Page loading... Please wait.
8|3|15 - खरवसानयोर्विसर्जनीयः
॥ तस्मै पाणिनये नमः ॥
8|3|15
SK 76
खरवसानयोर्विसर्जनीयः   🔊
सूत्रच्छेदः
खरवसानयोः (सप्तमीद्विवचनम्) , विसर्जनीयः (प्रथमैकवचनम्)
अनुवृत्तिः
रः  8|3|14 (षष्ठ्येकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
पदस्य रः खर्-अवसानयोः विसर्जनीयः संहितायाम्
सूत्रार्थः
पदान्ते विद्यमानस्य रेफस्य खरि अवसाने वा परे विसर्गः भवति ।
खर्-इत्यनेन सर्वे कर्कशवर्णाः गृह्यन्ते । इत्युक्ते, सर्वे वर्गद्वितीयाः, वर्गप्रथमाः तथा ऊष्माणः । एतेषु परेषु रेफस्य अनेन सूत्रेण विसर्गः भवति । यथा - पुनर् + पश्यति → पुनः पश्यति ।

"अवसान" इत्युक्ते वर्णस्य अभावः (विरामः) । विरामोऽवसानम् 1|4|110 इति तस्य व्याख्या । अग्रे कोऽपि वर्णः निकटः नास्ति चेदपि रेफस्य विसर्गः भवति । यथा -

राम + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ राम + स् [उकारस्य उपदेशेऽजनुनासिक इत् 1|3|2 इति इत्संज्ञा, तस्य लोपः 1|3|9 इति लोपः। अग्रे सुप्-तिङन्तम् पदम् 1|4|14 इत्यनेन "राम+स्" इत्यस्य पदसंज्ञा भवति ।]
→ राम + रुँ [ससजुषो रुँ 8|2|66 इति रुँत्वम् ]
→ रामः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विरामे परे रेफस्य विसर्गः]

ज्ञातव्यम् - शब्दशः अस्य सूत्रस्य अर्थः -"रेफस्य पदस्य विसर्गः भवति" इति भवति । परन्तु -
1) येन विधिस्तदन्तस्य 1|1|72 इत्यनेन "पदस्य रः" इत्युक्ते "रेफान्तस्य पदस्य" इत्यर्थः सिद्ध्यति ।
2) अलोऽन्त्यस्य 1|1|52 इत्यनेन "पदस्य विसर्गः भवति" इत्युक्ते पदस्य अन्तिमवर्णः यः रेफः, तस्य विसर्गः भवति, इति अर्थः जायते ।

प्रश्नः - अस्मिन् सूत्रे "विसर्जनीयः" इति किमर्थम् उक्तम्? सूत्राणि अल्पाक्षराणि भवेयुः. अतः "विसर्गः" इति लघुशब्दस्य अपि प्रयोगः करणीयः किल?
उत्तरम् - "पर्यायवचनेषु गौरव-लाघवचर्चा नाद्रियते" इति वैयाकरणाः मन्यन्ते । इत्युक्ते, यत्र समान-अर्थकाः भिन्नाः शब्दाः प्रयुक्ताः सन्ति, तत्र अल्पाक्षरचर्चा न करणीया । अष्टाध्याय्यां अन्यत्र अपि बहुत्र पर्यायशब्दानां प्रयोगः दृश्यते । यथा - "विकल्प", "वा", "अन्यतरस्याम्" एते सर्वे पर्यावाचिनः शब्दाः एव । एतेषां विषये अपि गौरव-लाघवचर्चा न भवति ।
One-line meaning in English
A र् present at end of a पद is converted to a विसर्ग when it is either followed by nothing, or when it is followed by a खर् letter.
