Page loading... Please wait.
8|3|24 - नश्चापदान्तस्य झलि
॥ तस्मै पाणिनये नमः ॥
8|3|24
SK 123
नश्चापदान्तस्य झलि   🔊
सूत्रच्छेदः
नः (षष्ठ्येकवचनम्) , च (अव्ययम्) , अपदान्तस्य (षष्ठ्येकवचनम्) , झलि (सप्तम्येकवचनम्)
अनुवृत्तिः
अनुस्वारः  8|3|23 (प्रथमैकवचनम्) , मः  8|3|23 (षष्ठ्येकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
अपदान्तस्य मः नः झलि अनुस्वारः
सूत्रार्थः
अपदान्तमकारस्य अपदान्तनकारस्य च झलि परे अनुस्वारादेशः भवति ।
यः वर्णः पदान्ते नास्ति, सः "अपदान्तः वर्णः" नाम्ना उच्यते । यदि अपदान्तनकारात् / अपदान्तमकारात् परः झल्-प्रत्याहारस्य वर्णः आगच्छति, तर्हि तस्य नकारस्य मकारस्य च आदेशरूपेण अनुस्वारः भवति ।

यथा -
1. पयस् शब्दस्य प्रथमाबहुवचनस्य रूपम् -
पयस् + जस्
→ पयस् + शि [जश्शसोः शिः 7|1|20 इति शि-आदेशः]
→ पयन् स् + इ [नपुँसकस्य झलचः 6|1|72 इति नुमागमः]
→ पयान् स् इ [सान्तमहतः संयोगस्य 6|4|10 इति नकारात् पूर्वस्वरस्य दीर्घः]
→ पयांसि [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः]

2. नम् धातोः लृट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया -
नम् + लृट्
→ नम् + स्य + लृट् [स्यतासी लृलुटोः 3|1|33 इति विकरणप्रत्ययः "स्य"]
→ नम् + स्य + तिप् [तिप्तस्झि... 3|4|78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]
→ नंस्यति [नश्चापदान्तस्य झलि 8|3|24 इति अनुस्वारः]
One-line meaning in English
A मकार and a नकार which do not occur at the end of a पद are converted to अनुस्वार when followed by a झल् letter.
काशिकावृत्तिः
नकारास्य मकारस्य च अपदान्तस्य अनुस्वारादेशो भवति झलि परतः। पयांसि। यशांसि। सर्पींषि। मकारस्य आक्रंस्यते। आचिक्रंस्यते। अधिजिगांसते। अपदान्तस्य इति किम्? राजत् भुङ्क्ष्व। झलि इति किम्? रम्यते। गम्यते।
`हलि` इति निवृत्तम्, झल्ग्रहणात्। चकारो मकारानुकर्षणार्थः। असति हि तस्मिन्निकारस्यापदान्तस्य कार्यिण इह ग्रहणान्मकारो निवृत्त इत्याशङ्का स्यात्। `पयांसि` इति। `जश्शसोः शिः` 7|1|20 , `नपुंसकस्य झलचः` 7|1|72 इति नुम्, `सान्तमहतः संयोगस्य` 6|4|10 इति दीर्घः। `आक्रंस्यते` इति। आङ्पूर्वात्? क्रमेर्लृट्, `आङ्? उद्यमने` 1|3|40 इत्यात्मनेपदम्। `आचिक्रंसते` इति। `पूर्ववत्सनः` 1|3|62 इत्यात्मनेपदम्। एवं `अथिजिगांसते` इत्यत्रापि। इङः सनि `इङश्च` 2|4|48 इति गमिरादेशः; `अज्झनगमां सनि` 6|4|16 इति दीर्घः; द्विर्वचनम्, अभ्यासकार्यम्। `राजन्` इति। राजतेः शत्रान्तात्? सम्बुद्धिः, तस्या हल्ङ्यादिना 6|1|66 लोपः॥
आक्रंस्यत इति । क्रमेर्लृट्, ठाङ् उद्गमनेऽ इत्यात्मनेपदम् ॥
सिद्धान्तकौमुदी
नस्य मस्य चापदान्तस्य झल्यनुस्वारः स्यात् । यशांसि । आक्रंस्यते । झलि किम् । मन्यते ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
नस्य मस्य चापदान्तस्य झल्यनुस्वारः। यशांसि। आक्रंस्यते। झलि किम्? मन्यते॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.