देशाधिक्येन तु मकारविधानेनैतत्? सूचयति--अत्र प्रकरणेऽधिको हि विधिर्भवतीति। यवलपरे यवला वा भवन्तीत्युपपन्नं भवति। `संयत्` इति। यमेः सम्पूर्वात्? क्विप्, `अनुदात्तोपदेश` 6|4|37 इत्यादिना मकारलोपः, अकारस्य `ह्यस्वस्य पिति कृति` 6|1|69 इति तुक्॥
सम्राडिति । ठ्सत्सूद्विषऽ इत्यादिना क्विप्, व्रश्चादिना षत्वम् । साम्राज्यमिति । क्विबन्ताद् ब्राह्मणाअदित्वात् ष्यञ् । अधिकसद्भावेऽपि क्विबन्तो राजतिस्तावदस्तीत्यत्रापि भवति, क्विबन्तावस्थायामेव वा प्रागेव ष्यञ उत्पतेर्मत्वम् । संयदिति । ठ्गमः क्वौऽ इत्यत्र गमादीनामिति वचनाल्लोपः, ह्रस्वस्य तुक् । किराडिति । ठ्किं क्षेपेऽ इति समासः ॥
सिद्धान्तकौमुदी
क्विबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् ॥
मो राजि समः क्वौ - मो राजि । म इति प्रथमान्तम् । मोऽनुस्वार इत्यतो म इति स्थानष्टन्तमनवर्तते । सम इत्यवयवषष्ठी । प्रत्ययग्रहणपरिभाषया क्विग्रहणेन क्विप्प्रत्ययान्तलाभः । तदाह — क्विबन्त इत्यादिना । म एवेति । न त्वनुस्वार इत्यर्थः । मस्य मविधानमनुस्वारनिवृत्त्यर्थमिति भावः । सम्राडिति । राजृ दीप्तौ सम्पूर्वात्सत्सूद्विषद्रुहेत्यादिना क्विप् । व्रश्चेति षत्वम् । जश्त्वेन डत्वम् । चत्र्वम् । अत्र मोऽस्वारो न भवति । हे मपरे वा । "मोऽनुस्वार" इत्यतो "म" इति षष्ठन्तमनुवर्तते ।मोराजी॑त्यतो "म" इति प्रथमान्तमनुवर्तते । मः परो यस्मादिति च विग्रहः । तदाह — मपरे इति । हृलयतीति ण्यन्ताल्लट् ।ज्वलह्लसहृलनमामनुपसर्गाद्वा॑ इति मित्त्वण्णौ मितां ह्यस्वः । यवलपरे इति । यवलाः परा यस्मादिति विग्रहः । यवलपरके हकारे परे मस्य म एव वा स्यादित्यर्थः ।
मो राजि समः क्वौ - मो राजि समः क्वौ । राजीति किम् संपत् । सम इति किम् , इदं राट् । क्वाविति किम् संराजितुं, संराजितव्यम् । मकारस्य मकारवचनमनुस्वारनिवृत्त्यर्थं, तदाह — म एव स्यादिति । सम्राडिति ।राजृ दीप्तौ॑ संपूर्वादस्मात्सत्सूद्विषे॑त्यादिना क्विप् । व्रश्चादिना षत्वं, जश्त्वचर्त्वे ।
लघुसिद्धान्तकौमुदी
क्विबन्ते राजतौ परे समो मस्य म एव स्यात्। सम्राट्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.