काशिकावृत्तिः
रः इति वर्तते। रेफान्तस्य पदस्य खरि परतो ऽवसाने च विसर्जनीयादेशो भवति। वृक्षश्छादयति। प्लक्षश्छादयति। वृक्षस्तरति। प्लक्षस्तरति। अवसाने वृक्षः। प्लक्षः। खरवसानयोः इति किम्? अग्निर् नयति। वायुर् नयति। इह नृकुट्यां भवः नार्कुटः, नृपतेरपत्यं नार्पत्यः इति वृद्धेर् बहिरङ्गलक्षणत्वात् तदाश्रयस्य रेफस्य असिद्धं बहिरङ्गम् इति असिद्धत्वाद् विसर्जनीयो न भवति।
यद्यत्र पदस्येति विशेषणवष्ठी स्यात्--पदस्यावयवो यो रेफ इति, तदा `अर्कः` इत्यादानप्यपदान्तस्य रेफस्यापि विसर्जनीयः स्यात्। स्थानषष्ठआ न दोषः; अत्र हि पदं रेफेण विशेष्यते, विशेषणेन च तदन्तविधिर्भवति, तेन रेफान्तसय कार्यमुच्यमानमलोऽन्त्यस्यैव भवतीत्येतदालौच्च पदसयेत्येषा स्थाने षष्ठी; तच्च पदं रेफेण वेशेष्यत इत्यतद्दर्शयन्नाह--`रेफान्तस्य पदस्य` इति। `खरि परतोऽवसाने च` इति। `पतः` इत्येतत्? पूर्वेणैव सम्बध्यते, न परेणावसानेन,[`परेण अवसाने--कांउ।पाठः] तस्य पौर्वापर्याभावात्। तथा हि येन वर्णेन विरम्यते सोऽवसानं स्यात्। विरतिर्वा विरामः=वर्णस्यानुच्चारणम्। तेन रेफान्तात्? पदाद्येन वर्णेन विरभ्यते स तावदवसानसंज्ञकः परो न सम्भवति; तन्मात्रस्याप्रयोगात्। अप्रयोगस्तु निरर्थकत्वात्। इतरत्र तु पुनरवसानमभावरूपम्। अभावे च पौर्वापर्यं न सम्भवति; तस्य वर्णधर्मत्वात्। तस्मात्? तदपि नैव रेफान्तात्? पदात्? परमुपपद्यते। केचित्तु बुद्धिकल्पितं पौर्वापर्यमाश्रित्य `अवसाने च` इत्यानेनापि सह `परतः` इत्येतत्सम्बन्धन्ति। तत्र यदि वुद्धिकल्पितं पौर्वापग्र्रं नाश्रीयते, तदा `खरवसानयोः` इत्येकाप्येषा सप्तम्यधिकरणभेदाद्भिद्यते; खर्यौपश्लेषिकेऽञिकरणे सप्तमी भवति--खरि परत इति, अवसाने तु वैषयिकेऽधिकरणे सप्तमी भवति--अवसाने विषय इति। यदा तु वृद्धिकल्पितमभावेऽपि पौर्वापयमवसानेऽप्याश्रीयते, तदोभत्रापि परसप्तम्येव। उदाहरणेषु खरि विसर्जनीये कृते `विसर्जनीयस्य सः` 8|3|34 इति सकारः, तस्य चवर्गे परतः श्चुत्वम्। ञधेह नृकुटआं भवः, `तत्र भवः` 4|3|53 इत्यणि--नार्कुटः, नृपतेरपत्यम्? `दित्यादित्यादित्यपत्युत्तरपदाण्ण्यः` 4|1|85 इति नार्पत्य इत्यत्र विसर्जनीयः कस्मान्न भवति? इत्याह--`इह` इत्यादि। वृद्धिहिं भवादावर्थे विहितं तद्धितमाश्रित्य भवन्ती बहिरङ्गा, तस्याश्च बहिरङ्गत्वात्? तदाश्रयस्यापि रेफस्य बहिरङ्गत्वम्; वृद्ध्याश्रितत्वात्, पुना रेफस्य तद्भक्तात्वात्? तन्निमित्तात्वाच्च। विसर्जनीयक्तु खर्माधमाश्रित्य