Page loading... Please wait.
8|3|22 - हलि सर्वेषाम्
॥ तस्मै पाणिनये नमः ॥
8|3|22
SK 171
हलि सर्वेषाम्   🔊
सूत्रच्छेदः
हलि (सप्तम्येकवचनम्) , सर्वेषाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
भोभगोअघोअपूर्वस्य  8|3|17 (षष्ठ्येकवचनम्) , लोपः  8|3|19 (प्रथमैकवचनम्) , व्योः  8|3|19 (षष्ठ्येकवचनम्, इत्यस्मात् "यः" अनुवर्तते)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
भो-भगो-अघो-अपूर्वस्य पदस्य यः हलि लोपः सर्वेषाम्
सूत्रार्थः
सर्वेषाम् आचार्याणाम् मतेन - भोस्, भगोस्, अघोेस् एतेभ्यः परस्य तथा अवर्णात् परस्य पदान्ते विद्यमानस्य सामान्ययकारस्य तथा लघु-उच्चारण-यकारस्य हलि लोपः भवति ।
सूत्रार्थात् पूर्वम् बिन्दुद्वयं ज्ञातव्यम् -
1. भोस्, भगोस्, अघोस् - एते त्रयः निपाताः सन्ति । चादयोऽसत्वे 1|4|57 इत्येनन निर्दिष्टः यः चादिगणः, सः आकृतिगणः अस्ति, अतः यद्यपि एतेषां शब्दानाम् तत्र उल्लेखः नास्ति, तथापि एते शब्दाः पण्डितैः चादिगणे समाविश्यन्ते ।
2. पदान्त-वकार-यकारयोः स्थाने अशि-परे व्योर्लघुप्रयत्नतरः शाकटायनस्य 8|3|18 इत्यनेन विकल्पेन "लघूच्चारणौ" वकार-यकारौ भवतः । यस्य वर्णस्य स्पष्टरूपेण उच्चारणम् न भवति, तथा च यस्य वर्णस्य उच्चारणे स्थानस्य (तालु/कण्ठ/मूर्धा/दन्त/ओष्ठ - एतेषाम्) तथा करणस्य (जिह्वामूलम् /जिह्वामध्यम्/जिह्वाग्रः एतेषाम्) च शैथिल्यम् (मन्द-प्रयत्नः) जायते, तादृशः वर्णः लघु-उच्चारणवर्णः नाम्ना ज्ञायते ।

इदानीं सूत्रार्थः स्पष्टीभवेत् - अकारात् परस्य पदान्ते विद्यमानस्य सामान्य-यकारस्य तथा लघु-उच्चारणस्य यकारस्य - उभयोः यकारयोः व्यञ्जने परे लोपः वर्तमानसूत्रेण विधीयते । यथा -
देवा + जस् + गच्छन्ति
→ देवास् + गच्छन्ति [प्रथमयोः पूर्वसवर्णः 6|1|102 इति पूर्वसवर्णदीर्घः]
→ देवारूँ + गच्छन्ति [ससजुषोः रुँः 8|2|66 इति रुँत्वम्]
→ देवाय् + गच्छन्ति [भोभगोअघोअपूर्वस्य योऽशि 8|3|17 इति रुँ-इत्यस्य य्-आदेशः
→ देवा गच्छन्ति [हलि सर्वेषाम् 8|3|22 इत्यनेन यकारस्य नित्यम् लोपः]

ज्ञातव्यम् - लोपः शाकल्यस्य 8|3|19 तथा ओतो गार्ग्यस्य 8|3|20 एतयोः सूत्रयोः केवलं सामान्ययकारस्य लोपः उच्यते, सः अपि केवलं विकल्पेन यकारलोपः उच्यते । वर्तमानसूत्रेण तु उभयोः यकारयोः लोपः भवति, सः अपि नित्यं भवति ।
One-line meaning in English
According to all the experts, the normal यकार as well as the लघु-उच्चारण-यकार appearing at पदान्त after an अवर्ण are deleted when followed by a हल् letter.
काशिकावृत्तिः
हलि परतः भोभगोअघोअपूर्वस्य यकारस्य पदान्तस्य लोपो भवति सर्वेषाम् आचार्याणां मतेन। भो हसति। भगो हसति। अघो हसति। भो याति। भगो याति। अघो याति। वृक्षा हसन्ति। सर्वेषां ग्रहणं शाकटायनस्य अपि लोपो यथा स्यात्, लघुप्रयत्नतरो मा भूतिति।
`भोभगोअघोअपूर्वस्व` इति। भोभगोअघोपूर्वस्य वकारस्यासम्भवात्। अवर्णपूर्नस्तु वकारः सम्भवति। तस्य तु पूर्वमेव `हलि सर्वेषाम्` इत्यनेन लोपो न भवतीति दर्शितम्। तेनेह यकारस्यैव ग्रहणं न वकारस्य, तस्य लोपो न भवतीति दर्शितम्--`भोभगोअघोअपूर्वस्य` 8|3|17 इत्यादौ सूत्रे। तत्राश्ग्रहणं किमर्थम्? हलि सर्वेषामित्ययं लोपोऽशि हलि यथा स्यात्, इह मा भूत्--वृक्ष वृश्चतीति वृक्षवृट्, तमाचष्ट इति णिच्, वृक्षववति, वृक्षवयतेरप्रत्ययः वृक्षव्--`वक्षव्? करोति` इति। एवमश्ग्रहणस्य प्रयोजनं दर्शयतामेन सूत्रेणाशि हलि वकारस्यावर्णपूर्वस्य लोपो न भवतीत्युक्तं भवति। ननु चावर्णपूर्वस्येत्यस्यानुवृत्तिरयुक्ता; पूर्वसूत्रे चानुकृष्टत्वात्, तत्कथमवर्णपूर्वस्य लोपो भवतीति? नैतदस्ति; `चानुकृष्टमुत्तरत्र् नानुवत्र्तते` (व्या।प।76) इति प्रायिकमेतत्। कथं ज्ञायते? `एकाजुत्तरपदे णः` 8|4|12 इत्यत्र `णः` इति प्रकृते पुनर्णग्रहणम्, `वा भावकरणयोः` 8|4|10 इत्यत्र `वा` इति यदनुवृत्तं तन्निवृत्त्य्र्थ कृतम्। यदि चेदं प्रायिकं न स्यात्, पुनर्णग्रहणमनर्थम्; पूर्वसूत्रे चानुकृष्टत्वादेव हि वाग्रहणस्यानुवृत्तिर्न भविष्यतीति किं पुनर्णग्रहणेन? कृतञ्च, ततोऽवसीयते--चानुकृष्टपरिभाषाऽनित्येति। `शाकटायनस्यापि लोपो यथा स्यात्` इति। अपिशब्दाच्छाकल्यस्यापि। असति तु सर्वग्रहणे प्रत्यासन्नस्य गाग्र्यस्य मतेन लोप एव विज्ञायेत॥
यकारस्य पदान्तस्येति । वकारस्तु भोभगोअघोपूर्वो न सम्भवति । अवर्णपूर्वस्तु सम्भवति--वृक्षव् करोतीति । तस्य तु लोपो न भवति, अशि हलीति विशेषणादित्युक्तम् । तस्माद्यकारस्येत्युक्तम् । ननु वृक्षव् हसतीत्यादौ सम्भवति ? न सम्भवति; अनभिधानात्, नह्यएवंविधमभिधानमस्ति । तथा च ठ्लण्ऽ इत्यत्र भाष्यकार आह---ठ्न पदान्ता हलोऽणः सन्तिऽ इति । एवं च वृक्षव् करोतीत्ययमपि प्रयोगश्चिन्त्यः ॥
सिद्धान्तकौमुदी
भोभगोअघोअपूर्वस्य लघ्वलघूच्चारणस्य यकारस्य लोपः स्याद्धलि सर्वेषां मतेन । भो देवाः । भो लक्ष्मि । भो विद्वद्वृन्द । भगो नमस्ते । अघो याहि । देवा नम्याः । देवा यान्ति । हलि किम् । देवायिह ॥
हलि सर्वेषाम् - हलि सर्वेषाम् ।भोभगोअघोअपूर्वस्ये॑त्यनुवर्तते ।व्योर्लघुप्रयत्ने॑त्यतो यकारग्रहणमनुवर्तते । तदाह — भोभगो इति । लघ्वलघूच्चारणस्येति । ओकारात् परस्य यस्य लघुप्रयत्नतरस्यैवानेन लोपः । अलघुप्रयत्नतरस्य त्वोकारात् परस्य यस्य ओतो गाग्र्यस्येत्येव सिद्धम् । अपूर्वकस्य तु यस्य लघ्वलघूच्चारणस्येति विवेकः । यकारस्येति । वकारस्त्वत्र नानुवर्तते । भोभगोअघोअपूर्वस्य वकारस्याऽभावादिति वृत्तिः । "अव्यपर" इति निर्देशादिति तदाशयः । वृक्षं वातीति वृक्षवाः; तचामष्टे वृक्षव्, ण्यन्तात् क्विप्, इष्ठवद्भावाट्टिलोपः । णेरनिढीति णिलोपः, वृक्षव् करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्तिः, अशीत्यनुवर्त्त्य अशात्मके हलीति भाष्ये व्याख्यातत्वात् । वृक्षव् करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्तिः अशीत्यनुवर्त्त्य अशात्मके हलीति भाष्ये व्याख्यातत्वात् । वृक्षव् हसतीति तु अस्मादेव भाष्यादसाधुरित्याहुः । सर्वेषां मतेनेति । सर्वाचार्यसंमतत्वादयं लोपो नित्य इति फलितम् । अत्र यदिविभाषा भवद्भगवदघवतामोच्चावस्ये॑ति वार्तिकेनमातुवसो रु सम्बुद्धौ॑ इत्यत्र पठितेनएषामन्तस्य संबुद्ध#औ रुत्वं वा स्यात्, अवेत्यंशस्य ओकारश्चे॑त्यर्थकेन निष्पन्ना भोरादिशब्दा एव गृह्रेरन् तर्हि पुँल्लिङ्गैकवचनमात्रे भो हरेइत्यादिसिद्धावपि तदन्यत्र द्विवचनादौ स्त्रीनपुंसकयोश्च भो हरिहरौ, भो देवाः, भो लक्ष्मिः, बो विद्वद्वृन्देत्यादौ लोपो न सिध्येत् । अतो भोस् इत्यादिनिपातानामप्यत्र ग्रहणमित्यभिप्रेत्योदाहरति — भो देवा इत्यादि । देवा म्या इति । नचात्र यकारस्य लोपो व्योरित्येव लोपः सिद्ध इति वाच्यम्, लोपो व्योरिति लोपं प्रति यत्वस्याऽसिद्धवात् ।
हलि सर्वेषाम् - द्विस्त्रिश्चतुरिति । इह द्वित्रिभ्यां सुजन्ताभ्यां साहचर्याच्चतुःशब्दोऽपि सुजन्त एव ग्रहीष्यते । कृत्वोर्थग्रहणं तुसाहचर्यं न सर्वत्र व्यवस्थपक॑मित्यत्र ज्ञापकम् । तेनदीधीवेवीटा॑मित्यत्र धातुसाहचर्येऽप्यागमस्येटो ग्रहणम् । चतुष्कपाल इति । चतुर्षु कपालेषु संस्कृत इत्यर्थेसंस्कृतं भक्षाः॑इत्यणोद्विगोर्लुगनपत्ये॑ इति लुक् । अत्र मनोरमायाम्-॒इदुदुपधस्येति नित्यं ष॑इत्युक्तम् । एवं चद्वितं त्रितमिति चतुःपञ्चाश॑दिति स्वमूलग्रन्थे प्रयोगश्चिन्त्यः स्यात्, चतुष्कपालवत्तत्रापि नित्यतया षत्वप्रवृत्तेः । अतोऽत्र षत्वनिवारणायअप्रत्ययस्ये॑त्यत्रप्रत्ययस्य यो विसर्जनीयो न भवती॑त्यर्थ एव स्वीकर्तव्यः ।चतुष्कपाल॑ इत्यत्र (तु) कस्कादेराकृतिगणत्वात्षत्वप्रवृत्तिरित्याहुः ।
लघुसिद्धान्तकौमुदी
भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि। भो देवाः। भगो नमस्ते। अघो याहि॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.