भवतीत्यन्तरङ्गः। `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इति विसर्जनीये कत्र्तव्ये रेफोऽसिद्धः, अत इह विसर्जनीयो न भवति। ननु च बृद्धौ कत्र्तव्यायां विसर्जनीयोडभिमतोऽन्तरङ्गोऽसद्धः, तदसति तस्मिन्? `वृद्धेर्बहिरङ्गव्यपदेशो नोपपद्यते, तस्यान्तरङ्गापेक्षकत्वात्; असति तस्मिन्? वृद्धेर्बहिरङ्गव्यपदेशे रेफस्यापि स न स्यात्। वृद्धेर्बहिरङ्गद्वारकं हि रेफस्य बहिरङ्गत्वम्; ततश्चोमयाङ्गविकलत्वात्? बहिरङ्गपरिभाषा (व्या।प।42) नोपतिष्ठत इति यदुक्ततम्--`बृद्धेर्बहिरङ्गलक्षणत्वात्` इति, तन्नोपपद्यते? नैतत्; `न मु ने` 8|2|3 इति कार्यान्तरार्थम्? `न` इति योगाविभागः कृतः। तेन वृद्धौ कत्र्तव्यायां विसर्जनीयस्यासिद्धत्वं न भविष्यति। अत एव बहिरङ्गपरिभाषायामपि विसर्जनीयस्यासिद्धत्वं न भविष्यतीति वेदितव्यम्। `कार्यकालं संज्ञापरिभाषम्` (व्या।प।58) इत्यस्य दर्शनस्येहाश्रितत्वाच्च। युक्तञ्चैतत्, कार्यप्रयुक्तत्वाद्धि संज्ञापरिभाषस्य तद्देशतैव न्याय्या। यत्र ह्रनयाऽसिद्धत्वं क्रियते सोऽस्याः कार्यदेशः। क्व चानयाऽसिद्धत्वम्? विसर्जनीयविधौ। तस्मात्? तद्देशैवेयम्; न तु यत्रोपसंख्याता--`विप्रतिषेधे परं कार्यम्` 1|4|2 इति, तद्देशा; नापि यत्र ज्ञापिता--`वाह ऊरु` 6|4|132 इत्यत्र, तद्देशा॥
यद्यत्रापि पदस्येति विशेषणषष्ठी स्यात्, तदा चकर्ष, कर्कश इत्यादावपदान्तस्यापि रेफस्य विसर्जनीयः स्यात् । स्थानषष्ठ।लं तु रेफेण पदे विशेषिते रेफान्तस्य पदस्यालोन्त्यस्य विसर्जनीयविधानान्न कश्चिद्दोष इति मन्यमान आह---रेफान्तस्य पदस्येति । खरि परतोऽवसाने चेति । ठ्परतःऽ इत्येतत्खरैव सम्बध्यते, नावसानेन; असम्भवात् । येन वर्णेन विरम्यते स एवावसानं स्यात् । विरतिःउवर्णस्यानुच्चारणम् । तत्र पदान्तस्य रेफस्य येन वर्णन विरम्यते स तावत्परो न सम्भवति । इतरत्पुनरवसानमभावरूपम्, न चाभावेन पौर्वापर्यं सम्भवति । तस्मात् ठ्खरवसानयोःऽ इत्येकापि सप्तमी विषयभेदाद्धिद्यतेखरि परसप्तमी, अवसाने विषयसप्तमीति । अपर आह---वर्णेष्वप्युच्चरितप्रध्वंसिषु बुद्धिविरचितं पौर्वापर्यमस्ति, तत्वभावेनापि सम्भवति; तस्मादुभयत्रापि परसप्तमीति । उदाहरणेषु खरि विसर्जनीयस्य सत्वम्, चवर्गे श्चुत्वम्, टवर्गे ष्टुअत्वम् । नार्पत्य इति । पत्युतरपदाण्ण्यः । वृद्धेर्बहिरङ्गलक्षणत्वादिति । बहिर्भूततद्धितापेक्षत्वाद् वृद्धेर्बहिरङ्गत्वम् । तदाश्रयस्य रेफस्येति । तदाश्रयत्वं तु तया सह विधानात् । ठुरण् रपरःऽ इत्येतद्धि गुणवृद्धिविधिभिरेकतामापाद्य रपरत्वं विधते, तेन वृद्धेर्यन्निमितं तदेव रेफस्यापि, ततस्तस्यापि बहिरङ्गत्वम् । विसर्जनीयस्तु खर्मात्रमाश्रित्य भवन्नन्तरङ्गः । ननु बहिरङ्गपरिभाषा ठ्वाह ऊठ्ऽ इत्यत्र ज्ञापितत्वातद्देशा, ततः किम् ? तस्यां कर्तव्यायां विसर्जनीयः ठ्पूर्वत्रासिद्धम्ऽ इत्यसिद्धः, सा कथमन्तरङ्गमपश्यन्ती बहिरङ्गस्यासिद्धत्वमापादयति ? नैष दोषः; ठ्कार्यकालं संज्ञापरिभाषम्ऽ, ततश्च परिभाषान्तरवद् बहिरङ्गपरिभाषाया अप्यत्र प्रकरणे प्रवृत्तिरविरुद्धा ॥
सिद्धान्तकौमुदी
खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात्पदान्ते । इति विसर्गे प्राप्ते । अन्तवद्भावेन पदान्तरेफस्य न विसर्गः । उभयथर्क्षु (कौमुदी-3630) कर्तरि चर्षिदेवतयो (कौमुदी-3167)रित्यादिनिर्देशात् । उपसर्गेणैव धातोराक्षेपे सिद्धे धाताविति योगविभागेन पुनर्वृद्धिविधानार्थम् । तेन ऋत्यकः (कौमुदी-92) इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति ॥
खरवसानयोर्विसर्जनीयः - इति रेफस्येति । उपाच्र्छतीत्यत्र आरित्येकादेशस्य पूर्वन्तवत्त्वेन रेफस्य पदान्तत्वे सति विसर्गे प्राप्ते इत्युत्तरेणान्वयः । कथं विसर्गप्राप्तिरित्यत आह — खरवसानयोः ।रो री॑त्यतो र इति षष्ठन्तमनुवर्तते । तच्च पदस्येत्यधिकृतस्य विसेषणम् । येन विधिरिति रेफान्तस्येति लभ्यते । खरि अवसाने च परतो रेफान्तस्य पदस्य विसर्जनीयः स्यादित्यर्थः । अलोऽन्त्यस्येत्यन्त्यस्य भवति । अभावरूपस्य चावसानस्य बुद्धिकृतं परत्वम् । फलितमाह — खर्यवसाने चेति । पदान्त इति ।विद्यमानस्ये॑ति शेषः । यदि तु अन्त्यवर्णस्य अवसानसंज्ञा तदा अवसानं इत्यत्र योजना विरामोऽवसानमित्यत्रोक्ता । इति विसर्ग इति । उपाच्र्छतीत्यादवनेन विसर्गे प्राप्ते तत्परिहार उच्यत इत्यर्थः । अन्तवदिति । अन्तवत्त्वेन पदान्तत्वं प्राप्तस्य रेफस्य विसर्गो न भवतीत्यर्थः । कुत इत्यत आह — उभयथर्क्ष्विति । अन्यथा तत्रापि विसर्गनिर्देशः स्यादिति भावः । नन्वत्र धाताविति व्यर्थम् , उपसर्गग्रहणादेव धातावित्यस्य सिद्धेः, क्रियायोगे सत्येव उपसर्गसंज्ञाविधानात् । नच उपगत ऋकार उपर्कार इत्यत्र क्रियायोगस्य सत्त्वादुपसर्गत्वाच्च वृद्धिप्राप्तौ तन्निवृत्त्यर्थमिह धातुग्रहणमिति वाच्यं, यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इति परिभाषया गम्यमानगमनक्रियां प्रत्येव उपसर्गत्वात्, प्रकृते च ऋकारादिनिमित्तकोपसर्गत्वस्यैव विवक्षितत्वादित्याशङ्क्याह — उपसर्गेणैवेत्यादिना । उपसर्गग्रहणेनैव धातोराक्षेपे= अन्यथानुपपत्तिरूपार्तापत्तितो लाभे सति, पुनर्धाताविति वचनं पुनर्विधानार्थमित्यन्वयः । कथं पुनर्विधानलाभ इत्यत आह — योगविभागेनेति । योगशब्दः सूत्रशब्दपर्यायः । उपसर्गादृतीति धाताविति च सूत्रं विभज्यते । तत्र उपसर्गादृतीति पूर्वसूत्रे धातावित्यर्थाल्लभ्यमादाय उक्तार्थलाभः । धातावित्युत्तरसूत्रेऽपि उपसर्गादृतीति पूर्वसूत्रमनुवर्त्तंते । तथाच पूर्वसूत्रसमानार्थकमेतत्सूत्रं संपद्यत इति पुनर्विधानलाभ इत्यर्थः । किमर्थमिदं पुनर्विधानमित्यत आह-तेनेति । पुनर्विधानेनेत्यर्थः ।
खरवसानयोर्विसर्जनीयः - न विसर्ग इति । एतच्चसुखार्त॑इत्यादावपि बोध्यम् ।
लघुसिद्धान्तकौमुदी
खरि अवसाने च पदान्तसाय रेफस्य विसर्गः। (संपुंकानां सो वक्तव्यः)। संस्स्कर्ता, संस्स्कर्ता॥
महाभाष्यम्
खरवसानयोर्विसर्जनीयः ।। विसर्जनीयोऽनुत्तरपदे।। विसर्जनीयोऽनुत्तरपद इति वक्तव्यम्। इह मा भूत्-नार्कुटो नार्पत्य इति।। तत्तर्हि वक्तव्यं विसर्जनीयोऽनुत्तरपद(1) इति?।। न वा बहिरङ्गलक्षणत्वात्।।न वा वक्तव्यम्।। किं कारणम्?।। बहिरङ्गलक्षणत्वात्। बहिरङ्गो रेफोऽन्तरङ्गो विसर्जनीयः। असिद्धं बहिरङ्गमन्तरङ्गे।। नैष युक्तः परिहारः। अन्तरङ्गं बहिरङ्गमिति प्रतिद्वन्द्वभाविनावेतौ पक्षौ, सत्यन्तरङ्गे बहिरङ्गं, सति च(2) बहिरङ्गेऽन्तरङ्गं भवति(2)। न चात्रान्तरङ्गबहिरङ्गयोर्युगपत्समवस्थानमस्ति(3)।। किं कारणम्?।। असिद्धत्वात्।। कथमसिद्धत्वम्(1)?।। पूर्वत्रासिद्धमिति। न चाऽनभिनिर्वृत्ते(1) बहिरङ्गेऽन्तरङ्गं प्राप्नोति, तत्र निमित्तमेव बहिरङ्गमन्तरङ्गस्य भवति(2)। -अनिमित्तं बहिरङ्गमन्तरङ्गस्याऽसिद्धत्वात्(2)- अनि(3) मित्तं बहिरङ्गमन्तरङ्गस्य।। किं कारणम्?।। असिद्धत्वात्।। कथमसिद्धत्वं यावतापूर्वत्राऽसिद्धमित्यसिद्धा परिभाषा। असिद्धं बहिरङ्गमन्तरङ्गे।। कथम्?।। कार्यकालं संज्ञापरिभाषामिति। खरवसानयोर्विसर्जनीयः। उपस्थितमिदं भवत्यसिद्धं बहिरङ्गमन्तरङ्ग इति। एवमेषा सिद्धा परिभाषा(1) भवति।। कुतो नु(2) खल्वेतद्द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः पूर्वत्रासिद्धमिति च,(1)असिद्धं बहिरङ्गमन्तरङ्गः इति च,-पूर्वत्रासिद्धमित्येतामुपमृद्याऽसिद्धं बहिरङ्गमन्तरङ्ग इत्येतया व्यवस्था भविष्यति, न पुनरसिद्धं बहिरङ्गमन्तरङ्ग इत्येतामुपमृद्य पूर्वत्रासिद्धमित्येतया व्यवस्था स्यात्?।। अतः किम्?।। अतोऽयुक्तः परिहारो न वा बहिरङ्गलक्षणत्वादिति।।